Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)
|
२. राजधर्माध्याय
अधिकार: ८१. प्राक्तनस्नेह:
|
|
|
|
८०१
|
चिरस्निग्धेन सौहार्दत् कृतं
दोषं गुणं तथा ।
सोढ्वा तथैव स्वीकार: चिरस्नेहस्य लक्षणम् ॥ |
८०२
|
यथेच्छं मित्ररचितं स्नेहस्याङ्गं
तदिष्यते ।
तस्मात् तत्कृतकार्यस्य स्वीकृतिर्महतां गुण: ॥ |
८०३
|
स्वन्त्र्यात् मित्ररचितं कार्यं
नाङ्गीक्रियेत् चेत् ।
तेन साकं कृता मैत्री तदा व्यर्था भविष्यति ॥ |
८०४
|
स्ववाञ्छितं च स्वातन्त्र्यात्
सुहृत् कुर्याद्यदि स्वयम् ।
अङ्गीकृत्य च तत्कार्यश्लाघनं महतां गुण: ॥ |
८०५
|
स्वातन्त्र्यमथवा ऽज्ञत्वं
वक्तव्यं तत्र कारणम् ।
स्ववाञ्छितविरोधेन सुहृत् कार्यं करोति चेत् ॥ |
८०६
|
पुरा परिचितं मित्रं खेदे प्राप्तेऽपि
तत्कृते ।
न कदाचिद्विमुञ्चन्ति स्नेहधर्मवशंगता: ॥ |
८०७
|
प्रेम्णा चिरात् स्नेहवद्भि:
कदाचित् खेददायके ।
कार्ये कृतेऽपि सुहृदां तेषु प्रीर्तिन हीयते ॥ |
८०८
|
पूर्वमित्रकृतं दोषमुच्यमानं
परैरपि ।
अश्रुण्वतो मित्रकृतो दोष: सुदिनतां व्रजेत् ॥ |
८०९
|
स्वातन्त्र्येण चिरान्मत्रीं
कुर्वता केनचित् सह ।
सौहार्दं न त्यजेद्यस्तु लोकस्तं बहु मानयेत् ॥ |
८१०
|
कृतेऽपि दोषे सौहार्दत् सोढ्वा
तं सुहृद: स्वयम् ।
य: स्याच्छ्रेष्ठगुणोपेत: श्लाघ्यते रिपुणापि स: ॥ |
|
|
अधिकार: ८२. निर्गुणजनमैत्री
|
|
|
|
८११
|
दुर्गुणा: प्रीतिसम्पन्ना इव
कुर्युश्च मित्रताम् ।
त्यागो दुर्गुणमैत्र्यास्तु वर: स्यात् तस्य वर्धनात् ॥ |
८१२
|
स्वार्थाय कुर्वत: स्नेहं कार्यन्ते
तद्विमुञ्चत: ।
असमथस्य सौहार्दं सर्वदा निष्प्रयोजनम् ॥ |
८१३
|
धनैकलक्ष्या गणिका: तस्करा:
परवञ्चका: ।
लाभौकलक्ष्या: स्निग्धाश्च त्रयस्तुल्यगुणान्विता: ॥ |
८१४
|
पतिं भूमौ पातयित्वा धावता
वाजिना समम् ।
सुहृत् साहयं न कुर्याच्चेत् ऐकान्त्यं वरमिष्यते ॥ |
८१५
|
अप्रयोजकरा नीचजनमैत्री विगर्हिता
।
तादृशस्नेहकरणात् स्नेहभावो वर: किल ॥ |
८१६
|
मूढै:
साकं दृढस्नेहकरणात्, ज्ञानिभि: सह ।
विरोध: कोटिसंख्याकलाभं नूनं प्रयच्छति ॥ |
८१७
|
वहिर्हास्यपरै:
साकं मैत्र्यां यज्जायते सुखम् ।
रिपुमूलसुखं तस्मात् दशकोटिगुणाधिकम् ॥ |
८१८
|
सुसाध्यकार्ये
दुस्साध्यमिव य: सुहृदाचरेत् ।
तेन साकं स्थितां मैत्रीमनुत्तवैव परित्यज ॥ |
८१९
|
उक्त्वैकं
वचसा कार्यमन्यत् कोयेन कुर्वता ।
मैत्री कृता तु स्वप्नेऽपि व्यसनं जनयिष्यति ॥ |
८२०
|
गेहे रहसि संस्तुत्य सभायां
जनमण्डले ।
मैत्री निन्दयता साकं सर्वथा न विधीयताम् ॥ |
|
|
अधिकार: ८३. आन्तरस्नेहशून्यता
|
|
|
|
८२१
|
हार्दस्नेहविहीनस्य
बाह्यस्नेहं वितन्वत: ।
मैत्री भग्ना भवेत् स्वर्णमय:खण्डगतं यथा ॥ |
८२२
|
चित्ते
सौहार्दहीनस्य मित्रवन्नटतो बहि: ।
सौहार्दमङ्गनाचित्तसमं परिणतं भवेत् ॥ |
८२३
|
अधीतेष्वपि
शास्त्रेषु हार्दमैत्र्या प्रवर्तनम् ।
नैव साध्यं भवेत्तेषां ये भवन्ति विरोधिन: ॥ |
८२४
|
बहिर्हास्यमुखो
भूत्वा चित्ते द्रोहं चिकीर्षत: ।
वञ्चकस्य तु सौहर्दं दूरे कुरु भयान्वित: ॥ |
८२५
|
कृत्वान्यभावं
मनसि स्नेहमाचरतो बहि: ।
श्रुत्वा वार्तां च कार्येषु प्रवृत्तिर्न वरा मता ॥ |
८२६
|
विरोधिनो
मित्रसमं हितं वाक्यं ब्रुवन्तु वा ।
अथापि तद्वचोभङ्ग्या तत्त्वं ज्ञायेत शीघ्रत: ॥ |
८२७
|
प्राप्यापि
नम्रतां चाप: स्वभावाद् दु:खदो यथा ।
विनयाढ्यं शत्रुवाक्यं तथानर्थकरं भवेत् ॥ |
८२८
|
शत्रोरञ्जलिमश्येऽपि
छन्न: स्यात् कठिनायुध: ।
तथा शत्रोरश्रुपात: क्रूरायुधसमो भवेत् ॥ |
८२९
|
भूत्वा
बहि: स्निग्धसमो दूषयेद् हृदयेन् य: ।
तमेव मार्गमाश्रित्य तस्य मैत्रीं विनाशय ॥ |
८३०
|
शत्रुभि:
सह मैत्र्यां च प्रसक्तायां मुखे परम् ।
प्रसर्श्य मैत्रीं हार्दां तां मैत्रीं छिन्धि निरन्तरम् ॥ |
अधिकार: ८४. मौढ्यम्
|
|
|
|
८३१
|
क्षेमदायककार्यस्यपरित्यागस्तथैव
च ।
अनर्थप्रदकार्यस्य स्वीकारो मौढ्यलक्षणम् ॥ |
८३२
|
नानाविधेषु
मौढ्येषु मौढ्यं तच्छिखरायते ।
यच्छास्त्रनिन्दिते हेये दुराचारे तु भोग्यधी: ॥ |
८३३
|
लज्जाविहीनता
प्रेमशून्यता श्रेष्ठवस्तुनि ।
नैराश्यं निर्विवेकत्वमिमे मौढ्यगुणा मता: ॥ |
८३४
|
शास्त्रण्यधीत्य
तत्त्वार्थान् बुध्वा चोक्त्वा परान् प्रति ।
यस्तु नाचरते तेन समो मूढो न विद्यते ॥ |
८३५
|
यत्यापं
नरकं दद्यात् भावि सप्तसु जन्मसु ।
तत्पापमखिलं म्ढ: करोत्यत्रैव जन्मनि ॥ |
८३६
|
अजानता
क्रियातत्त्वं मूढेनारब्धकर्म तु ।
विघ्नितं नैति पूर्णत्वं कर्तारमपि नाशयेत् ॥ |
८३७
|
मूढस्य
यदि लभ्येत् धनं तेन परे जना: ।
प्राप्नुयु: सकलं सौख्यं न लाभो बन्धुमित्रयो: ॥ |
८३८
|
मूढो
धनं प्राप्नुयाच्चेत् पित्तस्य पिबत: सुराम् ।
या तून्मादकरावस्था मूढ: प्राप्नोति तां दशाम् ॥ |
८३९
|
मूढै:
साकं वियोगेन दु:खं कस्यापि नोद्भवेत् ।
तस्मान्मूढेन मैत्री तु भवेदानन्दायिनी ॥ |
८४०
|
अमेध्यस्पृष्टपादस्य
पर्यङ्के क्षालनं विना ।
निक्षेपतुल्यं, मूढस्य विद्वद्गोष्ठीप्रवेशनम् ॥ |
अधिकार: ८५. अल्पज्ञत्वम्
|
|
|
|
८४१
|
विद्यमानेष्वभावेषु
ज्ञानाभावो व्यथाकर: ।
अन्याभावान् वेत्ति लोको णाभावत्वेन् सर्वदा ॥ |
८४२
|
अल्पज्ञ्:
प्रीतिसंयुक्तो धनमर्पयनीति यत् ।
न तत्रान्यत् कारणं स्याद् गृहीतु: पुण्यमन्तरा ॥ |
८४३
|
यावान्
खेद: शत्रुवर्गैरुत्पद्येत ततोऽधिकम् ।
प्राप्नुयु: खेदमल्पज्ञा: स्वीयाज्ञानबलात् स्वयम् ॥ |
८४४
|
'ज्ञानवानहमस्मी'ति
यो वाज्ञानकृतो मद: ।
स एवाल्पज्ञशब्देन प्रकृते सम्प्रकीर्त्यते ॥ |
८४५
|
अल्पज्ञो
यदि तु ब्रूयादनधीतमधीतवत् ।
तदा क्षुण्णमधीतेऽपि विषये संशयो भवेत् ॥ |
८४६
|
स्वदोषवरणे
यत्नहीन: स्वल्पमतिर्नर: ।
मुख्यं गोप्यं स्थलं त्यक्त्वा यथान्याच्छादको भवेत् ॥ |
८४७
|
परोक्तगोपनीयार्थान्
प्रमादादीरयन् बहि: ।
अल्पज्ञ: स्वस्य नानर्थान् स्वयमेव समानयेत् ॥ |
८४८
|
सत्कार्यं
य: परैरुक्तं न कुर्याद्वेत्ति न स्वयम् ।
तस्याल्पबुद्धे: प्राणा: स्यु: आन्तमामयरूपिण: ॥ |
८४९
|
अल्पज्ञस्योपदेष्टा
तु स्वयमल्पो भवेन्नर: ।
अल्पज्ञो मूढविश्वासाद् भासते ज्ञानवानिव ॥ |
८५०
|
अस्तीति
सद्भिरुक्तार्थान् नास्तीत्येव वदेञ्च य: ।
मर्त्यरूपागतं भूतं तं मन्यन्ते नरा भुवि ॥ |
अधिकार: ८६. भेदबुद्धि:
|
|
|
|
८५१
|
समेषां
प्राणिवर्गाणामितरै: प्राणिभि: सह ।
दुर्गुणं मेलनाभावरूपं मेदो विवर्घयेत् ॥ |
८५२
|
अनिच्छन्
सङ्गमं कश्चित् करोत्वन्यस्य चाप्रियम् ।
तस्याप्यनिष्टकरणान्निवृत्ति: श्लाघ्यते नृणाम् ॥ |
८५३
|
हृदयाद्भेदभावाख्यरोगं
दु:खप्रदायकम् ।
बहिर्निष्कासयन् कश्चित् शाश्वतीं कीर्तिमश्नुते ॥ |
८५४
|
दु:खानामादिमं
दु:खं भेदज्ञानाभिधं नर: ।
नाशयन् स्वयमाप्नोति सुखानामुत्तमं सुखम् ॥ |
८५५
|
मेदज्ञानाख्यदोषेण
ये भवेयुर्न दूषिता: ।
तान् जेतुं भुवि शक्ता: स्यु: केवाऽस्मिन धरणीतले ॥ |
८५६
|
भेदबुद्धिं
समालम्ब्य वर्तनं वरमित्यपि ।
तिष्ठतो जीविते सम्पत् क्षीयते नश्यति स्वयम् ॥ |
८५७
|
भेदज्ञानाख्यदुर्बुद्धिसमेता
जयदायकान् ।
नीतिशास्त्रोक्ततत्त्वार्थान् ज्ञातुं न प्रभवन्ति ते ॥ |
८५८
|
भेदबुद्धिं
ये त्यजन्ति तेषां भाग्यं विवर्घते ।
वशा ये भेदभावस्य ते त्वनर्थानवाप्नुयु: ॥ |
८५९
|
श्रेय:सम्प्राप्तिवेलायां
न स्मेरेद्भेदभावनाम् ।
अश्रेय:प्राप्तिवेलायां भेदबुद्धिं ध्रुवं त्यजेत् ॥ |
८६०
|
भेदज्ञानेन
चैकस्य बह्वनर्था भवन्ति हि ।
सौहार्दान्नितिरूपाख्यभाग्यं जायेत कस्यचित् ॥ |
|
|
अधिकार: ८७. शत्रुनिर्णय
|
|
|
|
८६१
|
आत्मनोऽपि
बलाढ्यैस्तु वैरभावो विमुच्यताम् ।
न त्याज्यं सर्वदा वैरं स्वस्मादल्पबलान्वितै: ॥ |
८६२
|
स्वाश्रितेषु
प्रीतिहीनो सैन्यादिबलवर्जित: ।
स्वयं च बलहीनश्चेत् कथं शत्रून् विजेष्यति ॥ |
८६३
|
भेतव्ये
भयहीनस्य ज्ञातव्यं चाप्यजानत: ।
अदातुर्मित्रहीनस्य सुलभा शत्रुवश्यता ॥ |
८६४
|
सर्वत्र
सर्वदा सर्वै: स जेतुं सुलभो भवेत् ।
य: क्रोधवशमापन्नस्त्वशक्तश्चित्तनिग्रहे ॥ |
८६५
|
अज्ञात
नीतिशास्त्राणामकर्ता शास्त्रकर्मणाम् ।
अभीरुरपवादानां निर्गुण: स्याद्रिपोर्वशे ॥ |
८६६
|
स्वपरज्ञानविध्वंसकारणक्रोधसंयुत:
।
विजृम्भत्कामनिचयुक्त: क्षीयेत् सत्वरम् ॥ |
८६७
|
स्वारब्धस्यैव
कार्यस्य विरुद्धं कुरुते च य: ।
वैरं सम्पाद्यतां तेन साकमर्थं प्रदाय वा ॥ |
८६८
|
अगुणी
दोषभाङ् मैत्रीं न केनापि स विन्दते ।
तदेव मैत्रीराहित्यं रिपणां जयदं भवेत् ॥ |
८६९
|
अज्ञातनीतिशास्त्रार्थै:
कार्यसाधनभीरुभि: ।
रिपुर्भियुद्धकर्ता तु जित्वा श्रेष्ठसुखं व्रजेत् ॥ |
८७०
|
अज्ञातनीतिशास्त्रैस्तु
साकं वैरं फलप्रदम् ।
तथा कर्तुमशक्तो यस्तस्य कीर्तिर्न सिध्यति ॥ |
अधिकार: ८८.विरोधतत्त्वपरिज्ञानम्
|
||
|
|
|
८७१
|
वस्तुत:
परिहासार्थमप्यनर्थप्रदायक: ।
विरोधस्तु न केनापि न कदाचिच्चिकीर्ष्यताम् ॥ |
|
८७२
|
चापाख्यलाङ्गलकरै:
वीरैर्वैरं न दु:खदम् ।
वागाख्यलाङ्गलकरैर्बुधैर्वैरं न साम्प्रतम् ॥ |
|
८७३
|
नानाजनविरोधी
यो बन्धुमित्रविवर्जित: ।
उन्मत्तपुरुषाच्चापि ज्ञानहीन: स गण्यते ॥ |
|
८७४
|
वैरिणोऽपि
सुहृद्भूतान् कुर्वन् श्लाघ्यगुणान्वित: ।
यो भवेत् तत्प्रभावस्य वश्यं स्यात् सकलं जगत् ॥ |
|
८७५
|
एकस्य
निस्सहायस्य यद्युभौ तु विरोधिनौ ।
सन्भवेतां तयोरेकं मित्रं कुर्वीत् तत्क्षणात् ॥ |
|
८७६
|
त्वया
रिपुर्भवेद् ज्ञातस्त्वज्ञातो वा पुरा भृशम् ।
क्लेशे प्राप्ते तु माध्यस्थ्यभावमालम्ब्य पश्य तम् ॥ |
|
८७७
|
नूत्नमित्रस्य
सविधे स्वदु:खं न निवेदयेत् ।
शत्रूणां सन्निधौ स्वीयदौर्बल्यं न प्रकाशयेत् ॥ |
|
८७८
|
स्वसत्त्ववर्धक:
कार्यतत्त्वज्ञो निजरक्षक: ।
यदि कश्चिद्भवेत्तस्य शत्रवो लयमाप्नुयु: ॥ |
|
८७९
|
बालकण्टकवृक्षस्य
छेदनं सुलभं भवेत् ।
स एव वृद्धश्छिन्नश्चेत् छेत्तुश्छिन्नो भवेत्कर: ॥ |
|
८८०
|
गर्वो
रिपुणामादौ न हन्यते केनचिद्यदि ।
श्वासग्रहणकालं च न शक्यं तेन जीवितुम् ॥ |
|
|
|
अधिकार: ८९. आन्तरवैरम्
|
||
|
||
८८१
|
रोगप्रदे यदि जलच्छाये त्याज्ये
यथा जनै: ।
ज्ञातयो दु:खदास्तद्वत् त्यज्या ह्यान्तरवैरिण: ॥ |
|
८८२
|
असितुल्यान् व्यक्तशत्रून्
दृष्ट्वा भीति: कुतो वृथा ।
बन्धुवेषान् गूढशत्रून् दृष्ट्वा मेतव्य मेव हि ॥ |
|
८८३
|
गूढशत्रुभयादात्मरक्षणं युज्यते
सदा ।
अन्यथा नाशमाप्नोति सूचीच्छिन्नघटो यथा ॥ |
|
८८४
|
असंस्कृतमनस्केन
गूढवैरं भवेद्यदि ।
बन्धुनाशकरान् दोषान् तदा प्राप्नोत्ययं जन: ॥ |
|
८८५
|
बान्धव्यमूलकं
गूढवैरं भवेद्यदि: ।
मरणान्तानि दु:खानि लभते तत एव स: ॥ |
|
८८६
|
स्वाश्रितेष्वान्तरं
वैरं य: कश्चित्कुरुते यदि ।
न तस्य मरणाभावो भविष्यति कदाचन ॥ |
|
८८७
|
बहिर्यथा
ताम्रखण्डौ युक्तौ स्यातां न चान्तरा ।
तथाऽन्त:शत्रवोऽन्योन्यं बहिर्युक्तौ न वै हृदा ॥ |
|
८८८
|
अन्तर्विरोधिनां
वंशो बलहीन: क्रमाद् भवेत् ।
अय:पिण्ड: कृपाणेन घृष्टो नाशं व्रजेद्यथा ॥ |
|
८८९
|
स्वल्पमप्यान्तरं
वैरं लोके भग्नतिलोपमम् ।
कुलनाशकरानिष्टं महान्तं जनयेत् किल ॥ |
|
८९०
|
लोके
भिन्नमनस्तत्त्वैर्मानवैस्सह जीवनम् ।
एकत्रैव गृहे सर्पै: सहवाससमं भवेत् ॥ |
|
|
|
अधिकार: ९०. महात्मनिन्दानिराकरणम्
|
||
|
|
|
८९१
|
आत्मरक्षासाधनेषु
श्रेष्ठं तत् तु प्रकीर्त्यते ।
यत्कार्यसाधनपटो: सामर्थ्यस्य परिग्रह: ॥ |
|
८९२
|
महात्मनां
तु विषये क्रियमाणा तिरस्कृति: ।
कस्यचित्सकलं दु:खं प्रददाति न संशय: ॥ |
|
८९३
|
शत्रुनिर्मूलनकृतिमिच्छामात्रेण
कुर्वता ।
राज्ञा सह कुरु द्वेषं यदि त्वं नाशमिच्छसि ॥ |
|
८९४
|
समं
बलवता वैरं क्रियते यद्धि दुर्बलै: ।
हन्तुर्यमस्य हस्ताभ्यामाह्वानसदृशं हि तत् ॥ |
|
८९५
|
क्रूरसत्त्वसमायुक्तभृपक्रोधवशं
गत: ।
आत्मनो रक्षणं तस्मात् कुत्र गत्वा करिष्यति ॥ |
|
८९६
|
दग्धोऽपि
वह्निना कश्चित् कदाचिज्जीवितुं क्षम: ।
महातामपकारी तु जीवितुं न भवेत् क्षम: ॥ |
|
८९७
|
महात्मा
सुतप:शील: कुप्वेद्यदि महीपतिम् ।
तस्य भॄपस्य वित्तेन साम्राज्येनापि किं फलम् ॥ |
|
८९८
|
महद्भि:
शैलसदृशै: शप्ता ये भुवि पार्थिवा: ।
स्थिरप्रतिष्ठा: सन्तोऽपि क्षीयन्ते ते सबान्धवा: ॥ |
|
८९९
|
नानाव्रतपरा:
सन्त: कुप्यन्ति किल यं प्रति ।
देवेन्द्रो वा भवत्वेष: स्थानाद्भ्रष्ट: पतत्यध: ॥ |
|
९००
|
नानातपोबलवतां
प्राप्ता ये कोपपात्रताम् ।
भूपास्ते बलवन्तोऽपि लभेरन् विलयं क्षणात् ॥ |
====================================================================
No comments:
Post a Comment