Tuesday, 6 January 2009

अधिकार 109-120


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

 गान्धर्वविवाहाध्याय

 धिकार १०९. दर्शनंवितर्कश्च तिरुक्कुरळ्


१०८१
रम्यकेशवती चेयं मयूरी किमु देवता ।
अथवा मानुषीत्येवं प्राप्नोति मे मन: ॥
१०८२
मया दृष्टा रमणी यत्पुनर्मां च पश्यति ।
सैन्येन सह मां योद्‌धुं कि प्रापदिति तद्वभौ ॥
१०८३
अन्तको न मया पूर्व दृष्ट:, पश्यामि सम्प्रति ।
क्रूराक्षश्चाङ्गनारूपो जीवत्येष न संशय: ॥
१०८४
नारीगुणसमेतायास्तस्यास्ते क्रूरचक्षुषी ।
द्रष्टणां प्राणनाशार्थमुद्युक्ते तिष्ठत: सदा ॥
१०८५
किं वान्तक: किमु मृगी किन्तु स्यान्नेत्रमेव वा ।
त्रयाणामपि सदृश्यं दृष्टयामस्यास्तु दृश्यते ॥
१०८६
भ्ररस्यास्त्वार्जवं प्राप्य वक्रतां यदि मुञ्चति ।
तस्यास्तदा दृष्टिपातं सा नूनं मयि वारयेत् ॥
१०८७
प्रङ्गनाधनवक्षाजच्छादक पट्टवस्त्रकम् ।
प्रत्तेभकायसंच्छन्नमुखवस्त्रसमं भवेत् ॥
१०८८
समरे शत्रुवित्रासहेतुभृतं बलं मम ।
रमणीरम्यफालेन नृनमासीत् पराजितम् ॥
१०८९
हरिणीदृष्टिसदृशदृष्टया प्रकृतिलज्जया ।
सहिताया रमण्यास्तु मण्डनैर्मण्डनं वृथा ॥
१०९०
कामो यथा स्वद्रष्टणां विषयोऽपि मुदावह: ।
न तथा मदिरा, किन्तु मोदयेत् प्रायिनं परम् ॥



 धिकार ११०. भावपरिज्ञानम्


१०९१
अयास्तु स्वञ्जने नेत्रे दृष्टिद्व्यसमन्विते ।
मह्यं रोगं ददात्येका श्मयत्यपरा तु तम् ॥
१०९२
तस्या: क्षणिकदृष्टिर्या सकूतं प्रेरिता मयि ।
न सा कामार्घभागा स्यात् ततोऽपि महती किल ॥
१०९३
सा मां ददर्श, दृष्टा सा मया मन्राननाऽभवत् ।
तदेत् प्रेमवृद्धयर्थ रचितं जलसेचनम् ॥
१०९४
मयि पश्यति सा भूमिं पश्येन्नम्रमुखी स्थिता ।
मय्यपश्यति मां दृष्ट्‍वा कुर्यान्मन्दस्मितं तु सा ॥
१०९५
यद्यप्योषा न मां साक्षात् पश्यत्यत्र न संशय: ।
अथापि मीलिताक्षीव भृत्वा मन्दं हसेदियम् ॥
१०९६
अप्रीतवाक्यसदृशं ब्रूयात्सा कठिनं बहि: ।
परन्तु हृदये क्रोधो नास्तीति ज्ञायते क्षणात् ॥
१०९७
वच: क्रूरं निष्कपटमरिवद्दर्शनं च यत् ।
तदन्त:प्रीतियुक्तानां लक्षणं प्रोच्यते बुधै: ॥
१०९८
मयि पश्यति तद् दृष्ट्‍वा प्रीता मन्दं हसेदियम् ।
तस्याश्चलन्त्यास्तत्कृत्य रमणीयं प्राकाशते ॥
१०९९
उदासीनै: समं बाह्ये यदन्योन्यनिरीक्षणम् ।
अन्त: स्थितां प्रीतिमेव तद् व्यनक्ति तयोस्तदा ॥
११००
लोके कामुकयोनेंत्रे यदि प्रेम्णा परस्परम् ।
पश्येतां, तहिं वचसा भाषणे किं प्रयोजनम् ॥



धिकार १११. सम्मोगसुखम्


११०१
नासानेत्रश्रोत्रजिह्वाघ्राणत्वक्पञ्चकेन्द्रियै: ।
जायमानं भोगमेका ददाति वलयाज्ज्वला ॥
११०२
स्वरोगशामकं वस्तु स्वेतरं दृश्यते भुवि ।
स्वेनोत्पादितरोगस्य किन्त्वयं भेषजं स्वयम् ॥
११०३
प्रियारम्यस्कन्धलभ्यनिद्रासुखसमं सुखम् ।
पङ्कजाक्षमहाविष्णोवैंकुण्ठेऽपि न लभ्यते ॥
११०४
कामाग्नि नूतनमिममेषा प्राप्तवती कुत: ? ।
योऽग्नि: सन्निहित: शीतो दूरस्थ: प्रदहत्ययम् ॥
११०५
वाञ्छितानेकवम्तूनामवाप्त्या यत्सुखं भवेत् ।
प्रसूनकुन्तलभरनारीस्कन्धो ददाति तत् ॥
११०६
नष्ट: प्राण: पुनर्यस्य स्पर्शमात्रेण जीवति ।
तेनामृतेन रचितौ तस्या: स्कन्धाविति ध्रुवम् ॥
११०७
स्वगेहे स्वार्जितं चान्यै: विभज्याशनकर्मवत् ।
रम्यवर्णाङ्गनाकायपरिष्वङ्ग: सुखावह: ॥
११०८
वायुगम्यस्थलेनापि मध्ये व्यवधिमन्तरा ।
प्रीतिकामुकतोरङ्गपरिष्वङ्ग: सुखं वहेत् ॥
११०९
विप्रयोग: समाधानं सम्मोग इति तत् त्रयम् ।
प्रोच्यते परमं भाग्यं प्रेमलक्ष्यैकजीविनाम् ॥
१११०
असकृद् ग्रन्थपठनादज्ञानं शिष्यते पथा
अनुस्यूताङ्गनाभोमादमोग: शिष्यते तत: ॥



 धिकार ११२. लावण्यमहिमा


११११
सुमेषु मृदु त्व हि शिराष! विजया मव ।
वत्तोऽपि मार्दवयुता मत्प्रिया, गर्वमुत्सृज ॥
१११२
निकदृश्ग्टकुसुमसाम्यमस्यास्तु नेत्रयो: ।
वस्तीति किं धिया चित्त! दृष्ट्‍वा पुष्पाणि मुह्यसि ॥
१११३
देहस्तु चिकुरस्तस्या: चक्षुषी शूलरूपिणी ।
मुक्ता दन्ताश्चारुगन्ध: करौ वंशानुकारिणौ ॥
१११४
अस्यास्तु चक्षुषा साम्यं न लब्धमिति लज्ज या ।
नतं कुवलयं भूमिं दश्येद्, दृष्टिं लभेत चेत् ॥
१११५
मृदुकाये नालयुक्‍तं सा शिरीपमधारयत् ।
नालाभाराद्भग्नमध्यमभूदशुभनादनम् ॥
१११६
नारीमुखनिशानाथमेदज्ञानविवर्जिता: ।
दिवि तारा: स्वप्रदेशाद् भ्रान्ता: किन्तु भ्रमन्त्यहो ॥
१११७
आदौ नष्टकलश्चन्द्र: पुन: प्राप्नोति य: कला: ।
कलङ्कस्तद्‌गतो नारीवदने किन्तु वर्तते ॥
१११८
यदि त्वं मुखवत्त्वस्या: शोभां चन्द्र! वहेस्तदा ।
मत्प्रीतिपात्रं त्वं मूया: सर्वदा विजयी भव ॥
१११९
अस्या: कुसुमनेत्राया मुखसाम्यं यदीच्छसि ।
हे चन्द्र! सर्वदृश्यस्त्वं तदा मा तिष्ठ सर्वदा ॥
११२०
शिरीषकुसमं हंसपक्षौ चेत्युभयं भुवि ।
स्त्रीपादमार्दवे दृष्टे नूनं स्यात्यण्टकोपमम् ॥



 धिकार् ११३. प्रेमप्रभावकथनम्


११२१
अस्यास्तु मृदुभाषिण्या: श्वेतदन्तोद्भवं जलम् ।
मधुसंमिश्रितं क्षीरमिवातिमधुरं भवेत् ॥
११२२
जीवस्य देहसम्बन्धो यादृशो दृश्यते भुवि ।
स्नेहबन्धो ममाप्यस्यां वर्तते तादृशो दृढ: ॥
११२३
मन्नेत्रकृष्णतारे! त्वं त्यक्त्वा स्थानमितो व्रज ।
नो चेन्मत्प्रियया तस्तुमत्र नैव हि शक्यते ॥
११२४
संयोगे भूषणाङ्गीयं मम जीवनदायिनी ।
वियोगे सैव मे नूनं भवेन्मरणदायिनी ॥
११२५
यदि स्युर्विस्मृता लोके क्रूराक्ष्यास्ते च सद्‍गुणा: ।
तदैव स्मरणं युक्तं, न मया विस्मृता गुणा: ॥
११२६
नापयाति प्रियो नेत्रान्निमेषसमयोऽपि स: ।
नैति खेदं, यतोऽन्येषामदृश्य: सूक्ष्मरूपधृत् ॥
११२७
मन्नेत्रस्थो मात्प्रियोऽसौ छन्न: स्यादिति शङ्कया ।
अञ्जनाद्यैरलङ्कारो नेत्रयोर्न विधीयते ॥
११२८
य्ष्णवस्त्वशनेनासौ हृदयस्थो मम प्रिय : ।
दग्ध: स्यादिति भीत्या, तदुष्णं वस्तु न भुज्यते ॥
११२९
नेत्रस्पन्दे कृते नेत्रात् प्रियोऽन्तर्धानमेष्यति ।
ज्ञात्वदं निर्निमेषं तं कठिन ब्रुवते जना: ॥
११३०
हृदयेऽस्ति प्रियो नित्यं तदज्ञात्वा जना भुवि ।
निन्दन्ति, "प्रीतिहीनोऽयं वियोगं बहती" ति च ॥



 धिकार ११४. निर्लज्जात्वकथनम्


११३१
अनुभूय प्रियं पश्चात् वियुज्य बहुखिद्यत्: ।
प्रियस्य तालतुरगारोहणान्नास्ति रक्षकम् ॥
११३२
वियोगदु:खं सोढुं यौ प्राणदेहौ न शक्नुत: ।
तौ लज्जां च परित्यज्य तुरगारे हणोद्यतौ ॥
११३३
पुस्त्वलज्जे पुरा पूर्णे मस्यास्तां अद्य ते विना ।
करोमि तालतुरगारोहणं कामुको यथा ॥
११३४
कामनामातिवेगोऽयं प्रवाहो मयि संस्थितौ ।
लज्जापुस्त्वाभिधौ पोतौ वेगेन नयति क्षणात् ॥
११३५
सायङ्कालोद्भवं दु:खं कृत्रिमाश्चाधिरोहणम् ।
द्वयमेतददान्मह्यं मालाकुलकरा प्रिया ॥
११३६
प्रियावियोगान्नो निद्रां लभेते मम चक्षुवी ।
तेनार्घरात्रिकालेऽपि कृत्रिमाश्चं स्मराम्यहम् ॥
११३७
पयोधिसमकामाधिमनुभूयापि चाङ्गना: ।
तालाश्चान्नाधिरोहन्ति स्त्रीजन्मातो विशिष्यते ॥
११३८
'शोच्येयं, धैर्यहीनेय' मित्येतदविचार्य च ।
स्त्रीणं कामो विनिष्क्रम्य' विथीपर्गन्तमाययौ ॥
११३९
'एतावता जना: सर्वे जानन्त्मन्तर्हितं न माम्' ।
इतीव मम कामोऽयं वीथ्यां भ्रमति मोहित: ॥
११४०
'अस्मस्समसखीभिस्तु  न प्राप्तं व्यसनं पुरा' ।
(Text missing)



 धिकार ११५. अपवादकथनम्


११४१
कामसम्बन्धिवार्ताया: प्रसाराज्जीव्यते मया ।
स्थितिमेनां न जानन्ति जना: पुष्यवशादहो ॥
११४२
दुस्साध्या कुसुमाक्षीयमित्येन्नगरे जना: ।
अज्ञात्वा दुष्प्रचारेण मम साह्यं वितन्वते ॥
११४३
दुष्प्रचारो लोककृतो मम साह्यप्रदोऽभवत् ।
दुस्साधञ्च सुसाधं मे भविता दुष्प्रचारत: ॥
११४४
मम काम: प्रजानां तु प्रचारेण प्रवर्धित: ।
काम: प्रचाररहित्ये नूनं सङ्कुचितो भवेत् ॥
११४५
प्रचाराद् बहुभिर्ज्ञात: काम: स्यान्मोददायक: ।
मोदं मोदं मद्यपायी सेवते तद्यथा पुन: ॥
११४६
प्रियो दृष्टस्त्वेकवोरं, अपवादस्तदोत्थित: ।
सर्पेण चन्द्रग्रहणवार्तेव प्रसृतोऽभवत् ॥
११४७
ववृधे कामरोगोऽयमपवादाख्यदोहदात् ।
मातृक्रोधवचोरूपसलिलेनापि पोषित: ॥
११४८
दुष्प्रचारेण कामस्य निरोधो न हि शक्यते ।
यथा घृतेन वह्नेस्तु शमनं दुष्करं भुवि ॥
११४९
दत्वाऽमयवचो मां तु निर्लज्जं त्यक्तवान् प्रिय: ।
तथा सत्यपवादार्थ न विभेमि कदाचन॥
११५०
अपवादं ममाभीष्टं ग्रामीणा ब्रुवरे यत: ।
कामुकैर्वाञ्छितं सर्व साध्यते तत्तु तैस्तत: ॥



 धिकार् ११६. वियोगसहनम्


११५१
वितोगाभावविषयो यदि स्याद् ब्रुहि तन्मम।
वियुज्यागमनं चेत्तु वद तत् सहतां नृणाम् ॥
११५२
तदीयदृष्टि: पूर्व मे वभृवानन्ददायिनी ।
वियोगभीतिं जनयेत् अद्य, जातोऽपि सङ्गम: ॥
११५३
स्याद्वियोग: क्कचित साकं विश्वस्तेन प्रियेण च ।
तस्मात् प्रियेण रचितां प्रतिज्ञां नैव विश्वसेत्॥
११५४
प्रेमपूर्वं न मेतव्य मित्युक्तवापि वियुज्यत: ।
प्रियस्य वचनं वक्तुर्दोषाय स्यात्, न श्रृण्वत: ॥
११५५
यथा प्रियेण विरहो न स्यात्कार्य तथा त्वया
वियोगे प्रथमं प्राप्ते सङ्गमो दुर्लभस्तत: ॥
११५६
वियोगविषयं वक्तुं यो भवेन्निर्दय: प्रिय: ।
प्रत्यागत्य पुन: प्रीतिं स कथं दर्शयेत् त्वयि ॥
११५७
कृशहस्तप्रकोष्ठाभ्यां निस्सृता वलयालय: ।
किं नायकवियोगं न कथयेयुर्जनान् प्रति ॥
११५८
स्निग्धचेटीविरहतग्रामवासो व्यथाकर: ।
प्रियनायकविश्‍लेषस्ततोऽपि व्यसनप्रद: ॥
११५९
अन्तिकस्थितिमात्रेण दहेत् साधारणोऽनल: ।
कामरोगसमानोऽयं न दहेद् दूरवत्यपि ॥
११६०
अङ्गीकृत च विश्‍लेषमनवाप्य ततो व्यथाम् ।
सोढ्वा वियोगं जीवन्त्य: सन्त्यनेका: स्त्रियो भुवि ॥



 धिकार ११७. वियोगदु:खानुभव:


११६१
लज्जया कामरोगं तु छादयामि, न शाम्यति ।
निर्गते निर्गते वारि वर्धते स्त्रोतसो यथा ॥
११६२
नैव च्छादयितुं शक्ता कामरोगमहं बलात् ।
रोगदात्रे नायकाय वक्तुं  लज्जा तु जायते ॥
११६३
खेदं सोदुमशक्तऽस्मिन शरीरे प्राणनामकम् ।
यष्टिमालम्व्य लम्बेते लज्जाकामौ तु पार्श्वयो: ॥
११६४
कामरोगममाख्य ऽयं महानस्ति पयोधर: ।
तत्तीर्त्वा गन्तुमुचितो दृढ: पोतो न विद्यते ॥
११६५
सुखप्रदायां मैत्र्यां ये दु:खोत्पादनतत्परा: ।
खेदप्रदविरोधस्य निरासे ते कथं क्षमा: ॥
११६६
कामो यदा सुखं दद्यात् तत्सुखं सिन्धुवन्महत्।
वियोगाद् दु:खदे कामे तद् दु:खं जलधेर्महत् ॥
११६७
कामप्रवाहे तीर्णेऽपि पारं मे नैव दृश्यते ।
गाढान्धकाररात्र्यां तु वसाम्येकाकिनी ह्महम् ॥
११६८
सर्वलोक्जनान् निद्रावशान् कृत्वा तु मां परम् ।
सहायं प्राप्य तिष्ठन्ती यामिनी शोच्यतां गता ॥
११६९
वियोगकाले यामिन्यो वर्धन्ते या: सुदीर्घत: ।
वियुक्तनायकाच्चापि ता: क्ररा: किल भान्ति मे ॥
११७०
प्रियसामीप्यगमनशक्तिर्नेत्रस्य चित्तवत् ।
यदि स्यात् तर्हि मन्नेत्रे न स्यातां सलिलाकुले ॥



 धिकार् ११८. नायकदिदृक्षामृलकखेद:


११७१
त्वमेव प्रथमं नेत्र! मह्मं प्रियमदशेय: ।
कामाधिर्ववृधे तेन कम्मात् त्वं रुदसि वृथा ॥
११७२
अविचार्य पुरा दृष्ट्‌‍वा प्रियं प्रीतिपुरस्सरम् ।
अद्याज्ञानात् कुतो नेत्रे खिद्येते प्रीतिसंयुते ॥
११७३
नेत्रे पूर्व स्वयं गत्वा तं नायकमपश्यताम् ।
रुदत: स्वयमद्यात्र, परीहासपदं हि तत् ॥
११७४
अनिवार्य कामरोगं शाश्वतं मम चक्षुषी ।
मह्मं दत्त्वा क्रन्दितुं ते ह्यशक्ते नीरवर्जिते
११७५
मन्नेत्रे ये पुरा कामरोगं सागरसन्निभम् ।
अयच्छतामिदानीं ते खिद्येते निद्रया विना ॥
११७६
कामरोगप्रदाभ्यां मे नयनाभ्यां यदद्य तु ।
तुल्पोऽनुभूयते खेद: तत्तस्य खलु युज्यते ॥
११७७
प्रेम्णा सहर्ष ये नेत्रे प्रियं पूर्वमपश्यताम् ।
निर्निद्रे तेऽद्य खेदेन स्यातामश्रुविवर्जिते ॥
११७८
हार्द प्रेम विना वाक्यमात्रात् प्रेमदर्शक: ।
अस्ति कश्रिददृष्ट्‍वा तं न नेत्रे शान्तिमापतु: ॥
११७९
आगते नायके तद्वत्, अप्राप्तेऽपि च नायके ।
नायाति निद्रा तस्मान्मे विषण्णे नयने भृशम् ॥
११८०
गुह्यप्रकाशपटहतुल्यनेत्रयुता वयम् ।
अतोऽस्मन्नयने दृष्ट्‍वा रहस्यं जना: ॥



 धिकार ११९. वैवर्ण्यमूलकव्यसनम्


११८१
(Text missing) ङ्गयकारि (Text missing)
ततोऽभून्मयि वैवर्ण्य कस्मै तत्कथयाम्यहम्
११८२
'नायकेनार्पितं चेदमि' ति सन्तोषहेतुना ।
वैवर्ण्य मम देहेऽस्मिन् व्याप्य सर्वत्र वर्तते ॥
११८३
वैवर्ण्य कामरोगं च दत्वा मह्यं स नायक: ।
मत्त: सौन्दर्यलज्जे तु प्रत्यगृह्णान्मुदान्वित: ॥
११८४
स्मरामि नायकेनोक्तं तद्वीर्य च वदाम्यहम् ।
अथापि जातं वैवर्ण्य, न जाने वञ्चनामिमाम् ॥
११८५
मम प्रियो मां वियुज्य याति त्वं पश्य तत्र तु ।
पश्यात्र सद्यो वैवर्ण्य मम देहमुपागमत् ॥
११८६
यथा दीपतिरोधानं प्रतीक्षद्वर्तते तम: ।
तथाऽऽलिङ्गनविच्छेदं वैवर्ण्य सम्प्रतीक्षते ॥
११८७
परिष्वज्य प्रियं पार्श्चे यदाऽहं परिवर्तिता ।
अत्रान्तरे तु वैवर्ण्य मद्देहे व्यापृतं वभौ ॥
११८८
'वैवर्ण्य प्रापदेषे' ति वक्तार: मन्ति भृरिश: ।
'प्रियो ययौ वियुज्यैनामि' ति वक्ता न विद्यते ॥
११८९
वियोगे सम्मतां मां च योऽकरोत् सोऽपि सत्तम: ।
यदि स्यात्तर्हि मद्देहवैवर्ण्यान्नास्ति मे व्यथा ॥
११९०
वियुक्त मम सम्मत्या प्रियं खिन्न जना यदि ।
न निन्देयुस्तदा श्लाघ्या विवर्णेयमिति प्रथा ॥



 धिकार १२०.वियोगव्यसनाधिक्यम्


११९१
वृत: स्वेन प्रिय: स्वां च कामयेद्याद् प्रिया ।
बीजावापं विना लब्धफला स्याल्लक्ष्यजीविते ॥
११९२
स्वानुरक्तासु नारीषु नायकै: प्रेमदर्शनम् ।
जन्तूनां विषये मेघकृतवृष्टिसमं भवेत् ॥
११९३
नायकासक्तनारीणां खेदे विश्लेषमूलके ।
जातेऽपि सङ्गमो भूयादिति गर्वयुतास्तु ता: ॥
११९४
स्ववाञ्छितप्रियतमो यस्यां प्रीतिं न दर्शयेत् ।
अन्येषां स्पृहणीयां च भाग्यहीनां हि तां विदु: ॥
११९५
अङ्गनाप्रीतिपात्रं य: कामुक: प्रेम तासु च ।
न कुर्यच्चेत् तदा स्त्रीणां किं तैरस्ति प्रयोजनम् ॥
११९६
एकपक्षानुरागास्तु जनयेद्यसनं महत् ।
कामस्तुलाभारसमो द्विपक्षस्थ: सुखप्रद: ॥
११९७
रक्तकामुकयोर्मध्ये वसन्नेकत्र केवलम् ।
मदीयदु:खवैवर्ण्ये जानीयान्मदन: कथम् ॥
११९८
स्वानुरक्तप्रियेणोक्तमश्रुत्वा मधुरं वच: ।
वियुज्य भुवि जीवन्त्यो भवन्ति क्लेशभाजनम् ॥
११९९
वाञ्छित: कामुक: प्रीतिं मयि नैव करोतु वा ।
तत्कीर्तिश्रवणं नूनं श्रवणानन्दं मम ॥
१२००
प्रेमहीने तु पुरुषे हे चित्त! वदसि व्यथाम् ।
न तेन तव लाभोऽस्ति जलघेर्गोपनं यथा ॥



======================================================================


No comments:

Post a Comment