Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)
|
२. राजधर्माध्याय
अधिकार ३९. राजमहिमा
|
|
|
|
३८१
|
राज्यमन्त्रिसुहृत्सैन्यदुर्गकोशैश्च
षड्विधै:।
अङ्ग: समन्वितो राजा राजसिंह इतीर्यते॥ |
३८२
|
दातृत्वं ज्ञानसम्पत्ति: उत्साहो
धीरता तथा ।
गुणैरेतैश्चतुर्भिर्यो नित्ययुक्त: स पार्थिव: ॥ |
३८३
|
पौरुषं जागरूकत्वं विद्या चेति
त्रयो गुणा: ।
राज्यभारनियुक्तानां राज्ञां स्वाभाविका मता: ॥ |
३८४
|
अधर्मेन्मूलनं स्वीयधर्माचरणशीलता
।
दुरहङ्कारराहित्यं त्रितयं नृपलक्षणम् ॥ |
३८५
|
कुर्याद्धनार्जनोपायमार्जयेत्
पालयेद्धनम् ।
रक्षितं च यथाशास्त्रं दद्यात् पात्रेषु भूमिप ॥ |
३८६
|
विमुख: क्रूरवाक्यानां राजा
सुलभदर्शन:।
यो भवेत् तस्य साम्राज्यं सर्वश्लाघ्यं भविष्यति ॥ |
३८७
|
यो ददाति जनान् पाति प्रियभाषणपूर्वकम्
।
तस्य राज्ञ: स्थिरं कीर्तिमर्थाश्च वितरेन्मही ॥ |
३८८
|
धर्मनीत्यनुसारेण पालयन् सकला:
प्रजा: ।
पार्थिव: श्लेघ्यते सर्वै: जगतां पतिरित्यसौ ॥ |
३८९
|
कठिनं चापि महतां वाक्यं पश्चाद्धितप्रदम्
।
श्रुत्वा य: सहते राजा तिष्ठेत्तस्य वशे मही ॥ |
३९०
|
दानं दया दण्डनीति: दीनरक्षेति
सद्गुणै: ।
चतुर्भि: सङ्गतो भूपो दीपवत् स्यान्महीक्षिताम् ॥ |
अधिकार ४०. विद्या
|
|
|
|
३९१
|
अध्येतव्या: समे ग्रन्था: निस्सन्देहं
यथार्थत: ।
अधीतग्रन्थदृष्टेंन पथा युक्तं प्रवर्तनम् ॥ |
३९२
|
न्यायव्याकरणाख्ये द्वे शास्त्रे
मुख्ये नृणामिह ।
उभे हि चक्षुषी स्यातामिति सद्भिरुदीर्यते ॥ |
३९३
|
चक्षुष्मन्तस्त एव स्यु: ज्ञानचक्षुर्युतास्तु
ये ।
इतरेषामुभे नेत्रे व्रणे स्यातां मुखोत्थिते ॥ |
३९४
|
यत्सङ्गन जनास्तुष्टा: भवेयु:,
सङ्गमं पुन: ।
वियोगकाले वाञ्छेयु: स भवेत्पण्डितोत्तम: ॥ |
३९५
|
रिक्तवद्धनिकस्याग्रे विनीता
गुरुसन्निधौ ।
भूत्वा पठन्ति ये नित्यं शिष्टास्ते निन्दिता: परे ॥ |
३९६
|
विद्यभ्यासानुसारेण नृणां ज्ञानां
प्रवर्धते ।
खननानुगुणं तोयं वर्धते सैकते यथा ॥ |
३९७
|
सर्वे देशा: समे ग्रामा: स्वीया:
स्युर्विदुषां भुवि ।
तथा सति कुत: कैश्चित् विद्या नाधीयते सदा ॥ |
३९८
|
एकजन्मन्यधिगता विद्या नृनं
हि केनचित् ।
सप्तजन्मस्वनुगता तस्य साह्यकरी भवेत् ॥ |
३९९
|
निजानन्दकरीं विद्यां परेषां
निजमूलत: ।
आनन्ददात्रीं विज्ञाय तां प्राज्ञा बहुकुर्वते ॥ |
४००
|
विद्याधनं स्थिरं श्रेष्ठमेकमेव
धनं भवेत् ।
धनान्यन्यान्यस्थिराणि वस्तुतो न धनानि हि ॥ |
|
|
अधिकार ४१. विद्याविहीन:
|
|
|
|
४०१
|
अनधीत्यैव सद्ग्रन्थान् सद्गोष्ठयां
य: प्रभाषते ।
विना रङ्गस्थलीमक्षप्रयोक्त्रा स भवेत् सम: ॥ |
४०२
|
अपण्डितस्य विदुषां पुरतो भाषणे
मति: ।
नार्य: कुचाभ्यां हीनाया: स्त्रीत्वकाङ्क्षेव निष्फला ॥ |
४०३
|
विद्याविहीनमनुजा: समक्षं ज्ञानशालिनाम्
।
मौनमालम्ब्य तिष्ठन्त: भजन्ते नोपहास्याताम् ॥ |
४०४
|
विद्याभ्यासं विना ज्ञानं विन्दते
स्वयमेव य: ।
निर्दुष्टमपि तद् ज्ञानं न श्र्लाघन्ते बुधोत्तमा: ॥ |
४०५
|
मिथ्याभिमानो मूढस्य विद्याहीनस्य
कस्यचित् ।
बुधैर्भाषणवेळायां स्वयं विलयमेष्यति ॥ |
४०६
|
ऊषरक्षेत्रसदृशा विद्याहीना
नरा भुवि ।
केवलं जनिमन्तस्ते न तेषां सत्तया फलम् ॥ |
४०७
|
सूक्ष्मशास्त्रार्थविज्ञानमन्तरा
देहपुष्टित: ।
किं वा प्रयोजनं नृणां मृण्मयी प्रतिमैव ते ॥ |
४०८
|
पण्डिताश्रितदारिद्रयात् नितरां
खेददायिनी ।
भवेन्मूढाश्रिता सम्पत् नात्र कार्या विचारणा ॥ |
४०९
|
अस्तु विद्याविहीनानां कुलं
श्रेष्ठमुताधमम् ।
महिम्ना नाधिरोहन्ति ते तुलां बुधसत्तमै: ॥ |
४१०
|
मृगाणां मानवानां च यथास्ति
महदन्तरम् ।
तथा विद्याविहीनानां सतां च ग्रन्थसेविनाम् ॥ |
|
|
अधिकार ४२. श्रवणम्
|
|
|
|
४११
|
श्रुत्वा यद् ज्ञायते तत्त्वं
तदप्योकं भवेत् ।
सत्सु वित्तेषु बहुषु मुख्यमेतद्विभाव्यते ॥ |
४१२
|
श्रोत्रं श्रवणरूपान्नविहीनं
स्याद्यदा तदा ।
देयं देहस्य चाप्यन्नं श्रोत्राभावे कयं श्रुति ॥ |
४१३
|
श्रोत्रै: श्रवणरूपान्नसेविनो
भूगता अपि ।
हविर्भुग्भिरमर्त्यैस्तु भवेयु: सदृशा नरा: ॥ |
४१४
|
यदि नाध्ययनं साध्यं श्रुत्वा
वा ज्ञानमाप्नुहि ।
तद् ज्ञानं साह्यदं खेदे करयष्टिसमं तव ॥ |
४१५
|
वचांस्याचारशीलानां साह्यदानि
सदा नृणाम् ।
पङ्कदेशे विचरतो हस्तालम्बनदण्डवत् ॥ |
४१६
|
कणशो वापि तत्त्वार्थ: श्रेतव्या:
समये सति ।
असकृत् श्रवणात् तत्त्वं ज्ञातं सत् पूर्णतां व्रजेत् ॥ |
४१७
|
बहुश्रुता बहुज्ञाश्च सन्तो
मोहवशात् कचित् ।
अजानन्तोऽपि याथार्थ्ये न ब्रूयुर्मोहदं वच: ॥ |
४१८
|
शास्त्रश्रवणमात्रेण श्रोत्रं
भवति सार्थकम् ।
ग्राहकं त्वन्यशब्दानां श्रोत्रं बाधिर्यवन्मतम् ॥ |
४१९
|
अपूर्वसूक्ष्मशास्त्रार्थश्रवणं
यै: सदा कृतम् ।
ते विनीतवचोयुक्ता भवेयु र्न तथा परे ॥ |
४२०
|
श्रोत्रैर्नवरसास्वादमकृत्वा
जिह्वया परम् ।
षड्सास्वादचतुरा जीवन्तोऽपि मृतै: समा: ॥ |
|
|
अधिकार् ४३. ज्ञानसम्पत्ति:
|
|
|
|
४२१
|
अनर्थोन्मूलने
मूलसाधनं ज्ञानमिष्यते ।
रिपूणां दुष्प्रवेशं तदन्त:प्राकारवद्भवेत् ॥ |
४२२
|
निगृह्य
चञ्चलं चित्तं दुष्कृत्याद्विनिवर्त्य तत् ।
नियोजनं च सत्कार्ये ज्ञानप्राप्ते: फलं भवेत् ॥ |
४२३
|
बहुभ्यो
विषयान् श्रुत्वा तेषु य: क्षेमदायक: ।
विमृश्य तस्य निश्कर्षे साधनं ज्ञानमुच्यते ॥ |
४२४
|
स्पष्टार्थकं
सुविज्ञेयं ज्ञानी वाक्यमुदीरयेत् ।
श्रुत्वाऽन्यवचनं क्लिष्टमपि विद्याद्विमृश्य च ॥ |
४२५
|
व्यस्ने
च सुखे स्निग्धान् समभावेन पश्यति ।
महद्भि: स्नेहमाप्नोति ज्ञानवान् ज्ञानसाधनात् ॥ |
४२६
|
सदाचारपरा
लोका: येन यान्ति पथाऽनिशम् ।
प्रवर्तनं तमालम्ब्य ज्ञानशीलस्य लक्षणम् ॥ |
४२७
|
पूर्वं
भाविफलं ज्ञातुं समर्था ज्ञानिनो मता: ।
तद् ज्ञातुमसमर्थास्तु मन्तव्या ज्ञानवर्जिता: ॥ |
४२८
|
ये
न बिभ्यति ते मूढा दुष्कृत्यात् पापभीतिदात् ।
भीरुता पापकृत्येषु धीमतां प्रकृतिर्भवेत् ॥ |
४२९
|
भाविशोकोन्मूलनैकदक्षाणां
धीमतां पुरा ।
चित्तक्षोभकरं दु:खं न कदाचिद्भविष्यति ॥ |
४३०
|
विनान्यै:
सकलैर्ज्ञानमात्रात् सर्वार्थवान्नर: ।
ज्ञानाभावे सर्वहीनो भवेत् सर्वार्थवानपि ॥ |
|
|
अधिकार ४४. दोषषट्कनिराकरणम्
|
|
|
|
४३१
|
काममोहक्रोधलोभमदमात्सर्यसंज्ञकै:
।
दोषै: षड्भ्: विहीनस्य सम्पत् श्लाघ्या स्थिरा भवेत् ॥ |
४३२
|
दातव्येष्वप्रदानं
च पूजनीयेष्वपूजनम् ।
अस्थने हर्ष इत्येते राज्ञो दोषा: प्रकीर्तिता: ॥ |
४३३
|
स्वल्पे
दोषोऽपि सम्प्राप्ते तं मत्वा सुमहत्तरम् ।
महान्तो जागरूका: स्यु: जननिन्दाभयाकुला ॥ |
४३४
|
दोषो
एव जननां स्यु: शत्रवो नाशकारका: ।
दोषातीतैर्जनैर्भाव्यं दोषाभावो गुणा: खलु ॥ |
४३५
|
आदावेव
नरो दोषान् य: प्राप्तान् न निवारयेत् ।
विनश्येत् जीवितं तस्य तृणं वह्निगतं यथा ॥ |
४३६
|
ज्ञात्वा
स्वदोषान् तान् हित्वा परदोषनिवारणे ।
यतमानो महीपाल: कथं स्याद् दोषभाजनम् ॥ |
४३७
|
अदत्वा
धर्मकार्यार्थमभुत्तवा च स्वयं धनम् ।
रक्षतो लोभिनो नश्येत् पुरुषार्थत्रयं वृथा ॥ |
४३८
|
दातव्येष्वप्रदानाख्यो
यो दोषो लोभनामक: ।
नायं साधारणे दोष: षड्दोषेष्वग्रणी: किल ॥ |
४३९
|
आत्मश्लाघापरो
न स्यात् कारणे सत्यपि स्वयम् ।
निष्फलानि च कार्याणि मनसाऽपि न संस्मरेत् ॥ |
४४०
|
यदवाप्तुं वृणीषे त्वं एकान्ते
भज भुङ्क्ष्व तत् ।
नो चेत् त्वदीयलक्ष्यस्य विघ्नं कुर्युर्विरोधिन: ॥ |
|
|
अधिकार ४५. महत्साह्यम्
|
|
|
|
४४१
|
वयोवृद्धैर्धर्मविद्भि:
बुद्धिमद्भिर्महात्माभि: ।
कुर्यान्मैत्रीं महीपालो विमृश्य बहुधा बहु ॥ |
४४२
|
प्राप्तं
दु:खं निराकृत्य भाविदु:खनिवारणे ।
जगरूकेण विदुषा स्नेहं कुर्याच्च सेवया ॥ |
४४३
|
महात्मन:
समाश्रित्य स्ववशे तान् करोति य: ।
महच्भाग्यं तदेवास्य किमन्यैर्भाग्यकोटिभि: ॥ |
४४४
|
आत्मनोऽपि
वरिष्ठानां महतां पथि वर्तनम् ।
महद् बलं भवेद् राज्ञां चतुरङ्गबलै: किमु ॥ |
४४५
|
विमृश्य
सचिवो ग्राह्यो नेत्रतुल्यो नृपेण तु ।
यतोऽमात्यो राज्यभारं वहन् राज्ञ: सहायकृत् ॥ |
४४६
|
ज्ञानिनां
वचनं श्रुत्वा स्वबुद्धया तदिमृश्य च ।
पालयन् पृथिवीपाल: शत्रुभिर्नैव बाध्यते ॥ |
४४७
|
स्खालित्ये
कठिनैर्वाक्यै: दण्डयन्तं सुमन्त्रिणम् ।
यो राजा लभते तस्मिन् निर्वीर्या: किल शत्रव: ॥ |
४४८
|
समये
शिक्षकै: सद्भि: साङ्गत्यरहितो नृप: ।
शत्रुबाधाविहीनोऽपि स्वयमेव विनश्यति ॥ |
४४९
|
विना
मूलधनं लाभो व्यापारे नैव लभ्यते ।
मह्त्साह्यं विना राज्ञां तथा स्थैर्य सुदुर्लभम् ॥ |
४५०
|
अनेकशत्रुबाधातो दु:खं दशगुणान्वितम्
।
भुपो विन्देत सत्सङ्गं प्राप्तं य: सन्त्यजेन्नृप: ॥ |
|
|
अधिकार् ४६. दु:साङ्गत्यवर्जनम्
|
|
|
|
४५१
|
महान्तो
दुष्टसाङ्गत्यात् भीतास्तिष्ठन्ति दूरत: ।
दुष्टान् बन्धुसमान् कृत्वा नीचास्तुष्यन्ति तै: सह ॥ |
४५२
|
भूगतं
सलिलं भूमिभेदाद् भिन्नरसं यथा ।
तथा नर: सङ्गभेदाद् भिन्नभिन्नमतिर्भवेत् ॥ |
४५३
|
सामान्यज्ञानजनने मन: कारणमिष्यते
।
अयं योग्यो न वेत्येतद् ज्ञानं साङ्गत्यहेतुकम् ॥ |
४५४
|
विशेषशेमुषी भायादादौ चित्तनिबन्धना
।
विमर्शे सापि साङ्गत्यमूलैवेति स्थितिर्धुवा ॥ |
४५५
|
चित्तशुद्धि:
कार्यशुद्धिरित्येतदुभयं नृणाम् ।
सत्साङ्गत्यवशादेव भवेदिति विभाव्यताम् ॥ |
४५६
|
लोके
शुद्धमनस्कानां शुद्धा स्याद् भाविसन्तति: ।
सत्साङ्गत्यसमेतानां जायते सकलं शुभम् ॥ |
४५७
|
प्रणिनां
चित्तसंशुद्धया सम्पत् सञ्जायते ध्रुवम् ।
सत्साङ्गत्यान्मन:शुद्धया सह कीर्तिरपि ध्रुवा ॥ |
४५८
|
मन:शुद्धि:
पुण्यकृत्यात् स्वयं जायेत केषुचित् ।
सत्साङ्गत्यं चित्तशुद्धिं वर्धयेत् तादृशेष्वपि ॥ |
४५९
|
आमुष्मिकं
सुखं चित्तशुद्धया मन्प्राप्यते नरै: ।
सत्सङ्गति: सुखस्यास्य प्राप्तौ विघ्नं निवारयेत् ॥ |
४६०
|
सत्सङ्गतिसमं
मित्रं न भवेत् सुखसाधनम् ।
दुसङ्गतिसम: शत्रुरपकर्ता न विद्यते ॥ |
|
|
अधिकार ४७. विमृश्यकारिता
|
|
|
|
४६१
|
व्ययमादौ
ततश्चायं ततो लाभं च शाश्वतम् ।
कार्यरम्भे विमृश्याथ कार्यमारभ्यतां बुधै: । |
४६२
|
परीक्ष्य
सुगृहीतेन सन्मित्रेण विमृश्य च ।
स्वयं चालोच्य य: कुर्यादसाध्यं तस्य किं भवेत् ॥ |
४६३
|
भाविलाभेच्छया हस्ते स्थितं
मूलधनं बहु ।
बुद्धिमान्तो नरा नैव व्ययीकुर्वन्ति सर्वदा ॥ |
४६४
|
"इयाँलाभ" इति स्पष्टमज्ञात्वा
कर्मणि प्रजा: ।
सहसा न प्रवर्तन्ते मानहानिभयार्दिता: ॥ |
४६५
|
कालं
देशं बलं शत्रोरज्ञात्वा समराङ्गणम् ।
प्रविशन् पार्थिव: शत्रुवर्धक: स्यान्न घातक: ॥ |
४६६
|
अकर्तव्यस्य
करणं कर्तव्यस्य विसर्जनम् ।
इत्येतदुभयं नृणां विनाशास्पदमिष्यते ॥ |
४६७
|
कार्यनिर्वहणोपायमादौ
ज्ञात्वा क्रियां कुरु ।
प्रविश्य कार्ये नोपायचिन्तनं कार्यसाधकम् ॥ |
४६८
|
बहूनां
साह्यमाप्यापि स कार्यं न हि साधयेत् ।
उपायांश्चतुरो यस्तु न प्रयुङ्क्ते यथायथम् ॥ |
४६९
|
परेषां
च गुणान् सम्यक् ज्ञात्वा तेषु यथागतान् ।
नाचरेद्यस्तु तस्यस्युर्यत्ना दोषसमन्विता: ॥ |
४७०
|
निजस्थित्यनुरोधेन कुरु सर्वं
विमृश्य च ।
न चेन्निन्देत् त्वां हि लोक: क्रियतां लोकसंग्रह: ॥ |
|
|
अधिकार ४८. बलपरिज्ञानम्
|
|
|
|
४७१
|
बलं
स्वीकृतकार्यस्य बलं स्वस्य रिपोर्बलम् ।
बलं द्वयो: पक्षयोश्च परामृश्य प्रवर्तय ॥ |
४७२
|
कार्यस्य
साध्यतां तद्वदुपायानां बलिष्ठताम् ।
जानन् दत्तावधानो य: तेन सर्वमवाप्यते ॥ |
४७३
|
"स्वबलं स्वल्पमि"त्येतद्
विस्मृत्योत्साहचोदिता: ।
कार्यमारभ्य मध्ये तु विघ्निता बहवो भुवि ॥ |
४७४
|
अकृत्वा च परै: स्नेहमज्ञात्वा
बलमात्मन: ।
आत्मश्लाघापरा लोके नाशं शीघ्रमवाप्नुयु: ॥ |
४७५
|
लघुपिञ्छं
भारवस्तु भवेन्नात्र विचारणा ।
भारपूर्णे तु शकटे भवेदक्षस्य भञ्जनम् ॥ |
४७६
|
वृक्षशाखाग्रमास्थाय
ततोऽप्यारोढुमूर्ध्वत: ।
उद्यत: शाखया साकं भग्नप्राणोप्यध: पतेत् ॥ |
४७७
|
स्वशक्तिमनतिक्रम्य
धर्ममार्गानुसारत: ।
दानशीलस्य विंत्त तु न कदापि विनश्यति ॥ |
४७८
|
आय:
स्वल्पो यदि भवेत् न दोषस्तत्र विद्यते ।
आयाद् व्ययस्य चाधिक्ये महान् दोष: प्रसज्यते ॥ |
४७९
|
व्ययीकरोति
विंत्त य:
स्वार्जितादधिकांशत: ।
जीविते तस्य सम्पत्तिराभासा न तु शाश्वती ॥ |
४८०
|
आयमार्गमनालोच्य
परेषामुपकुर्वत: ।
जीविते तस्य सम्पत्ति: क्षीयते झटिति स्वयम् ॥ |
|
|
अधिकार ४९. कालपरिज्ञानम्
|
|
|
|
४८१
|
उलूको बलवानह्नि काकेनाल्पेन
जीयते ।
जयैषिणस्तथा राज्ञ: काल: ख्रलु निरीक्ष्यते ॥ |
४८२
|
काले कर्म समारब्धं विचार्य
च कृतं पुन: ।
अस्थिरामपि सम्पत्तिं बघ्नात्येकत्र सुस्थिराम् ॥ |
४८३
|
क्रियोपयुक्तकरणै: कार्यं काले
करोति य: ।
साध्यते सुलभं तेन नासाध्यं भुवि किञ्चन ॥ |
४८४
|
कृत्स्नामपि महीं भोक्तुं
स शक्नोति महीतले ।
काले देशे च कर्माणि य: करोति समाहित: ॥ |
४८५
|
कृत्स्नस्य जगतो वाञ्छा यदि
स्यात् किन्नु चिन्तया ।
युक्तकालं प्रतीक्षस्व निष्क्रियस्त्वं भज क्षमाम् ॥ |
४८६
|
राज्ञ: कालार्थिनो मौनाद् वर्तनं
युद्धमन्तरा ।
मेषस्य युद्धत: पृष्ठगमनेन समं भवेत् ॥ |
४८७
|
शत्रोरग्रे बुधा: क्रोधं विसृजेर्युन
वै वहि: ।
अन्तर्निगूह्य ते कोपं काले स्यु: कार्यसाधका: ॥ |
४८८
|
नाशकाले समायाते रिपो: शीर्षमघ:
पतेत् ।
तावता मौनमास्थेयं क्षमया जयकांक्षिणा ॥ |
४८९
|
कालेऽनुकूले सम्प्राप्ते तमलभ्यं
विभाव्य च ।
तदैव कुरु कर्तव्यं तं कालं न हि द्रक्ष्यसि ॥ |
४९०
|
कार्यसाधनपर्यन्तं
बकवत्तिष्ठ निष्क्रिय: ।
कुरु कार्यं क्षणात् काले चञ्च्वा मीनं बको यथा ॥ |
|
|
अधिकार ५०. स्थलपरिज्ञानम्
|
|
|
|
४९१
|
समरे निजसैन्यानां स्थपनार्हस्थलीं
स्थिराम् ।
अनिश्चित्य न कुर्वीत युद्ध शत्रुं न द्वषयेत् ॥ |
४९२
|
सुरक्षितस्थलस्थेन विशिष्टबलशालिना
।
यो जय: प्राप्यते राज्ञा स तु सर्वार्थसाधक: ॥ |
४९३
|
लब्ध्वा सुरक्षितं देशमात्मानं
चापि पालयन् ।
रणभूमिं विशन् राजा दुर्बलोऽपि बली भवेत् ॥ |
४९४
|
ज्ञात्वा युक्तस्थलीं तत्न
स्थित्वा समरकर्मणि ।
यो विशेद् भूपतिस्तस्य नष्टाशा: स्युर्विरोधिन: ॥ |
४९५
|
अगाधसलिलावासो नक्न: सर्वान्
जयेद् ध्रुवम् ।
स एव तीरमापन्नो हन्यते दुर्बलैरपि ॥ |
४९६
|
महान्तो दृढचक्राश्च न यान्त्यम्बुनिधौ
रथा: ।
महीतले न प्रयान्ति नौका जलधिगामिन: ॥ |
४९७
|
विमृश्य विविधोपायान् स्थले
युक्ततमे वरे ।
कार्यमाचरतो राज्ञ: चित्तधैर्यमलं जये ॥ |
४९८
|
अल्पसैन्यवतो राज्ञो गुप्तस्थलमुपेयुष:
।
समक्षं बहुसैन्यानामीशोऽपि लयमाप्नुयात् ॥ |
४९९
|
दुर्गस्थलविहीनोऽपि प्रभावरहितोऽपि
च ।
जेतुं न शक्यो भूपाल: स्वस्थले निवसेद्यदि ॥ |
५००
|
शूलहस्तमहावीरहन्तृदन्तयुतोऽपि
सन् ।
पङ्कं विशन् मदगज: सृगालेनापि हन्यते ॥ |
|
|
======================================================
No comments:
Post a Comment