Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)
|
२. राजधर्माध्याय
अधिकार: ७१. इङ्गितपरिज्ञानम्
|
|
|
|
७०१
|
मुखनेत्रगतैर्भवै: अनुक्तं चान्तराश्यम्
।
यो वेत्ति सचिवो लोकभूषणं स भवेद् ध्रुवम् ॥ |
७०२
|
परिचगतं भावमिङ्गितै:
संशयं विना ।
ज्ञातुं समर्थो दैवेन तुल्य एव विभाव्यताम् ॥ |
७०३
|
मुखनेत्रस्पन्दनादिबाह्यचिह्ने: पराशयम् ।
यो वेत्ति तस्मै वित्तादि दत्वा तं स्ववशे कुरु ॥ |
७०४
|
परभावपरिज्ञाता चेङ्गितैर्भाषणादृते
।
आकारैरन्यतुल्योऽपि ज्ञानेनायं विशिष्यते ॥ |
७०५
|
मुखनेत्रगतं चिह्नं दृष्ट्वान्यस्य
मनोगतिम्
।
अजानतां वृथा नेत्रे दर्शनैकप्रजोजने ॥ |
७०६
|
वर्णभेदं वस्तिनिष्ठं
स्फटिको दर्शयेद्यथा
।
मनोगतं भावभेदं मुखं तद्वत् प्रदर्शयेत् ॥ |
७०७
|
'जडं
मुखं ज्ञानशून्य'मिति
वादो न युज्यते ।
पुरुषस्य सुखं दु:खं ज्ञात्वा स्वेन प्रकाशनात् ॥ |
७०८
|
इङ्गिताद्भवावज्ञातुरग्रे त्वागत्य तिष्ठत: ।
यो वेत्ति हृदयं तस्मिन् दु:खस्य कथनं वृथा ॥ |
७०९
|
नेत्रदृष्ट्याऽऽशयज्ञाता मन्त्री यदि वशे
भवेत् ।
सदसद्भावमन्यस्य तेन जानाति भूपति: ॥ |
७१०
|
'परभावपरिज्ञाने
वयं निशितबुद्धय:'
।
इति वक्तुं स शक्त: स्यात् दृष्ट्या यो वेद् चाशयम् ॥ |
|
|
अधिकार: ७२. सभास्वरूपम्
|
|
|
|
७११
|
समास्वरूपं विज्ञाय वक्तव्यार्थं
विचार्य च
।
सभायां शब्दजालज्ञै: वक्तव्यं सद्गुणान्वितै: ॥ |
७१२
|
साभिकानां रुचिं बुद्ध्वा
दोष: शब्दथियोर्यथा
।
न ज्ञायेत तथा स्पष्टं सभायामुच्यतां वच: ॥ |
७१३
|
सभिकानां तु रासिक्यमज्ञात्वा
भाषणोद्यता:
।
असमर्थाश्च कथने निर्विद्याश्च मता: समै: ॥ |
७१४
|
पण्डितानां सभामध्ये स्वपाण्डित्यं
प्रदर्श्यताम्
।
मूढानां पुरतो युक्तं न पाण्डित्यप्रदर्शनम् ॥ |
७१५
|
ज्ञानिनां भाषणात्पूर्वं
सभायां स्वीतभाषणम्
।
अनारभ्य विनीतेन स्थिति: स्यादुत्तमो गुण: ॥ |
७१६
|
शास्त्रज्ञानां सभायां यो दुष्टशब्दानुदीरयेत्
।
मुक्तिमार्गच्युतेनासौ तुल्यो दुष्यत्वमाप्नुयात् ॥ |
७१७
|
शब्दतत्त्वपरिष्कारधुरीणानां सभाग्रत: ।
अधीतशास्त्रग्रन्थानां विद्या विभ्राजते भृशम् ॥ |
७१८
|
स्वतोऽर्थग्राहिणामग्रे पण्डितोत्तमभाषणम्
।
रूढसस्ये त्वालवाले जलसेचनवद्भवेत् ॥ |
७१९
|
विद्वत्सभायां सुश्पष्टं
तत्त्वार्थकथने
पटु: ।
प्रमाद्यापि न भाषेत कुपण्डितसभाङ्गणे ॥ |
७२०
|
स्वतुल्यज्ञानिशून्यायां सभायां ज्ञानिभाषणम्
।
अशुद्धजलधाराग्रशीर्णामृतसमं भवेत् ॥ |
|
|
अधिकार: ७३ सभाकम्पविहीनता
|
|
|
|
७२१
|
सभास्वभावविदुषां भयनापि सभाङ्गणे ।
न स्यात् स्खालित्यमेतेषां शब्दतत्त्वविदां नृणाम् ॥ |
७२२
|
पण्डितेष्वग्रगण्यास्ते श्लाघ्यन्ते
सकलैरपि ।
अधीतं विदुषामग्रे विस्पष्टं यैर्निरूप्यते ॥ |
७२३
|
प्राणान् त्यक्तुं
सन्ति सज्जा धैर्येण
बहवो युधि
।
विद्वत्सदसि धैर्येण वक्तारो विरला: किल ॥ |
७२४
|
यदधीतं त्वया शास्त्रं
स्पष्टं सदसि तद्वद
।
अज्ञातं शास्त्रमन्येभ्यो ज्ञानिभ्यस्त्वं भज स्वयम् ॥ |
७२५
|
शब्दशास्त्रं पठित्वादौ,
अर्थशास्त्रं
तत: पठ
।
सभायामुत्तरं वक्तुं तद्धैर्यं जनयेत् तव ॥ |
७२६
|
मनोधैर्यविहीनस्य कृपाणो युधि निष्फल:
।
भीतस्य निष्फलं शास्त्रं सूक्ष्मज्ञानिसभाङ्गणे ॥ |
७२७
|
सभाभीरुजनाधीतशास्त्रं सदसि निष्फलम्
।
कृपाणो युद्धभूमिस्थनपुंसककरे यथा ॥ |
७२८
|
सत्सभायामनेकार्थकथने भीरुणा स्फुटम् ।
अधीतास्वपि विद्यासु सकलासु वृथैव ता: ॥ |
७२९
|
अधीतज्ञातविद्यांस्तान् विद्वद्गोष्ठयां
च भाषितुम्
।
भीतानज्ञातविद्योभ्योऽप्यधमान् मन्यते जन: ॥ |
७३०
|
अधीतविद्यान् सद्गोष्ठयां
स्फुटं वक्तुं चकातरान् ।
जीवतोऽपि मृतप्रायान् लोको जानाति केवलम् ॥ |
|
|
अधिकार: ७४. देश:
|
|
|
|
७३१
|
कृषिकर्मविदां श्रेष्ठै:
स्वधर्मनिरतै:
सदा ।
धनार्जनपरैर्वैश्यै: युक्तो देश इतीर्यते ॥ |
७३२
|
ईतिबाधाविरहितं नानावस्तुसमन्वितम्
।
देशान्तरजनश्लाघ्यं देशमाहुर्मनीषिण: ॥ |
७३३
|
देशान्तरादागतानां जनानां वहनात् स्वयम् ।
वस्तून्युत्पाध राज्ञे च दानाद् देश इति स्मृत: ॥ |
७३४
|
घोरव्याधिबुभुक्षादिरहितं रिपुबाधया
।
विमुक्तमेधमानं च ब्रुवते देशसंज्ञया ॥ |
७३५
|
भिन्नलक्ष्यवतां सङ्घरन्तश्छिद्रैरनर्थदै:
।
घातकै: क्षुद्रभूपैश्च मुक्तो देश: स कथ्यते ॥ |
७३६
|
परैरनाश्य: सततं क्कचित्
प्राप्तोऽपि
नाश्यताम्
।
समृद्धिसहितो देशो देशेषूत्तमतां व्रजेत् ॥ |
७३७
|
तटाकैर्दृढदुर्गैश्च पर्वतैर्निझरैस्तत:
।
नदीमि: पञ्चभिश्चाङ्ग: युक्तं देशं प्रचक्षते ॥ |
७३८
|
सम्पन्नीरोगताधान्यसमृद्धि: सुखजीवनम्
।
दुर्गश्च पञ्च देशस्य मण्डनानि भवन्ति हि ॥ |
७३९
|
यत्नं विना स्वतो
वस्तुदाता
स्याद् देशसत्तम:
।
अन्विष्य यतमानोभ्यो दाता देशो न चोत्तम: ॥ |
७४०
|
उक्तसर्वगुणाढयेऽपि देशे नास्ति
प्रयोजनम्
।
यदि राज्ञ: प्रजानां च मिथ: प्रीतिर्न वर्तते ॥ |
|
|
\अधिकार: ७५.दुर्ग:
|
|
|
|
७४१
|
समर्थानां युयुत्सूनां
राज्ञां दुर्ग: सहायद:
।
त्रस्तान्त:स्थितराज्ञां च दुर्गो भवति पालक: ॥ |
७४२
|
सलिलेन विशुद्धेन
मरुभूम्या
नगेन च ।
सुच्छायाढयनेनापि वृतो दुर्ग: समीर्यते ॥ |
७४३
|
औन्नत्यदैर्घ्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधै:
।
प्रकारं दुर्गशब्दएन ब्रुवते शास्त्रवेदिन: ॥ |
७४४
|
विशालप्रान्तदेशेन रक्ष्यक्षुद्रपथा
युत: ।
प्राप्तारिधैर्यहन्ता च दुर्गशब्देन कथ्यते ॥ |
७४५
|
अप्राप्य: शत्रुबृन्दानां
नानाहारसमन्वित:
।
म्वगतानां सुखवासप्रदोदुर्ग: प्रकीर्त्यते ॥ |
७४६
|
समये साह्यदा युद्धवीरा:
स्युर्यत्र
सर्वदा ।
सर्ववस्तुसमृद्धिश्च पत्रासौ दुर्गसंज्ञक: ॥ |
७४७
|
साक्षात्सैन्यप्रवेशन परित: ऐन्यवेष्टनात्
।
कैतवेनापि दुष्प्रापो दुर्ग इत्यभिघीयते ॥ |
७४८
|
परैरावेष्टिते दुर्गे स्वस्थानैकपरायणै:
।
रिपुवारणकृद्वीरै: वृतो दुर्ग: स कथ्यते ॥ |
७४९
|
स्थित्वैवान्त: परान् युद्धे
जेतुं शक्तैभटोत्तमै:
।
प्राप्तो महत्त्वं ख्यातश्च दुर्गो भवति सार्थक: ॥ |
७५०
|
पर्वोक्तगुणयुक्तोऽपिदुर्ग: किं वा
करिष्यति
।
युद्दोपायसमर्थानां सान्निध्यं न भवेद्यदि ॥ |
|
|
अधिकार: ७६.अर्थर्जनोपाय:
|
|
|
|
७५१
|
अनर्हानप्यर्हतमान् कर्तुं येन धनेने
तु ।
शक्यते तादृहाद्चित्तात्, अन्यत् किं सार्थकं भवेत् ॥ |
७५२
|
गुणिनं चाप्यर्थहीनं
दूषयन्ति
नरा भुवि
।
निर्गुणं चाप्यर्थवन्तं मानयन्ति जना: सदा ॥ |
७५३
|
अशाम्यो धनदीपोऽयं
गत्वा सर्वत्र सर्वदा ।
स्वाश्रितानां विरोधाख्यमन्धकारं विनाशयेत् ॥ |
७५४
|
युक्तमार्गेण नीत्या च यद्धनं समुपार्जितम्
।
तत्तस्य धर्मं कामं च प्रददाति न संशय: ॥ |
७५५
|
दयाप्रीती परित्यज्य
क्रियमाणं
धनार्जनम्
।
नैवानन्दकरं भूयादिति मत्वा परित्यजेत् ॥ |
७५६
|
नाथहीनं धनं घट्टशुल्कमूलागतं
धनम् ।
जितारिसविधावाप्तकरो राज्ञां धनं भवेत् ॥ |
७५७
|
आकिश्चने जायमानं दयारूपं शिशुं स्वयम्
।
धनरूपोपमाता तु वर्घयेत् पोषयेदपि ॥ |
७५८
|
प्रविशेत् स्वीकृते कार्ये निर्भीतो धनहस्तवान्
।
गजयुद्धं नगारूढो यथा निर्मयमीक्षते ॥ |
७५९
|
क्रूरायुधो वित्तसम: शत्रुगर्वविनाशक:
।
द्र्ष्टुं न शक्यते लोके तस्माद्धनमुपार्जय ॥ |
७६०
|
सम्पाद्य पुष्कलं वित्तं धर्ममार्गेण
तिष्ठत: ।
अर्थकामौ स्वतस्तस्य सिद्धयत: पृथिवीतले ॥ |
|
|
अधिकार: ७७. सैन्यप्रयोजनम्
|
|
|
|
७६१
|
चतुरङ्गसमायुक्तं मृतिभीतिविवर्जितम्
।
सैन्यं जयप्रदं राज्ञामुत्तं भाग्यमुच्यते ॥ |
७६२
|
विपत्काले स्वयं शीर्णं
भृत्वापि
धृतिमत्तया
।
स्थातुं शक्नोति तत् सैन्यं यन्मूलबलसंज्ञितम् ॥ |
७६३
|
मृषका मिलिता: शब्दं कुर्वन्तु
भुजगान्तिके
।
वृथा तद् भुजगोच्छवासस्पर्शान्नश्यन्ति ते क्षणात् ॥ |
७६४
|
अप्रधर्ष्या परैर्नैव शक्या वञ्चयितुं
परै: ।
परम्परागता धैर्ययुता सेनेति कथ्यते ॥ |
७६५
|
युद्धं करोतु कुपित:
स्वयमागत्य
चान्तक: ।
स्थातुं धैर्येण तस्याग्रे या शक्ता सैव वाहिनी ॥ |
७६६
|
वीर्यं मानं तथा
पूर्ववीराणां
मार्गगामिता
।
राजविश्वसपात्रत्वं चत्वार: सैन्यगा गुणा: ॥ |
७६७
|
प्राप्तारिवारणोपायं बुद्ध्वा व्युहं विद्याय च
।
रिपुसैन्यविनाशाय प्रस्थानं सैन्यलक्षणम् ॥ |
७६८
|
पराभिघातसहनं युद्धकर्मप्रवीणता
।
अभयं मास्तु वा व्यूहमात्रात् सेना वरा भवेत् ॥ |
७६९
|
यजमानेष्वविश्वासो दारिद्रयमधिकं
तथा ।
द्वयं न स्याद्यादि तदा स्वल्पा सेनापि जेष्यति ॥ |
७७०
|
चिरानुभवशीलैश्च वीरैर्युक्तापि
वाहिनी ।
सेनापतिविहीना सा महिमानं न विन्दते ॥ |
|
|
अधिकार: ७८. सेनादार्ढ्यम्
|
|
|
|
७७१
|
बहवोऽस्मत्पतेरग्रे हता: पाषाणतां
गता: ।
अस्मद्भूपपुरो नैव स्थातव्यं भोश्च शात्रवा: ॥ |
७७२
|
अमोघं बाणमुत्सृज्य
शशे प्राप्तो
जयो वृथा
।
गजे प्रयुक्तबाणस्तु मोघोऽपि स्याज्जयावह: ॥ |
७७३
|
अरिभिस्सह निर्भीत्या
योधनं वीरलक्षणम्
।
प्राप्ते खेदे रिपो: साह्यकर्ता वीर्यवतां वर: ॥ |
७७४
|
स्थितं शूलं गजे
मुक्त्वा
समीपस्थे
गजान्तरे
।
अन्वेष्टाऽन्यस्य शूलस्य वक्ष:स्थं प्राप्य तुष्यति ॥ |
७७५
|
रिपुशूलागमं रोषात् पश्यतो नयानद्वयम्
।
सनिमेषं यदि भवेत् तत् पराजयलक्षणम् ॥ |
७७६
|
निजोरसि मुखे बाणताडनं
त्वनवाप्य
तु ।
अतीतान् दिवसान् युद्धे वीरो व्यर्थान् हि मन्यते ॥ |
७७७
|
स्थिरकीर्तिकृते युद्धे प्राणानपि
विमुञ्चताम्
।
पादबद्धा शृङ्खला स्यात् अलङ्कारप्रयोजना ॥ |
७७८
|
प्राणान् तृणसमान् मत्वा प्रविशन्तो
रणाङ्गणम्
।
वीरा भूपैर्वारिताश्च विरमन्ति न ते तत: ॥ |
७७९
|
स्वप्रतिज्ञाभङ्गभिया समरे मर्तुमिच्छत:
।
वीरस्य दण्डनं दातुं को वा शक्तो भवेद् भुवि ॥ |
७८०
|
स्वीयं भूपं चाश्रुपातपर्वकं
शेदयन् भट: ।
मृतश्चत् प्रार्थनापूर्वं मृतिनूनमवाप्यताम् ॥ |
|
|
अधिकार: ७९. स्नेह:
|
|
|
|
७८१
|
आर्जनीयं स्नेहसमं श्रेष्ठं वस्तु न विद्यते ।
शत्रुभ्यो रक्षकं वस्तु स्नेहादन्यद् भवेत् किमु ॥ |
७८२
|
स्नेहो बुद्धिमता
साकं वर्घते
पूर्णचन्द्रवत्
।
बुद्धिहीनै: कृत: स्नेह: क्षीयते क्षीणचन्द्रवत् ॥ |
७८३
|
गुणिभिस्तु कृत: स्नेह:
क्रमेणानन्ददायक:
।
सदर्थ: पथनाद्यद्वत् क्रमशो मोददायक: ॥ |
७८४
|
परस्परकृता मैत्री न हि तोषाय
केवलम् ।
स्खालित्ये सुहृदस्तस्माद् वारणं सख्यमुच्यते ॥ |
७८५
|
मैत्र्या: परिचयो हेतु: नापि
सेशैकवर्तिता।
उभयोर्भावसाम्यं तु मैत्रीमुत्पादयेत् तयो: ॥ |
७८६
|
मैत्री मुखविकासेन
केवलं न हि जायते
।
हृदयस्य विकासोपि मैत्र्यां मुख्यमपेक्ष्यते ॥ |
७८७
|
निवर्त्य निन्दितात्
मार्गात्
सन्मार्गे
तं प्रवेश्य
च ।
दु:खे प्राप्ते तुल्यभागभागिता स्नेहलक्षणम् ॥ |
७८८
|
स्त्रस्तं वस्त्रं स्वतो गत्वा
यथा गृःणाति
वै कर:
।
तथा दु:खे स्वयं साह्यकरणं सख्यमुच्यते ॥ |
७८९
|
सर्वदा सर्वमार्गेण
चैकरूपतया
मुदा ।
साह्यं कृत्वा रक्षणं तु मैत्र्या: कोष्ठति कथ्यते ॥ |
७९०
|
'इयान्
स्नेहस्तस्य
मयि, तथा
तस्मिन ममापि च' ।
एवं विशिष्य कथनात् स्नेहे नास्ति विशिष्टता ॥ |
|
|
अधिकार: ८०. स्नेहपरीक्षा
|
|
|
|
७९१
|
स्नेहे कृते पुनस्तस्य
परित्यागो
न युज्यते
।
तस्मादनालोच्य मैत्रीकरणं जनयेत् व्यथाम् ॥ |
७९२
|
असकृह्बहुधा चर्चामकृत्वा
कृतमित्रता
।
मरणान्तकरं दु:खमान्तं तस्मै प्रयच्छति ॥ |
७९३
|
कुलीनत्वं गुणं दोषं
बन्धुपालनशीलताम्
।
विमृश्य सम्यक् ज्ञात्वाऽथ मैत्रीं केनचिदाचर ॥ |
७९४
|
कुले महति सम्भृतमपवादभयान्वितम्
।
कुरु मित्रं वाञ्छितार्थप्रदानेनापि सर्वदा ॥ |
७९५
|
कटुवाक्यं प्रयुज्यापि
दुर्मार्गाद्
यो निवारयेत्
।
लोकज्ञानवता तेन विमृश्य स्नेहमाचर ॥ |
७९६
|
स्नेहतत्त्वं परिज्ञातुं
खेद: स्यान्मानदण्डवत्
।
तस्मात् दु:खस्य सम्प्राप्तिरपि क्षेमाय कल्पते ॥ |
७९७
|
प्रमादाद् बुद्धिहीनेन
साकं स्नेहस्य
सम्भवे ।
ज्ञात्वा तस्य परित्यागात अन्यो लाभो न वर्तते ॥ |
७९८
|
उत्साहजनकात् कायोदन्यकार्ये
विमुच्यताम्
।
तथा मैत्री न कर्तव्या खेदे साह्यमकुर्वता ॥ |
७९९
|
उपकारं विपत्कालेऽप्यकुर्वाणस्य
मित्रता ।
स्मृता मरणकालेऽपि निर्दहेच्चित्तमुग्रत: ॥ |
८००
|
निर्दुष्टपुरुषै: साकं नूनं
मैत्री विधीयताम्
।
गुणहीननरस्नेहं दत्वाऽर्थं वा परित्यज ॥ |
=============================================
No comments:
Post a Comment