Tuesday, 6 January 2009

अधिकार 101-108


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

राजधर्माध्याय

अधिकार: १०१. निरर्थकं वित्तम्


१००१
अभुक्त्वा स्वार्जितं वित्तं गृहपूर्णं सुपुष्कलम् ।
मृतिं प्राप्तवतस्तस्य किं वित्तेन प्रयोजनम् ॥
१००२
'वित्तेन साध्यते सर्वमि'ति बुद्धया ह्युपार्जितम् ।
यो न दद्याद् ज्ञानशून्य: स नीचं जन्म विन्दते ॥
१००३
धनार्जनैकलक्ष्या ये कृत्वा दानादिसत्क्रियाम् ।
नार्जयन्ति परां कीर्तिं भारायन्ते भुवस्तु ते ॥
१००४
सर्वैरस्पृहणीयस्य दानकृत्यमजानत: ।
किं वावशिष्यते तस्य मरणानन्तरं भुवि ॥
१००५
दानं परेभ्य: स्वेनापि भोगश्चेत्युभयं नृणाम् ।
यदि न स्यात् कोटिसंख्यधनपुञ्जेन किं फलम् ॥
१००६
सत्पात्रदानरूपेण गुणेन रहितो नर: ।
स्वयं भोक्तुमनिच्छंश्च रोग: स्यात् स्वीयसम्पदाम् ॥
१००७
अदत्वैव दरिद्रेभ्यो रक्षितं केनचिद्धनम् ।
अनूढसुन्दरीप्राप्तवार्धकेन समं भवेत् ॥
१००८
ग्राममध्ये फलै: पूर्णो यथैव विषपादप: ॥
१००९
अभुक्त्वैव स्वयं धर्मकृत्वा प्रीतिमन्तरा ।
रक्षितं केनचिद्वित्तं लब्ध्वा‍न्य: सुखमाप्‍नुयात् ॥
१०१०
वृष्टमेघ: पुनर्नीरलाभाद् वृद्धिं यथाश्‍नुते ।
समृद्धनां च दारिद्र्य तथा तात्कालिकं भवेत् ॥



अधिकार: १०२. लज्जशीलता


१०११
अकृत्यकरणोत्पन्नलज्जा लज्जेति कथ्यते ।
नारीणां सहजा लज्जा ततो भिन्नैव दृश्यते ॥
१०१२
अन्नं वस्त्रं तथान्यानि समानि स्युर्नृणां भुवि ।
सतां लज्जाविशिष्टत्वं विशेषगुण उच्यते ॥
१०१३
यथा शरीरमालम्ब्य वर्तन्ते जीवराशय: ।
लज्जामाश्रित्य वर्तेत् महत्वाख्यगुणस्तथा ॥
१०१४
लज्जैवाभरणं लोके गुणज्ञानां महात्मनाम् ।
गभीरगमनं तेषां लज्जाभावे न शोभते ॥
१०१५
अन्यै: प्राप्तापवादं च स्वेन प्राप्तमभूदिति ।
मत्वा यो लज्जते लज्जास्थानं तं मन्यते जन: ॥
१०१६
निजात्मरक्षणोपायलज्जामप्राप्य सज्जना: ।
विपुलां पृथिवीं चापि लब्धुं नेच्छन्ति सर्वदा ॥
१०१७
लज्जायुता नरा: प्राणान् लज्जार्थं विसृजन्त्यपि ।
प्राणरक्षाकृते लज्जां न मुञ्चन्ति कदापि ते ॥
१०१८
यदीयकृत्यं दृष्टान्ये भवेयुर्व्रीडयान्विता: ।
स्वयं न लज्जितो भूयात् तं धर्मो व्रीडया त्यजेत् ॥
१०१९
चारित्रहानि: कस्यापि नाशयेत् कुलगौरवम् ।
कस्यचित् सकलं श्रेयो लज्जाभावो व्यपोहति ॥
१०२०
लज्जाहीनमनस्कानां प्राणेन सह जीवनम् ।
सूत्रबद्धचलद्दारुप्रतिमातौल्यमावहेत् ॥



अधिकार: १०३. कुलगौरवक्षणम्


१०२१
"कुलगौरवनिर्माणकृत्याद्भ्रष्टो न चास्म्यहम्" ।
इत्येवं कथनादन्यन्महत्त्वं नास्ति कस्यचित् ॥
१०२२
पूर्णज्ञानप्रयत्‍नाभ्यां युक्तेनाकुण्ठितेन च ।
कर्मणा कस्यचिद्वंशगौरवं बहु वर्धते ॥
१०२३
वंशौन्नत्यकरे कार्ये सदा प्रयततां नृणाम् ।
बद्‌ध्वा वस्त्रं दृढं कटतां साह्यं कुर्याद्विधि: स्वयम् ॥
१०२४
स्वकुलौन्नत्यसिद्धयर्थं त्वरया यततां नृणाम् ।
विमर्शमन्तरा कार्यं निर्विघ्‍नं सेत्स्यति क्षणे ॥
१०२५
वंशप्रभावं संरक्ष्य जीवता शास्त्रवर्त्मनि ।
तेन बान्धव्यमिच्छंस्तु लोकस्तमनुवर्तते ॥
१०२६
स्वोत्पन्नकुलनिर्वाहशक्तिं संपाद्य जीवनम् ।
तात्त्विकं पौरुषं ताद्धि पुरुषाणां प्रशस्यते ॥
१०२७
धीरो वहेद्युद्धभारं यथा बहुषु सत्स्वापि ।
शक्तस्तथा वहेद्वंशभारमन्येषु सत्स्वापि ॥
१०२८
कुलगौरवरक्षार्थं कालो नात्र प्रतीक्ष्यताम् ।
आलस्यात् कालकांक्षायां हीयते कुलगौरवम् ॥
१०२९
कुलसंभावितानार्थवारणे यत्‍नशालिन: ।
शरीरं कस्यचित्किंनु दु:खमात्रैकभाजनम् ॥
१०३०
यस्मिन कुले भाविदु:खकुठाराभिहत: पतेत् ॥


अधिकार: १०४. कृषिकर्म


१०३१
नानाकर्मकरो लोक: कृषिमात्रेण जीवति ।
अत: क्लेशकरं चापि कृषिकर्म प्रशस्यते ॥
१०३२
अन्यकर्मकराणं च समेषां जीवधारणात् ।
जनानां कर्षका: सर्वे तिष्ठन्त्यक्षाणिवद् भुवि ॥
१०३३
जीवतां कृषिकार्येण भवेदुत्तमजीवनम् ।
परान् संस्तुत्य जीवन्त: परे सर्वे पराश्रया: ॥
१०३४
धान्यसम्पत्समृद्धाश्च दयावन्त: कृषीवला: ।
अन्यराज्ञां भुवं स्वीयराजाधीनं वितन्वते ॥
१०३५
कृषिं करेण संवर्ध्य भुञ्जानास्ते कृषिवला: ।
न याचन्ते परान्, किन्तु यच्छन्त्यल्पमथार्थिनाम् ॥
१०३६
कृषिवालानां हस्तास्तु कृषिहीनो भवेद्यदि ।
विरक्तानां यतीनां च जीवनं दुर्लभं तदा ॥
१०३७
कृष्टं पादांशत: शुष्कं कृत्वा बीजस्य पातनात् ।
दोहदं मुष्टिमात्रं च विना भू: स्यात् फलप्रदा ॥
१०३८
कर्षणाद् दोहदं श्रेष्ठं द्वयं कृत्वा ततस्तृणम् ।
निष्कास्य रक्षणाद्भूमे: न मुख्यं जलसेचनम् ॥
१०३९
केदारमनिशं गत्वा स्वामी यदि न पश्यति ।
भूमिरप्रीतिपत्नीव विरक्ता तं परित्यजेत् ॥
१०४०
'दरिद्रा वयमि'त्युक्त्वा कृषिकर्मपराङ्‌मुखान् ।
तान् समीक्ष्याथ भूदेवो हसेदज्ञानसंयुतान् ॥


अधिकार: १०५. दारिद्र्यम्


१०४१
दारिद्र्येण समं लोके किं भवेद् दु:खदायकम् ।
इति प्रश्नस्य दारिद्र्येमेवेत्युत्तरमुच्यताम् ॥
१०४२
लभेत् सहवासं यो दारिद्र्याभिधपापिना ।
ऐहिकामुष्मिकसुखं न विन्देत् स मानव: ॥
१०४३
दादिद्र्यसंज्ञिकी त्वाशा यमाश्रित्य वसेन्नरम् ।
कुलश्रैष्ठ्यं च कीर्तिश्च तं विहाय विनि:सरेत् ॥
१०४४
महाकुलप्रसूतानामुत्तमानां वचस्यापि ।
नीचवाक्यप्रयोगाख्यदोषो दारिद्र्यतो भवेत् ॥
१०४५
दारिद्र्यदु:खतप्तानां नृणां तेनैव हेतुना ।
भिन्नभिन्नान्यनेकानि दु:खानि प्रविशन्ति तान् ॥
१०४६
दारिद्रा: शास्त्रतत्त्वर्थज्ञानवन्तो‍ऽपि तद्वच: ।
न कोऽपि श्रुणुयाल्लोके व्यर्थमेव भवेद्वच: ॥
१०४७
अधर्महेतुदारिद्र्यसमाविष्टं नरं भुवि ।
जननी तमुदासीनं मत्वा दूरीकरोत्यहो ॥
१०४८
मरणान्तकरक्रूरदारिद्र्यानुभवव्यथा ।
श्च: पुन: किं भवेद्वेति दरिद्र: चिन्तयेत् सदा ॥
१०४९
कश्चिन्मन्त्रबलादग्‍नौ सुखं स्वप्तुमपि क्षम: ।
परं दरिद्रावस्थायां स्वप्तुं को वा भवेत् क्षम: ॥
१०५०
भोग्यार्थवस्तुरहितदरिद्रा रागवर्जिता: ।
यवागूलवणार्थं तैर्भिक्षुत्वं नाप्यगृह्यत ॥


अधिकार: १०६. याचना


१०५१
दातुर्दर्शनवेलायां तस्मिन युक्तं हि याचनम् ।
दातुर्नेति वचस्तस्य दोषाय स्यान्न चार्थिनाम् ॥
१०५२
याचको वाञ्छितं वस्तु लभेत् दातरि ।
याचनापि तदा तस्य मोददा न तु दु:खदा ॥
१०५३
वञ्चनातीतचित्तानां धर्मज्ञानां समक्षत: ।
अर्थिनां याचनं चापि नूनं श्रेष्ठ्याय भूयते ॥
१०५४
स्वप्नेऽपि कपटं वाक्यं प्रयोक्तुमविजानत: ।
दातुरग्रे याचनापि दानेन सादृशं भवेत् ॥
१०५५
नेत्यनुक्त्वा स्थितं वस्तु दातुमिष्टस्य कस्यचित् ।
अद्यापि सत्वाद्दातृणामग्रे तिष्ठन्ति याचका: ॥
१०५६
विहाय कपटं तत्त्ववक्तुर्दातुर्हि दर्शनात् ।
याचकानां सुदारिद्र्यदु:खं नश्येत्स्वतोऽखिलम् ॥
१०५७
प्रीतिपूर्वं गौरवेण याचकेभ्य: प्रयच्छत: ।
दातृन् दृष्ट्वा याचकस्तु मनस्यन्त: प्रमोदते ॥
१०५८
याचकानामभावे तु नराणां भुवि जीवनम् ।
सूत्राकृष्टचलद्दारुबिम्बवत् कृत्रिमं भवेत् ॥
१०५९
दातृणामन्तिकं गत्वा दारिद्रा याचका भुवि ।
न याचन्ते यदि तदा महिमा स्यात् कथं प्रभो: ॥
१०६०
अर्थिभिर्विजितक्रोधैर्भाव्यं क्षेमार्थिभि: सदा ।
दारिद्र्यं स्वगतं स्वस्य भवेद् ज्ञानप्रदायकम् ॥



अधिकार: १०७. याचनाभीति:


१०६१
कापट्यमन्तरा हर्षपूर्वकं दामकिरणम् ।
अग्रेऽपि याचनाभाव: श्रेष्ठ: कोटिगुणो मत: ॥
१०६२
केषांचिद्याचनावृत्तिमीश: शिरसि चेल्लिखेत् ।
लोककर्ता निर्दयोऽसौ स्वयं भवतु याचक: ॥
१०६३
दारिद्र्यं याचनान्नश्येदिति निर्णयकारिणा ।
यत्‍नशून्येन सदृशो मूर्खो नास्ति व्यथाकर: ॥
१०६४
दारिद्र्यप्राप्तिकालेऽपि याच्ञाकार्यमकुर्वताम् ।
महत्वं सकलां पृथ्वीं समभिव्याप्य राजते ॥
१०६५
स्वप्रयत्‍नबलावाप्तयवागूजलवस्तुन: ।
पानादप्यधिको मोददायको नास्ति कश्चन ॥
१०६६
पशुरक्षणधार्मार्थं जलयाचनरूपकम् ।
कर्मापि याचनाकर्तु: जिह्वाया दोषदं भवेत् ॥
१०६७
याचनीयं यदि भवेद्दातु: कपटिन: पुर: ।
न कार्या याचनेत्युक्त्वा याचे‍ऽहं याचकान् प्रति ॥
१०६८
दारिद्र्याम्बुधिसन्तारहेतुयाचननाविका ।
कापट्याख्यशिलाभूम्या घर्षिता शिथिला भवेत् ॥
१०६९
याच्ञाव्यसनसंस्मृत्या चित्तं नूनं द्रवीभवेत् ।
कापट्यदोषस्मरणे न द्रवेत्, किन्तु नश्यति ॥
१०७०
नेति श्रवणमात्रेण प्राणो गच्छति चार्थिनाम् ।
स्थितेऽ‍पि नेति ब्रुवतां प्राणश्छन्नो वसेत् किमु ॥

अधिकार: १०८. नीचत्वम्


१०७१
आकारेण समै: साकं नीचानामस्ति तुल्यता ।
इदं साम्यन्त्वन्यवस्तुद्विके द्रष्टुं न शक्यते ॥
१०७२
विवेकज्ञानवद्भयोऽपि नीचा: स्युर्भाग्यशालिन: ।
यतस्तै: सदसच्चिन्ता कापि न क्रियते किल ॥
१०७३
लोके नीचस्तथा श्रीश इतीमै भवत: समौ ।
स्वेच्छया वाञ्छितं कार्यमुभाभ्यां क्रियते यत: ॥
१०७४
भुवि नीचजना: स्वस्मादपि नीचान् समीक्श्य तु ।
'तस्मादपि वयं श्रेष्ठं' इति स्युर्ममतापरा: ॥
१०७५
राजदण्डभयान्नीचा भवन्ति गुणशालिन: ।
सच्चारित्रसमेता: स्युस्ते लब्धुं वाञ्छितं क्कचित् ॥
१०७६
श्रुतानेकरहस्यानां स्वयं गत्वा बहुस्थालीम् ।
प्रसारणात् प्रचारार्थपटहा: सन्ति दुर्जना: ॥
१०७७
बद्ध्वा कण्ठे करं बाधाकारकान् घातकान् विना ।
परेषामधमो भुक्तसिक्तहस्तं न दर्शयेत् ॥
१०७८
दु:खश्रवणमात्रेण सन्त: स्युरुपकारिण: ।
नीचा: स्युरिक्षुवत्पिष्टा भवन्ति सहकारिण: ॥
१०७९
अन्नवस्त्रादिसम्पन्नान् जनानुद्वीक्ष्य याचका: ।
असूयया मृषादोषान् सदा शंसन्ति तेष्वपि ॥
१०८०
आत्मानमपि नीचास्तु विक्रेतुं व्यसनागमे ।
सज्जा भवेयु:, सत्कर्म नान्यत् तै: कर्तुमिष्यते ॥

===================================================================










No comments:

Post a Comment