Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)
|
१. उपोद्घात:
अधिकार
११. कृतज्ञता
|
|
१०१
|
अस्माभिरकृते साह्ये यस्तु
साह्यं करोति न: ।
लोकद्वयप्रदानेऽपि तस्य नास्ति प्रतिक्रिया ॥ |
१०२
|
समये रचितं साह्यं स्वल्पं
स्यात् परिमाणत्: ।
तदेव कालमेदेन् महत् स्याद् भुवनादपि ॥ |
१०३
|
अनालोच्य प्रतिफलं साह्यं
प्रेम्णा विनिर्मितम् ।
विमृष्ट सत् समुद्रादप्यधिकं स्यान्न संशय: ॥ |
१०४
|
स्वल्पं यवसं साह्यं विमृश्य
बहु लाभदम् ।
तालवृक्षादपि महत् तन्मन्यन्ते नरोत्तमा: ॥ |
१०५
|
कृते च प्रतिकर्तव्यं स्वीयशक्तयनुसारत:
।
प्राप्तलाभानुसारेण प्रतिकारो विगह्र्यते ॥ |
१०६
|
ज्ञानाचारसमेयानां सम्बन्धं
नैव विस्मरेत् ।
आपत्सहायभूतनां मैत्रीं नैव परित्यजेत् ॥ |
१०७
|
कष्टकाले समायाते उपकुर्वन्ति
ये नरा: ।
सन्त: स्मरन्ति तन्मैत्रीं सप्तसप्तसु जन्मसु ॥ |
१०८
|
कृतानामुपकाराणामधर्मे विस्मृतिर्भवेत्
।
विस्मृतिस्त्वपकाराणां सद्यो धर्म: स कथ्यते ॥ |
१०९
|
उपकृत्य प्रथमत: मरणान्तकरा
यदि ।
उपकारा अपि कृता: लीयन्ते तत्र चैव ते ॥ |
११०
|
धर्मान्तरविहीनानां विद्यते
पापमोचनम् ।
कृतज्ञताधर्महीने नास्ति वै पापमोक्षणम् ॥ |
अधिकार १२. ताटस्थ्यम्
|
|
१११
|
शत्रुमित्रतृतीयेषु न्यायमार्गानुसारिण:
।
निष्पक्षपाततारूपो धर्मे योऽस्य फलं भवेत् ॥ |
११२
|
निष्पक्षपातिनो वित्तं न तु
केवलमात्मन: ।
स्थिरं सत्पुत्रपौत्रादि सन्तते: स्यात् सुखावहम् ॥ |
११३
|
पक्षपातार्जितं वित्तं सुखं
नैव प्रयच्छति ।
कदाचित् सुखदं भायादथापि परिवर्जयेत् ॥ |
११४
|
अयं माध्यस्थ्यवर्तीति विपरीतोऽयमित्यपि
।
सदसत्पुत्रजन्मभ्यां ज्ञातुं शक्यं विशेषत: ॥ |
११५
|
सुखदु:खे हि संसारे कर्माधीने
भविष्यत: ।
अतो मध्यस्थवृत्ति: स्यात् श्रेष्ठमाभरणं सताम् ॥ |
११६
|
हृदयं पक्षपातेन यदि पापं विचिन्तयेत्
।
तदुत्पात इति ज्ञेयं भाविनाशस्य मूचकम् ॥ |
११७
|
निष्पक्षपातिनो धर्मशीलस्य
समुपागतम् ।
दारिद्र्यमपि मन्यन्ते भाग्यमेव मनीषिण: ॥ |
११८
|
मध्ये स्थिता तुला द्रव्यं
न्यायतस्तुलयेद्यथा ।
तथा निष्पक्षपातित्वं माध्यस्थं लक्षणं सताम् ॥ |
११९
|
पक्षपातं विना चित्तं मध्यस्थं
च भवेद्यति ।
वाचि मध्यस्थभावोऽपि तदा नूनं भविष्यति ॥ |
१२०
|
अन्येषामपि वस्तूनि स्वकीयानीव
पश्यता ।
क्रियते यत्तु वाणिज्यं तद्वाणिज्यमितीर्यते ॥ |
अधिकार १३. निग्रहशीलता
|
|
१२१
|
तनोति निग्रहो मर्त्यमुत्तं
देवपूजितं ।
अनिग्रहो नरं घोरे नरके पतयत्यपि ॥ |
१२२
|
निग्रह: शाश्वतं वित्तमिति
तत् पालयेत् सदा ।
निग्रहादधिकं श्रेयो मानवानं न विद्यते ॥ |
१२३
|
ज्ञातव्यं तत्वतो ज्ञात्वा
संयमी यो भवेन्नर: ।
महात्मनां गुणाज्ञानां कृपया स सुखी वसेत् ॥ |
१२४
|
सदा निग्रहशीलो य: स्वीयमार्गावलम्बिन:
।
महोन्नता स्थिति स्तस्य शैलादप्यधिका भवेत् ॥ |
१२५
|
सदा निग्रहशीलत्वं सर्वेषामुत्तं
मतम् ।
तेषु चाप्यग्रगण्यस्य तद्भवेदधिकं धनम् ॥ |
१२६
|
पञ्चेन्द्रियाणि सम्यम्य विद्यमानस्य
कर्मवत् ।
आत्मरक्षणशक्ति: स्यात् सप्तस्वपि च जन्मसु ॥ |
१२७
|
निरोद्धव्येषु बहुषु जिह्वां वा रोध्दुमर्हति ।
अन्यथा शब्ददोषेण जायते दु:खभाजनम् ॥ |
१२८
|
शक्तवा कुशब्दं योऽन्यस्य
कुरुते मनसो व्यथाम् ।
तात्कृताश्चान्यधर्मा: स्युरनिष्टफलदायका: ॥ |
१२९
|
वह्निज: स्यात् व्रणा: शान्त:
चिह्नमात्रं न शाम्यति ।
वागग्निजव्रणस्येह नैवोपशमनं भवेत् ॥ |
१३०
|
अक्रोध: संयमी यस्तु विद्यया
च निषेवित: ।
स्वत् एव समागम्य तं रक्षेद्धर्मदेवता ॥ |
अधिकार १४. सदाचारसम्पत्ति:
|
|
१३१
|
सदाचारो मनुष्याणां सर्वश्रेयांसि
यच्छति ।
प्राणेभ्योपि सदाचार: श्रेष्ठ इत्येव पालयेत् ॥ |
१३२
|
प्रेम्णा परिश्रमेणापि सदाचारं
तु पालयेत् ।
सर्वधर्मे सदाचार: श्रेष्ठो जीवितसाह्याद: ॥ |
१३३
|
य: सदाचारसम्पन्न: स कुलीन
इतीर्यते ।
य: सदाचाररहितस्त्वकुलीन: स गण्यते ॥ |
१३४
|
अधीतविस्मृतं वेदं प्राप्नोति
पठनात् पुन: ।
विप्रो नषकुलाचार: पुनर्नाप्नोति विप्रताम् ॥ |
१३५
|
असूयाविष्टमनुजो यथा वित्तं
न विन्दति ।
तथा कुलाचारहीनो लभते न समुन्नतिम् ॥ |
१३६
|
धीरा: सदाचारहानात् दृष्ट्वा
नीचकुलोद्भवम् ।
न मुञ्चन्ति सदाचारं दुस्साधमपि सर्वदा ॥ |
१३७
|
सदाचारेण सर्वेऽपि लभन्ते परमं
यश: ।
सदाचारपरित्यागादपवादो मुधा भवेत् ॥ |
१३८
|
उपयोर्लौकयो: सौख्यं सदाचारेण
जायते ।
तथा दु:ख दुराचारात् प्राप्यते लोकयोर्द्वयो: ॥ |
१३९
|
दोषयुक्तानि वाक्यानि विस्मृत्यापि
प्रमादत: ।
तेषां मुखान्न निर्यान्ति ये सदाचारशालिन: ॥ |
१४०
|
ये तु नैव प्रवर्तन्ते कालदेशानुसारत्:
।
अधीतेष्वपि शास्त्रेषु ज्ञानिनो न भवन्ति ते ॥ |
अधिकार् १५. परदारपराङ्मुखता
|
|
१४१
|
परपत्नीसङ्गमेच्छादोषस्तेषु
न विद्यते ।
धर्मार्थशास्त्र तत्वज्ञा ये भवन्ति महीतले ॥ |
१४२
|
परपत्नीलम्पटनां
मध्ये मृढतमो हि स: ।
परदार गृहद्वारे कामार्तो य: प्रतीक्षते ॥ |
१४३
|
जीवन्नपि
मृतप्राय: स तु संशय मन्तरा ।
विश्वस्तसुहृद: पत्नीं यो भोक्तुमभिवाञ्छति ॥ |
१४४
|
पापं
किञ्चिदनालोच्य परनारीरतात्मन: ।
किमन्यै र्विभवै: पूणैं: स दु:खान्न विमुच्यते ॥ |
१४५
|
सर्वसाधारणं
मत्वा सङ्गत: परवल्लभाम् ।
अपवादं स्थिरं धत्ते गर्हितं तत्कुलं भवेत् ॥ |
१४६
|
अपवादो
भयं पापं द्वेषश्चेति चतुर्विधा: ।
दोषा नैनं विमुञ्चन्ति योऽन्यभार्यां निषेवते ॥ |
१४७
|
धर्म
मार्गेण गार्हस्थ्यसेवनेनेह जीवत: ।
अन्यदीयेषु दारेषु मतिरेव न जायते ॥ |
१४८
|
परस्त्रीदर्शने
चित्तदाढर्थे यद्रू विद्यते सताम् ।
नेदं तेषां धर्ममात्रं पूर्णाचारोऽपि स स्मृत: ॥ |
१४९
|
घोराम्मोधि
वृते ऽप्यस्मिन् लोके ते श्नुवते सुखम् ।
पराङ्गनापरिष्वङ्गं कामार्ता ये न कुर्वते ॥ |
१५०
|
त्यक्त्वा धर्म मधर्मणां कर्ता
चापि विशेषत: ।
श्लाघ्य एव भवेदत्र परस्त्रीविमुखो यदि ॥ |
अधिकार १६. क्षमा
|
|
१५१
|
धारणात्
खनकस्यापि धरण्या इव नि:समा ।
स्वापराधिषु या क्षान्ति: स धर्म: परमो नृणाम् ॥ |
१५२
|
अपकार:
परकृत: सोढव्य: सर्वदा नरै: ।
विस्मर्ता त्वपकारणां ततो भुवि महीयते ॥ |
१५३
|
दरिद्रेषु
दरिद्र: स्यात् भ्रष्टस्त्वतिथिपूजनात् ।
मूढनिन्दा सहिष्णुस्तु समर्थेषूत्तमो भवेत् ॥ |
१५४
|
आत्मनो
गुणसम्पत्त्या विख्यातिं यश्चिकीर्षति ।
तेन क्षमावता भाव्यमपराधिजनेष्वपि ॥ |
१५५
|
शत्रूणामपकर्तारं
सन्तो न बहुकुर्वते ।
अरिष्वपि क्षमावन्तं स्वर्णवत् हृदि कुर्वते ॥ |
१५६
|
विरोधिष्वपकर्तृणां
तिष्ठेदेकदिनं सुखम् ।
परद्रोहसहिष्णूनं यावज्जीवं भवद्यश: ॥ |
१५७
|
परैरनर्थात्
विहितात् लब्ध्वापि मनसो व्यथाम् ।
अधर्माचरणाञ्चित्त निरोधो हि प्रशस्यते ॥ |
१५८
|
कुर्वतामात्मनो द्रोहं मनोऽहङ्कार
करणात् ।
अकृत्वैव प्रतीकारं जेतव्या: क्षमयैव ते ॥ |
१५९
|
मर्यादां
समतिक्रम्य निन्दकान् कठिनोक्तिभि: ।
क्षमया ये सहन्तेऽत्र शुद्धास्ते मुनिभि: समा: ॥ |
१६०
|
महानेव स मन्तव्य: विनाऽन्नं
यस्तपस्यति ।
परनिन्दासहिष्णुस्तु ततोऽपि स्यान्महत्तर: |
अधिकार १७. अनसूयता
|
|
१६१
|
असूयाहीनचित्तेन
सन्मागैंक प्रवर्तिना ।
अनसूया रक्षणीया सदाचारसमा सदा ॥ |
१६२
|
असूया
यस्य न भवेत् सर्वदा सर्वजन्तुषु ।
स एव भग्यवान् लोके सर्वभाग्येषु तद्वरम् ॥ |
१६३
|
परोत्कर्षमसोद्वैव
यस्त्वसूयापरो भवेत् ।
इह वित्तं परे पुण्यमुभयं तस्य हीयते ॥ |
१६४
|
असूयया
भवेद्दु:खमिति मत्वा मनीषिण: ।
अधर्मे नैव कुर्वन्ति ह्यसूयावशमागता: ॥ |
१६५
|
असूयया
सम: शत्रुर्वर्तते न महीतले ।
रिपौ कदाचिच्छान्तेऽपि नूनं सा कुरुते व्यथाम् ॥ |
१६६
|
यो
वै न सहतेऽन्यस्य विभवं समुपागतम् ।
बन्धवास्तस्य नश्यन्ति वस्त्राहारविवर्जिता: ॥ |
१६७
|
दृष्ट्वा
नरमसूयाढ्यं मन्युना सहिता रमा ।
ददाति तस्य दारिद्र्यम् स्वयं चापि विमुञ्चति ॥ |
१६८
|
असूयया सम: पापी विद्यते नैव
भूतले ।
भाग्यं सर्वे नाशयित्वा कुपथे च नयेन्नरम् ॥ |
१६९
|
असूयासहिते भाग्यं दारिद्र्यं
सज्जनेष्वपि ।
यदि स्यात् कारणं तत्र कि स्यादिति विचार्यताम् ॥ |
१७०
|
असूयावान्नरो लोके न प्राप्नोति
समुन्नतिम् ।
असूयया विरहितं न जहात्युन्नतिर्नरम् ॥ |
अधिकार् १८. अलोभ:
|
|
१७१
|
अधर्मादन्यावस्तूनि
यो ऽपहर्तुमभीच्छति ।
कुलनाशं स भजते दोषा अपि भजन्ति तम् ॥ |
१७२
|
अन्यायाल्लज्जिता मर्त्या लोभेन
परवस्तुषु ।
स्वल्पलाभमभीप्सन्त: निषिद्धं नैव कुर्वते ॥ |
१७३
|
न्यायमार्गागतं नित्यसुखं यै:
प्रार्थते नर: ।
अल्पसौख्यात् न ते कुर्यु: लोभमन्येष्वधार्मिकम् ॥ |
१७४
|
जित्वा पञ्चेन्द्रियग्रामं
तत्वज्ञानसमन्विता: ।
ज्ञात्वापि स्वक दारिद्र्यमलुब्धा: परवस्तुषु ॥ |
१७५
|
परद्रव्यापहारार्थे
निन्दितं कर्म कुर्वत: ।
सूक्ष्मेण शास्त्रज्ञानेन विद्यते किं प्रयोजनम् ॥ |
१७६
|
सर्वभूतदयापूर्वे
गार्हस्थ्यमनुतिष्ठत:
परवस्तुप्रलोभेन गार्हस्थ्यमपि निष्फलम् ॥ |
१७७
|
परद्रव्यापहारेण लब्धं वस्तु
परित्यजेत् ।
फलप्रदानवेलायां न तच्छ्रेय: प्रदास्यति ॥ |
१७८
|
यो
ऽन्यदीयं वस्तुजातमपहर्तु न काङ्क्षति ।
न क्षीयते तस्य भाग्यं भूय एवाभिवर्धते ॥ |
१७९
|
परद्रव्येष्वलुब्धा
ये ज्ञानिनो धर्मवित्तमा: ।
तानू वासयोग्यान् विज्ञाय तेष्वेव रमते रमा ॥ |
१८०
|
परिणाममनालोच्य परलुब्धो विनश्यति
।
अलुब्धो यस्तु वर्तेत राजते स जयी भुवि ॥ |
अधिकार १९. परोक्षनिन्दावर्जनम्
|
|
१८१
|
अप्यनुक्त्वा
धर्मशब्दमधर्माचार तत्पर: ।
परोक्षनिन्दादोषेण रहितश्चेत् प्रशस्यते ॥ |
१८२
|
परोक्षे
दूषयित्वा या प्रत्यक्षे कपटस्तुति: ।
धर्महानेरधर्मस्य करणात् पापदैव सा ॥ |
१८३
|
परोक्षे दूषणादग्रे स्तुत्या
यज्जीव्यते मुघा ।
ततोऽपि धर्मन्नष्टस्य शास्त्रोक्ता सद्नतिर्भवेत् ॥ |
१८४
|
प्रत्यक्षे दूष्यतां सम्यक्
विना दाक्षिण्यमेव वा ।
परिणाममनालोच्य परोक्षे न तु दूषयेत् ॥ |
१८५
|
वाचा
धर्मे वदेन्नाम मनस्तत्र न विद्यते ।
इत्येव स हि मन्तव्य: परोक्षे यस्तु निन्दति ॥ |
१८६
|
यो निन्दति परोक्षेऽन्यं तत्कृतेषु
बहुष्वपि ।
दोषेषु सारमन्विष्य तमन्यो दूषयेतुर: ॥ |
१८७
|
यो वा मधुरवाक्येन स्नेहमन्यैर्न
वर्घयेत् ।
परोक्षनिन्दकस्यास्य भजेन्मित्रममित्रताम् ॥ |
१८८
|
विश्वस्तमित्रदोषणां
परोक्षे संप्रकाशका: ।
उदासीन मनुष्येषु न कुर्यु: किमिवाप्रियम् ॥ |
१८९
|
'ममास्य
भरणं धर्म' इति मत्वा वसुन्धरा ।
परोक्षनिन्दासक्तस्य देहभारं विभर्ति किम्? ॥ |
१९०
|
परोक्षनिन्दक: स्वीयदोषान्
अन्यकृतानिव ।
यदि जानाति तं नैव बाधन्ते दु:खराशय: ॥ |
अधिकार २०. वृतालापनिषेध
|
|
१९१
|
जुगुप्साजनकं
व्यर्थभाषणं जनसंसदि ।
प्रयुङ्क्ते य: स सर्वेषां परीहास पदं भवेत् ॥ |
१९२
|
मित्रेष्वनिष्टकरणादपि
पण्डित मण्डले ।
वृथाप्रलापो विज्ञेयो महानिष्टफलप्रद: ॥ |
१९३
|
अविनीतिपर: सोऽयमिति स्पष्टं
प्रतीयते ।
निरर्थकानि वाक्यानि ब्रूते यस्तु विशेषत: ॥ |
१९४
|
हीनमर्थगुणाभ्यां यत् वाक्यं
सर्वत्र कथ्यते ।
नीत्या विरहितं तत्तु नाशयेत् सद्गुणानपि ॥ |
१९५
|
ब्रूयुर्निरर्थकं
वाक्यं महास्थानगता यदि ।
तदा कीर्तिप्रतिष्ठाभ्यांभवन्ति रहिता अमी ॥ |
१९६
|
निरर्थकानां
वाक्यानां प्रयोक्ता य: पुन: पुन: ।
न नर: स हि मन्तव्यो ऋजीषं स्यान्नरेष्वयम् ॥ |
१९७
|
अधर्मसहितं
वाक्यं महान्त: कथयन्त्वपि ।
अप्रयोजकवाक्यानि वर्जनीयानि तैरपि ॥ |
१९८
|
मोक्षाद्युत्तमलाभार्थे
मीमांसन्ते मिथस्तु ये ।
अल्पलाभकरं वाक्यं न ते ब्रूयुर्मनीषिण: ॥ |
१९९
|
अविद्यारहिता:
सन्त: तत्वज्ञानसमन्विता: ।
विस्मृत्याप्यर्थविधुरं वाक्यं नैव प्रयुञ्जते ॥ |
२००
|
वाच्यं तदेव वाक्येषु यल्लाभजनकं
वच: ।
त्याज्यं तदेव वाक्येषु यल्लाभरहितं वच: ॥ |
=========================================
No comments:
Post a Comment