Tuesday, 6 January 2009

अधिकार 121-133


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

 . गान्धर्वविवाहाध्याय
 धिकार १२१. अनुभृतसुखं स्मृत्वा रोदनम्


१२०१
पानकाले परं नृणां मद्यान्मोदप्रदायकात् ।
स्मृतमात्रेण चानन्ददाता कामो विशिष्यते
१२०२
विश्लेपेऽपि प्रिय: स्वीयप्रियां चित्तं यदि स्मरेत्।
तदेव वारयेत् खेदं, सर्वदा मोदद: स्मर: ॥
१२०३
क्षुतं प्राङ्‌‍निस्सेरदास्यात् स्थगितं तद्भवेत्तत: ।
ज्ञायते तेन मां स्मृत्वा प्रियो व्यस्मरदिप्यपि ॥
१२०४
वासं करोति मच्चिते सर्वदा प्रियकामुक: ।
तथा तदीयचित्तेऽपि वसामि किमहं न वा? ॥
१२०५
मम वस्तुं स्वचित्ते न स्थानं यच्छति य: प्रिय: ।
हृदये मम निर्लजं कथं नित्यं वसेदसौ ॥
१२०६
प्रियेण भुक्तदिवसान् स्मृत्वा जीवामि सम्प्रति ।
तदभावे जीवनं मे सर्वदा दुर्लभं भवेत् ॥
१२०७
प्रिये स्मृतेऽपि मच्चित्तं दग्धं विश्लेषदु:खत: ।
यद्यहं तं विस्मरेयं न जाने किं भवेदिति ॥
१२०८
प्रियं स्मराम्यहोरात्रं तदर्थ न स कुप्यानि ।
महोपकारं मन्येऽहमिदं तेन कृतं मम ॥
१२०९
'आवामभिन्नावि' त्यक्तवा विना प्रेम प्रवर्तते ।
(Text missing.....) तत्कृत्यं (Text missing....)
१२१०
प्रियो मया सह स्थित्वा वियुज्याद्य जगाम ।
(Text missing .... missing.......) चन्द्रमा: ! ॥



 धिकार १२२. दृष्टस्वप्नकथनम्


१२११
प्रियान्देशसहित: स्वप्नो य: समुपागत: ।
निद्रायां तस्य चातिथ्यं कीदृशं करवाण्यहम् ॥
१२१२
नेत्रे निद्रावशं प्राप्ते स्वप्ने प्राप्तं प्रियं प्रति ।
कथं 'कृच्छेण जीवामी' त्येतद् ब्रूयां विहेषत: ॥
१२१३
जाग्रद्दशायां यो नैव मयि प्रीतिं व्यधात् प्रिय: ।
स्वप्ने वा दर्शनात्तस्य जीवाम्यत्र कथञ्चन ॥
१२१४
मयि जाग्रति य: प्रीतिं कामुको नाकरोन्मयि ।
स्वप्नेन स समानीतस्तत्न प्रीतिं करोम्यहम् ॥
१२१५
जाग्रद्दशायां यद् दृष्टं तदासीत् क्षणिकं सुखम् ।
अद्य स्वप्नगतानन्दो य: सोऽपि क्षणिकोऽभवत् ॥
१२१६
भुवि जाग्रदवस्थेयं सर्वदा न भवेद्यदि ।
तदा प्रिय: स्वप्नदृष्टो मां वियुज्य न यास्पति
१२१७
मयि जाग्रति संयुज्य य: क्रूरो नाकरोत् प्रियम् ।
स्वप्नो परं समागत्य मां कुतो व्यथयत्यसौ ॥
१२१८
मत्स्वप्ने कामुक: प्राप्य स्कन्धमारुह्य वर्तते ।
निद्रान्ते पूर्ववत्सोऽयं मम मानसमाविशेत् ॥
१२१९
अदृश्यं स्वप्नवेलायां तथा जाग्रद्दशास्वपि ।
प्रियं प्रीतिमकुर्वन्तं स्मृत्वा खेदयुता: स्त्रिय: ॥
१२२०
'त्याक्तवाऽस्मान् नायक: प्रायादि' ति निन्दन्ति या: स्त्रिय: ।
अविर्भवन्तं स्वप्ने तं न निन्दन्ति हि ता: किमु ॥



धिकार १२३. सायङ्कालदर्शनेन खेद:


१२२१
संयुज्याथ वियुक्तानां नारोणां कामुकै: सह ।
प्राणभुग्यमरूपस्त्वं सायङ्काल ! विभासि मे ॥
१२२२
सायंसन्ध्ये ! अयि भ्रान्ते ! खिन्ना त्वं दृश्यसेऽधुना ।
तव प्रियो मत्प्रियवद् दयाशून्योऽभवत् किमु?
१२२३
सुशीतला प्रसन्ना या सायं सन्ध्या पुरा बभै ।
सैवाद्य मम नैराश्यमृलकं खेदमातनोत् ॥
१२२४
प्रिये दूरं गते वध्यस्थलं घातकवत् स्वयम् ।
सायङ्काल: समागत्य मम प्राणान् हरत्ययम् ॥
१२२५
प्रात:कालेकृते कोऽयमुपकारो मया कृत: ।
सायङ्कालकृते कोऽयमपकारो मया कृत: ॥
१२२६
कामुकेन यदाऽहं तु न्यवसं प्रेमपूर्वकम् ।
सायङ्कालो व्यथां कुर्योदित्येतन्नाविदं पुरा ॥
१२२७
कामरोगाख्यकुसुमं प्रात: कोरकतां गतम् ।
मध्याह्ने पक्कतां प्राप्य सायं विकसति स्वयम् ॥
१२२८
सायङ्कालस्य तीक्ष्णस्य दूतो भूत्वा स्वयं किल ।
गोपहस्तगतो वेणुरायुधात्मा हिनस्ति माम् ॥
१२२९
चित्तक्षोभकरे तस्मिन् सायङ्काले समागते ।
यथाऽहं तद्वदन्येऽपि ग्रामीणा: खेदमाप्नुयु: ॥
१२३०
पत्युर्वियोगकालेऽपि स्थिता: प्राणा:, धनात्यये ।
गतं प्रियं विचिन्त्याद्य सायं निर्यान्ति देहत: ॥



 धिकार १२४. अवयवसौन्दर्यहानि:


१२३१
वियोगखेदं दत्वा मे दूरदेशं ययौ प्रिय: ।
तं स्मृत्वा रोदनान्नेत्रे पुष्पै: स्यातां जितेऽधुना ॥
१२३२
(Text missing.... missing...) करोदिति ॥

वार्तामश्रुनिभान्नेत्रे विवर्णे वदत: किमु ॥
१२३३
पतिसंयोगसमये स्मन्धौ मोदेन वर्धितौ ।
कृशौ भूत्वाद्य विश्लेषं वोधयन्ताविव स्थितौ ॥
१२३४
स्कन्धौ नायकविश्लेषात् क्षीणौ शोभाविवर्जितौ ।
तदर्थ क्षीणहस्तभ्यां बभूवुर्वलयाश्‍च्युता: ॥
१२३५
स्कन्धौ विभ्रष्टवलयौ हीनशोभौ तथाविमौ ।
निर्दयस्य प्रियस्यास्य काठिन्यगुणमूचतु: ॥
१२३६
स्कन्धक्षयं ततो भ्रशं वलयानां निरोक्ष्य च ।
प्रियं निन्दन्ति कठिनं जना:, खिन्नस्ततोऽस्म्यहम् ॥
१२३७
हे चित्त ! भुजयो: कार्श्यं निर्दयाय प्रियाय मे ।
विनिवेद्य ततो जातं महत्त्वं प्राप्यतां त्वया ॥
१२३८
परिष्यवज्य प्रियं हस्तो यदा तु शिथिलीकृत: ।
तदा वलयहस्ताया: फालमासित्तु निष्प्रभम् ।
१२३९
आलिङ्गितायां कामिन्यां मध्ये वायुर्विशेद्यदि ।
तस्यास्तदा शीतनेत्रे स्यातां वैवर्ण्यसंयुते ॥
१२४०
प्रियाया: फालदेशस्थवैवर्ण्यं समुदीक्ष्य तु ।
तदीयनयनाक्रान्तवैवर्ण्यं प्राप खिन्नताम् ॥


 धिकार् १२५. मनस्येव कथनम्


१२४१
दु:खरूपामयं हन्तुमेकं भेषजमस्ति चेत् ।
हे चित्त ! सम्यगालेच्य न ब्रूया: किन्तु तत्तु मे ॥
१२४२
कामुके मयि चाप्रीते हे चित्त ! त्वं परं कुत: ? ।
स्मृत्वा तं दु:खमाप्नोषि भ्रान्तस्त्वं विजयी भवा ॥
१२४३
हे चित्त ! मय्युषित्वा त्वं स्मृत्वा तं खिद्यसे कुत: ।
खेदप्रद: प्रियो मां तु स्मृत्वा नायाति चान्तिकम् ॥
१२४४
हे मानस ! प्रियं (Text missing) ष्टुं मन्नेत्रे
इमे नेत्रे त्वया साकं नीत्वा गच्छ तदन्तिकम् ॥
१२४५
कामुको वाञ्छितोऽस्माभि:, अस्मान्नासौ वृणेतु वा ।
हे चित्त ! कथमस्माभिरयं त्यक्तुं हि शक्यते ॥
१२४६
त्वत्प्रियस्त्वां वियुज्याथ मिलेद्यदि तदा पुन: ।
रतिं न कुरुषे धैर्यात् पश्चात्कुप्यसि हे मन: ! ॥
१२४७
सच्चित्त ! त्यज कामं वा लज्जां वा त्वं परित्यज ।
तदेतदुभयं सोढुमेकदा नैव शक्नुयाम् ॥
१२४८
वियोगसमये नाथो नाकरोत् प्रीतिमित्यत्: ।
खिन्नस्तमनुसृत्य त्वं चित्त ! यासि कुतो भ्रमात् ॥
१२४९
मन्मानस ! त्वयि सदा प्रिये तिष्ठति मामके ।
तमन्विष्य बहि: कस्मात् वृथा गच्छसि कुत्र वा ॥
१२५०
त्यक्त्वाऽस्मान् गतवन्तं तं प्रियं चित्ते निवेश्य ।
स्मृत्वा देह: कृशे भूत्वा शोभाविरहितोऽभवत् ॥



 धिकार १२६. धैर्यहानि:


१२५१
लज्जारूपार्गलोपेतं कवाटं धैर्यनामकम् ।
कामनामकुठारोऽय भिनत्ति शतधा किल ॥
१२५२
कामनात्मकवस्त्वेतत्, नूनं दाक्षिण्यवर्जितम् ।
यतो मदीयं चित्तं तद्रात्रावपि नियोजयेत् ॥
१२५३
काममन्तश्छादयित्तुं मदीयं प्रयते बहु ।
मामतीत्य तु तद्वेगात् निर्याति क्षुतवद्बहि: ॥
१२५४
धैर्यवानहमित्यासीदद्यावधि मतिर्मम् ।
किन्त्वद्यान्त: स्थित: कामो निष्क्रम्य प्राविशत् सभाम् ॥
१२५५
प्रियस्य विप्रयुक्तस्य पदानुगमनं विना ।
स्थातुं धैर्येण कामिन्यो न जानन्ति कदापि ता: ॥
१२५६
मद्गत: कामरोगोऽयमवाच्यमहिमान्वित: ।
विरक्तस्य प्रियस्यानुगमनं मे यतो मतम् ॥
१२५७
प्रिय: प्रेम्णा समागत्य कुर्यान्न: प्रार्थिनं यदि ।
तर्हि लज्जाभिधं वस्तु नैव ज्ञानं भवेन्मम ॥
१२५८
स्त्र्वर्तिधैर्यसंज्ञाकप्राकारस्य विभेदनम् ।
वञ्चकप्रियनम्रोक्तिरूपसैन्येन शक्यते ॥
१२५९
प्रिये समागते त्यक्त्वा तमन्यत्नागमं क्रुधा ।
मच्चित्ते तेन संयुक्ते त्वलभे तेन सङ्गमम् ॥
१२६०
अग्निलग्रवसातुल्यं प्रियलग्नं द्रवेन्मन: ।
तादृक्चित्तयुता नार्यो वियुक्ता: स्यु: कथं प्रियम् ॥



 धिकार १२७. कामुकयोरन्योन्यव्यसनम्


१२६१
प्रियगमपथं प्रेक्ष्य नेत्रे स्यातं च निष्प्रभे ।
गाताह्नां गणनात् स्त्रीणामङ्गुल्य: क्षीणतां गता: ॥
१२६२
त्यक्त्वा गतं प्रियं चाहं विस्मरेय यदि प्रिये ! ।
स्कन्धाभ्यां हीनशोभाभ्यां स्त्रस्ता: स्युर्वलयास्तदा ॥
१२६३
जयैषी धैर्यसाह्येन प्रियो देशान्तरं ययौ ।
अहमद्यापि जीवामि तदागमनकांक्ष्या ॥
१२६४
'अस्मान् विहाय गतवान् प्रत्येगच्छेत् प्रियोऽद्य स: ।
इति मत्वा मनो वृक्षशाखामास्थाय पश्यति ॥
१२६५
पश्येयं तु यथेच्छं तं प्रिये प्रत्यागते सति ।
तदा क्षीणभुजाभ्यां तु वैवर्ण्यमपयास्यति ॥
१२६६
एकदा मां समागच्छेत् मत्प्रिय:, तदनन्तरम् ।
दु:खव्याधिर्यथा नश्येत् पिबेयं तत्प्रभां तथा ॥
१२६७
नेत्रतुल्य: कामुको मे यद्यागच्छेन्मदन्तिकम् ।
आलिङ्गनमुत त्यागो सम्भोगो वा तदा भवेत् ॥
१२६८
समाप्तसङ्गरो राजा जयतात् शत्रुमण्डलम् ।
सपत्‍नीका वयं कुर्म: सायं सन्ध्यामलङ्कृताम् ॥
१२६९
प्रत्यागन्तुं यद्दिनं तु निर्दिशेत् प्रोषित: प्रिय: ।
वियुक्तायास्तदेकं तु दिनं सप्तदिनं भवेत् ॥
१२७०
भग्रचित्ता कामुकी सा जीवितान्तं व्रजेद्यदि ।
प्रियागमेन नो लाभ: संश्लेषो वा भवेत् कथम्? ॥



 धिकार् १२८. अभिज्ञाननिवेदनम्


१२७१
गुप्तेऽपि विषयेऽतीत्य निर्याते तव चक्षुषी ।
अन्तर्गतं रहस्यार्थमचिरान्मम वक्ष्यत: ॥
१२७२
वंशुतुल्यकरा या तु पूर्णसौन्दर्यशालिनी ।
तस्या प्रियायां लज्जाख्यस्त्रीधर्म: पूर्णतां गत: ॥
१२७३
आबद्धमणिरन्ध्रान्त:प्रसरत्सूत्रवद् ध्रुवम् ।
प्रियालावण्यमध्येऽपि स्यादभिज्ञानमुत्तमम् ॥
१२७४
प्रसूनकुट्‍मलान्त:स्थसौरभेण समं भुवि ।
कामिनीहास्यमध्येऽपि सूचना भाति काचन ॥
१२७५
मामुद्दिश्य तु कामिन्या सङ्केतो य: पुरा कृत: ।
स तु मद्यसनाधिक्यवारकौषधगार्भित: ॥
१२७६
प्रेमाधिक्येन चादौ यन्मेलनं, तदित: परम् ।
वियोगमूलकप्रेमत्यागचिह्ननिदर्शनम् ॥
१२७७
प्रिय: कायेन बद्धोऽपि विश्लेषं मनसा ययौ ।
ज्ञात्वेदं वलया: पूर्व मम हस्ताद्विनिस्सृता: ॥
१२७८
मां वियुज्य प्रिय: पूर्वदिन एव जगाम स: ।
मत्काये किन्तु वैवर्ण्यमभूत् सप्तदिनात्पुरा ॥
१२७९
स्वीयस्कन्धौ स्ववलयान् स्वपादौ यद्ददर्श सा ।
तदेतद् भाविविश्‍लेषनिरूप कनिदर्शनम् ॥
१२८०
कामरोगं स्वनेत्राभ्यामुक्तवा स्त्रीभिश्च याचनम् ।
भवेत् स्त्रीत्वगुणस्यापि स्त्रीत्वधर्मप्रकल्पनम् ॥



 धिकार १२९. संभोगत्वरा


१२८१
तुष्टिं दर्शनमात्रेण मोदं च स्मरणात् तत: ।
कामार्तो लभते लोके न सुरासेवकस्तथा ॥
१२८२
तालपादपवत् कामो वृद्धे सति विशेषत: ।
वियिगो यववत्स्वल्पोऽप्यकार्य: कामुकै: सह ॥
१२८३
वक्कृत्य (Text missing...... missing.........)
अथापि तमदृष्ट्‍वा मे नेत्रे नावापतुर्मुदम् ॥
१२८४
वियुज्य तं प्रिय गन्तुमैच्छमादौ सखि प्रिये ! ।
मन्मनस्तत्त विस्मृत्य रन्तुं तेन सहागमत् ॥
१२८५
प्रिये दृष्टिं गते दोषान् तदीयान् विस्मराम्यहम् ।
अञ्जनालङ्कृतं नेत्रं शलाकां विस्मरेद्यथा ॥
१२८६
प्रिये दृष्टिपथं याते दोषस्तस्मिन्न दृश्यते ।
प्रियाऽदर्शनवेलायां गुणस्तस्मिन्न दृश्यते ॥
१२८७
बुध्वापि यत्‍नवैफल्यं विप्रलंभं करोति सा ।
प्रवाहाकर्षणगुणं ज्ञात्वाऽप्येनं विशेद्यता ॥
१२८८
सुरापानाद् भवेद्धानिरिति ज्ञात्वापि मानव: ।
हर्षात् पिबेद्यथा तद्वत् तव वक्ष: पुनर्वृणे ॥
१२८९
लोके कामसुखं पुष्पादपि मादवसम्युतम् ।
बुध्वा तत्त्वमिदं केचित्, लभन्ते फलमुत्तमम् ॥
१२९०
स्वयं पूर्व समागत्य परिष्वङ्ग च कांक्षती ।
यत्मया संगता तच्च विस्मृत्य कलुषीकृता ॥



 धिकार् १३०. मनसि निर्वेद:


१२९१
विस्मृत न: प्रियाधीनं वर्तते तस्य मानसम् ।
स्थित्वा त्वं मद्धशे चित्त ! न साह्यं कुरुषे मम ॥
१२९२
कामुको न वृणोत्यस्मानिति ज्ञात्वापि हे मन: ।
न स कुप्येदिति धिया त्वं प्रयासि तदन्तिकम् ॥
१२९३
मां विहाय यथेच्छं हि प्रयासि त्वं प्रियं प्रति ।
न सन्ति मित्राण्यार्तानामिति किं मन्यसे मन: ! ॥
१२९४
विप्रलम्भमकृत्वैव तेन भोगं तु वाञ्छसि ।
चित्त ! को वा त्वया सार्ध विचारं कर्तुमीहते ॥
१२९५
अप्राप्ते नायके तस्य प्राप्‍त्यर्थ, प्राप्‍त्यनन्तरम् ।
वियोगभीत्या चेत्येवं सर्वदा खिद्यते मन: ॥
१२९६
वियुक्तप्रियदोषाणां स्मरणावसरे सति ।
मां भक्षयति किं चित्तमितीव व्यसनं मम ॥
१२९७
विस्मर्तु कामुको येन मनसा नैव शक्यते ।
तादृङ्‍मूढमनोयोगात् लज्जां विस्मृतवत्यहम् ॥
१२९८
अप्रीतनायकोपेक्षा न युक्तेति विचिन्त्य तु ।
जीवनाशायुतं चित्तं सदा ध्यायति तद्‍गुणान्
१२९९
स्वस्य दु:खे समायाते स्वाधीनं स्वीयमानसम् ।
स्वस्मै साह्यं न कुर्याच्चेत् के वान्ये साह्यकारिण: ॥
१३००
स्वशस्थं स्वीयचित्तं बन्धुतां चेन्न पालयेत् ।
बन्धत्वपालनाभावो ह्यन्येषां युज्यते किल ॥



 धिकार १३१. विप्रलम्भ:


१३०१
वियुक्तकामुकप्राप्तदु:खं द्रष्टुमहं वृणं ।
तस्मात् तमपरिष्वज्य वियुक्ता भव मत्प्रिये ! ॥
१३०२
व्यर्थोऽमितवियोग: स्यात् लवणामितभोज्यवत् ।
मितो वियोग: स्वाद्य: स्यात् मितं च लवणं यथा ॥
१३०३
वियोगदु:खादुन्मोच्य य: स्त्रियं न परिष्वजेत् ।
दु:खितस्य पुनर्दु:खदात्रा तुल्पो भवेदयम् ॥
१३०४
गातां स्त्रियं समाश्वास्य मेलनं न क्रियेत् चेत् ।
स्वतो म्लानलतायास्तन्मूलविच्छेदवद्भवेत् ॥
१३०५
गुणशीलनराणां तु तद्धि लावण्यमुच्यते ।
कुसुमाक्ष्यङ्गनाचित्ते या विश्लेषविशेषता ॥
१३०६
विना संश्लेषविश्लेषौ काम: स्याद्रसवर्जित: ।
अतिपक्कापक्वफले दृश्येते विरसे यथा ॥
१३०७
किं संगमसुख पश्चात् स्यान्न वेति विचिन्तनात् ।
सुखमूलवियोगेऽपि दु:खमेकं प्रदृश्यते ॥
१३०८
अस्मत्कृते प्रिय: खिद्येदिति मत्वापि या प्रिया ।
न खिद्येत्तादृशस्त्रीणां निन्दया किं प्रयोजनम् ॥
१३०९
छायामाश्रित्य यत् तिष्ठेत् तज्जलं रससंयुतम् ।
प्रेमपूर्णनरै: साकं विप्रलम्भो रसप्रद: ॥
१३१०
वियोगेन कृशां नारीं यो निराकुरुते प्रिय: ।
तेनापि सङ्गं चित्तमाशया वाञ्छति ध्रुवम् ॥



 धिकार १३२. विप्रलम्भरहस्यम्


१३११
त्वद्वक्ष: सकलस्त्रीभि: स्वनेत्राभ्यां यथेच्छया ।
यतो दृष्‍ट्‍वाऽनुभूतं तत्, नाहं भोक्‍तुं वृणे प्रिये ! ॥
१३१२
दीर्घायुष्मानिति वच: क्षुतादौ कथ्यते जनै: ।
श्रोतुमाशीर्वचो मत्त: प्रिय: क्षुतमथाऽकरोत् ॥
१३१३
'प्रदर्शनार्थमन्यासां त्वयैतन्मण्डनं कृतम्' ।
इति मालाभूषिताङ्ग प्रियं दृष्‍ट्‍वा चुकोप सा ॥
१३१४
"सर्वस्मादप्यहं प्रीतिविशेषं त्वयि च न्यधाम्" ।
इति प्रियवच: श्रुत्वा का वाऽन्येति चुकोप सा ॥
१३१५
'इह जन्मनि विश्लेषो न स्यादि' त्यवदं प्रियाम् ।
'भाविजन्मनि विश्लेषो भवेद्वे'त्यरुदत् प्रिया ॥
१३१६
'त्वं मया तु स्मृते' त्युक्त, 'विस्मृतस्य हि संस्मृति: ।
तेन मां विस्मृतोऽसि त्वमि'ति तत्याज मां प्रिया ॥
१३१७
क्षुतं कृतं मया, सद्य आशिषं प्राह मां प्रिया ।
'कां स्मृत्वा क्षुतमायात' मिति क्रुद्धा रुरोद सा ॥
१३१८
'कां त्वां स्मृतवतीत्यंशो न ज्ञात: स्याद्यथा मया ।
तथा कर्तु क्षुतं रुद्रं र्वय'त्युक्त्वा रुरोद सा ॥
१३१९
वियोगेऽपि समाश्वास्य कृता प्रीता मया प्रिया ।
'स्त्र्यन्तरेऽपि त्वया चेत्थं कृतमि'त्यरुदत् प्रिया ॥
१३२०
प्रियाङ्गशोभावैशिष्टयं सम्यक्पश्याम्यहं यदा ।
'मय्यीक्षसे कया साम्यमि'ति क्रुद्धयेत् तदा प्रिया ॥



 धिकार १३३. विप्रलम्भसुखम्


१३२१
निर्दुष्टेन प्रियेणापि विप्रलम्भो भवेद्यति ।
तदस्मासु विशेषण प्रेमाधिक्यप्रदायकम् ॥
१३२२
विप्रलम्भेन सञ्जातमत्यल्पं व्ससनं भुवि ।
नायकप्रेमविच्छेदकारकं चापि सम्मतम् ॥
१३२३
जलं भुम्यं यथा शोलष्टं तथा स्निग्धप्रियै: सह ।
जाताद्वियोगादन्य: किं देवलोको भवेदिह ॥
१३२४
दृढभाविपरिष्वङ्गहेतुविश्लेषकर्मणि ।
मन्मनोभञ्जिका काचित् सेना सञ्जायते किल ॥
१३२५
अकारणं वियुक्तस्य कामिनीमृदुहस्तयो: ।
स्पर्शभाग्यविहीनस्य हर्ष: काश्चिद् भवेद् ध्रुवम् ॥
१३२६
कामुकस्य तु विश्लेष: संश्‍लेषादपि मोदद: ।
भुक्तं जीर्ण सुखं दद्यात् यथा वै भाविभोजनात् ॥
१३२७
पराजितो विप्रलम्भे य: स्यान म विजयी मत: ।
भाविसंश्‍लेषवेलायां तत्त्वमेतत् स्फुटं भवेत् ॥
१३२८
फालस्वेदकरं भोग कृत्वा या सुखमन्वभूत् ।
वियुज्यानया सुख तद्वत् किमह प्राप्नुयां पुन: ॥
१३२९
विप्रलम्भं पुन: शोभायुतेयं कुरुतात् प्रिया ।
सम्प्रार्थ्य  ?त् कोपशान्त्यै मम रात्रिर्विवर्धताम् ॥
१३३०
विप्रलम्भात् कामभोग: सुख प्राप्नोति भूतले ।
ततो जाताच्च संश्‍लेषात् विप्रलम्भ: सुखं व्रजेत् ॥


===========================================================

No comments:

Post a Comment