Tuesday 6 January 2009

अधिकार 91-100


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

राजधर्माध्याय


अधिकार: ९१. भार्यानुवर्तनम्



९०१
भार्यावचनकारी न लभते फलमुत्तमम् ।
भार्यानुसरणं लक्ष्यसाधने बाधकं भवेत् ॥

९०२
लक्ष्यमुत्सृज्य कामार्थं भार्यावचनकारिभि: ।
लब्धं वित्तं भवेत्तेषां नूनं लज्जाप्रदायकम् ॥

९०३
आत्मगौरवमुत्सृज्य य: पत्न्यां भीतिमान् भवेत् ।
अतथाभूतमहतामग्रे लज्जां स विन्दते ॥

९०४
भार्याभीरुर्न लभते लोकान्तरसुखं स्थिरम् ।
कार्यनिर्वाहसामर्थ्यं न तस्य श्‍लाघ्यते बुधै: ॥

९०५
भार्याभीरुर्महात्मभ्यो बहुभ्यश्च निजेच्छया ।
स तु स्वीयधनं चापि दातुं भीतिमवाप्‍नुयात् ॥

९०६
देवभॊगमवाप्यापि नायं प्राप्‍नोति गौरवम् ।
रम्यहस्तयुतां भार्यां दृष्ट्वा य: कातरो भवेत् ॥

९०७
भार्यायां दास्यकृत्येन जीवतां पौरुषादपि ।
स्त्रीणां लज्जासमेतानां स्त्रीत्वमेव विशिष्यते ॥

९०८
भार्यावचनकर्ता तु स्वमित्रेभ्योऽपि कांक्षितम् ।
न स्यात्पूरयिंतु शक्त: कुर्याद्धर्मान् न शाश्वतान् ॥

९०९
धर्मकार्यं तन्निधानवित्तार्जनविधिं तथा ।
काम्यकर्माणि कर्तुं च पत्‍नीदासो न शक्‍नुयात् ॥

९१०
ऋजुपूतमनस्कानां श्रेष्ठस्थानमुपेयुषाम् ।
पत्‍नीदास्यकराज्ञानां सर्वथा न भविष्यति ॥





अधिकार: ९२. पण्याङ्गना


९११
हार्दप्रेम विना वित्तहेतो: प्रीतिं करोति या ।
दास्यास्तस्या रम्यवाक्यं दद्याद् व्यसनमन्तत:
९१२
धनलाभानुसरेण ब्रूवतीनां प्रियं वच: ।
स्‍नेहं निर्गुणदसीनां विमृश्य विसृजेन्नर: ॥
९१३
पण्यस्त्रीणामर्थहेतो: कृत्रिमालिङ्गनं तु यत् ।
तमोवृतस्थले नूत्‍नप्रेतालिङ्गनवद्भवेत् ॥
९१४
अर्थमात्रैकलक्ष्यणां दासीनां कपटं सुखम् ।
नाद्रियन्ते धर्ममार्गविमर्शनपरा बुधा: ॥
९१५
स्वभावज्ञानसहिता: शास्त्रज्ञानेन चान्विता: ।
सर्वस्वाम्याङ्गनाभोगं कृत्रिमं न हि वृण्वते ॥
९१६
पण्यस्त्रीणां छलं प्रेम यच्छन्तीनां जनान् प्रति ।
भुजौ रूपमदान्धानां न स्पृशेयुर्गुणैषिण: ॥
९१७
कृत्वाऽन्यं हृदि कायेन यच्छन्तीनां स्वसङ्गमम् ।
वारस्त्रीणां भुजौ चित्तदार्ढ्यहीना: स्पृशन्त्यहो ॥
९१८
कुलटाभिर्वञ्चिकाभि: सहालिङ्गनकर्म तु ।
नृणा विवेकशून्यानां भूतं प्राणहरं भवेत् ॥
९१९
चारित्र्यमात्रशून्यानां दासीनां मधुरो भुज: ।
मूढाधमजनप्राप्यनिरयेन समो भवेत् ॥
९२०
द्विमनस्का वारनारी द्यूतो मद्यं मदप्रदम् ।
त्रिभिरेतैर्युतं मर्त्य विमुञ्चेत् पद्मसम्भवा ॥



अधिकार: ९३. मद्यपाननिषेध:



९२१
मद्यपानप्रियान् दृष्टा न बिभ्यति विरोधिन: ।
तथा तैरार्जिता कीर्ती: अचिरात् क्षीयते भुवि ॥

९२२
मद्यं न पेयं विदुषा कश्चित् पातुं वृणोति चेत् ।
महाद्भिर्माननीयोऽसौ न कदाचिद्भविष्यति ॥

९२३
जनन्या: पुरतो मद्यपानं क्लेशप्रदं यदि ।
पानं महात्मनामग्रे कियदु:खकरं भवेत् ॥

९२४
अतिहेयसुरपानरूपदोषजुषां पुर: ।
लज्जाख्यरमणी स्थातुमशक्ता दूरतो व्रजेत् ॥

९२५
धनं दत्वा सुरां पीत्वा चोन्मादावस्थया स्थिति:
इतिकर्तव्यतामूढरूपाज्ञाननिरूपिका ॥

९२६
ज्ञानाभावान्न भेदोऽस्ति निद्राणस्य मृतस्य च ।
विषपायी सुरापायी द्वामिवौ च तथा समौ ॥

९२७
सुरां रहसि संसेव्य नष्टप्रज्ञान् मदान्वितान् ।
ग्रामीणा हेतुभिस्तत्त्वमूह्य नूनं हसन्ति हि ॥

९२८
सुरां पीत्वापि 'नो पीतं मये ति कथनं त्यज ।
पानमात्रेण चित्तस्थसत्यं किल विनिस्सरेत् ॥

९२९
सुरया स्मृतिहीनस्य ज्ञानदानं सहेतुकम् ।
दीपसाह्यान्नीरमग्रवस्त्वन्वेषणवाद् वृथा ॥

९३०
अपीतमदिर: कश्चिद् दृष्ट्वा पानमदान्वितम् ।
'इयं दशा ममापि स्यात् पानेन' ति किं स्मरेत् ॥



अधिकार: ९४. द्यूत:


९३१
न कुर्याज्जयशीलोऽपि द्यूतं, नश्येज्जितं धनम् ।
मक्ष्याशया मीनभुक्तजलोद्गारसमं भवेत् ॥
९३२
प्राप्यौकांशं शतांशानां त्यक्ता द्यूतोपसेवक: ।
धर्मकामप्राप्तिमार्गं न लभेत कदाचन ॥
९३३
अक्षेण भ्रमणार्हेण लाभार्थं द्यूतकारिभि: ।
सञ्चितार्थस्तथा लाभो रिपूणां सविधं व्रजेत् ॥
९३४
स्वाश्रितानां बहुक्लेशप्रदानात् कीर्तिनाशनात् ।
दारिद्र्यदायकं द्यूतसदृशं नास्ति किञ्चन ॥
९३५
स तु सर्वसमर्थोऽपि भवेन्नूनमकिञ्चन: ।
अक्षं द्यूतस्थलं द्यूतकृत्यं य: सेवते सदा ॥
९३६
दारिद्र्यदेवता द्यूतनाम्नी यं तु समाश्रयेत् ।
इह सर्वसुखैर्मुक्त: स परे नरकं व्रजेत् ॥
९३७
पित्रार्जितधनं तस्य सद्गुणोऽपि विनश्यति ।
द्यूतक्रीडाङ्गणे येन सर्व: कालोऽपि याप्यते ॥
९३८
असत्यभाषणं वित्तनाश: कारुण्यवर्जनम् ।
सर्वनिमाननर्थांश्च द्यूतकर्म प्रयच्छति ॥
९३९
धनविद्यायशोवस्त्रभोजनानां च पञ्चकम् ।
तं विहाय विनिर्याति सेवते द्यूतकर्म य: ॥
९४०
असकृन्नष्टत्तोऽपि द्यूतं कुर्याद्यथेपस्या ।
रोगार्तोऽप्यसकृत्तद्वन्मर्त्यो वाञ्छति जीवितुम् ॥

अधिकार: ९५. औषधम्


९४१
वातपित्तश्लेष्मरूपत्रयाणां विषमां स्थितिम् ।
आयुर्वेददविदो व्याधिशब्देन ब्रुवते बुधा: ॥
९४२
भुक्तं जीर्णमभूद्वेति विमर्शनन्तरं पुन: ।
भुञ्जानस्य शरीरस्य वृथा भवति भेषजम् ॥
९४३
भुक्तेऽन्ने जीर्णतां प्राप्ते भुञ्जान: परिमाणत: ।
चिरं चानेन देहेन कालं नयति मानव: ॥
९४४
भुक्तस्य जीर्णतां बुध्वा बुभुक्षानन्तरं नर: ।
आहारनियमोपेतो भुञ्जियाच्छास्त्रवर्त्मना ॥
९४५
यथाशास्त्रं यथामानं स्वल्पान्नस्य निषेवणात् ।
मर्त्यं प्राणहरो व्याधि: यावज्जीवं न बाधते ॥
९४६
मिताहारपरे सौख्यं शाश्वतं विद्यते यथा ।
नित्यरोगो भवेत्तस्मिन्नमिताहारसेवके ॥
९४७
जीर्णशक्तिमतिक्रम्य यथावदविमृश्य च ।
भूरि भुक्तवतो नानारोगा: प्रदुर्भवन्त्यहो ॥
९४८
रोगतत्वं परामृश्य ज्ञात्वा रोगस्य कारणम् ।
शमनोपायमालोच्य वैद्य: कुर्यान्निवारणम् ॥
९४९
रोगार्तानां वयोमानां कालं रोगप्रमाणताम् ।
आलोच्य वैद्यशास्त्रज्ञ: चिकित्सां सम्यगाचरेत् ॥
९५०
रुग्णो भिषग्भेषजं च समये भेषजप्रद: ।
एतच्चतुष्कसंयोगश्चिकित्सोति प्रकीर्त्यते ॥

अधिकार: ९६. कुलीनत्वम्


९५१
असत्कुलप्रसूतेषु मनुष्येषु स्वभावत: ।
लज्जामाध्यस्थ्यनामानौ स्यातां न सङ्गतौ ॥
९५२
लज्जाचारित्र्यसत्याख्यगुणानां त्रितयं भुवि ।
तिष्ठेत् सत्कुलजातेषु विद्याविरहितेष्वपि ॥
९५३
प्रसन्नवदनं दानमनिन्दा रम्यभाषणम् ।
इतीमे सुगुणा: शुद्धकुलीने सहजा मता: ॥
९५४
अनेककोटिसंख्याकधनलाभकृतेऽपि ते ।
न कुर्यु: सत्कुलोत्पन्ना दोषं कुलविद्यातकम् ॥
९५५
प्रसिद्धसत्कुलोत्पन्नो दारिद्र्येण युतोऽप्ययम् ।
परोपकारकरणान्न कदाचिन्निवर्तते ॥
९५६
'निर्दुष्टकुलचारित्र्यसहिता: स्याम सर्वदा' ।
इत्यं दृढप्रतिज्ञास्तु निन्दितं न वितन्वते ॥
९५७
महाकुलप्रसूतेषु स्थित: स्वल्पोऽपि दुर्गुणा: ।
व्योमचन्द्रकलङ्केन समं दृश्येत् सुस्फुटम् ॥
९५८
कुलोचितगुणाढ्योपि यो वा प्रीतिविवर्जित: ।
तथाविधे कुलीनत्वसन्देहो जायते नृणाम् ॥
९५९
पूरढाङ्कुरमूलाद्धि भूतत्वं ज्ञायते यथा ।
तथा वाक्यप्रयोगेण कुलं ज्ञायेत कस्यचित् ॥
९६०
श्रेयोऽभिलाषिणां लज्जावत्वं नूनमपेक्ष्यते ।
विनीतेन सदा भाव्यं कुलगौरवकांक्षिणा ॥



अधिकार: ९७. मानम्


९६१
केनचिद्रचितं कार्यं भवेदपि महत्तरम् ।
कुलगौरवनाशाय यदि तत् स्याद्विसृज्यताम् ॥
९६२
पौरुषं यशसा साकं लब्धुमाशासमन्वित: ।
यश:कृते कुलश्रैष्ठ्यघातकं कर्म नाचरेत् ॥
९६३
सम्पत्समृद्धिवेलायां विनय: सर्वदा वर: ।
सम्पनाशे पौरुषं तु वरं स्याद्विनयादपि ॥
९६४
सम्भूता अपि सद्वेशं लोके श्रेष्ठपदच्युता: ।
उत्तमाङ्गपरिभ्रष्टकेशतुल्या भवन्ति ते ॥
९६५
महीधरसमा: सन्त: स्वल्पं गुञ्जाफलोपमम् ।
पतनोन्मुखकार्यं च कुर्वन्तस्ते पतन्त्य्ध: ॥
९६६
तिरस्कर्तु: पुरोभागे स्थिति: पौरुषमन्तरा ।
नेह कीर्तिं परे स्वर्गं न यच्छेत् किं प्रयोजनम् ॥
९६७
तिरस्कर्तारमाश्रित्य सलाभं जीवनादपि ।
'तदकृत्वा मृतिं प्राप'दिति कीर्तिर्विशिष्यते ॥
९६८
कुलीनत्वं पौरुषं च यदा नाशोन्मुखं भवेत् ।
जीवनं देहरक्षार्थं तदा किं स्वर्गदायकम् ॥
९६९
रोमौकमात्रपतनात् चमरो मरणं व्रजेत् ।
माननाशो प्रसक्ते तु न जीवन्ति कुलोद्भवा: ॥
९७०
मानहान्या विनष्टानां मानिनां महितं यश: ।
यशस्य बहुधा लोको मानयेत् पृथिवीतले ॥

अधिकार: ९८. महत्त्वम्


९७१
लोके कस्यचिदुत्साहो महत्त्वमिति कथ्यते ।
विनोत्साहं जीवनेच्छा महत्वाभाव उच्यते ॥
९७२
तुल्या: स्युर्जन्मना सर्वे किन्तु कर्मविभेदत: ।
महत्त्वतदाभावौ तु भिन्नौ जीवेषु तिष्ठत: ॥
९७३
श्रेष्ठकर्म विन श्रेष्ठकृत्यात् सामान्योऽपि महान् भवेत् ।
विना स्थानां श्रेष्ठकृत्यात् सामान्योऽपि महान् भवेत् ॥
८७४
यस्त्वात्मानं सद्गुणाद्यै: रक्षन् जीवति मानव: ।
महिमानं स विन्देत दृढचित्ता सती यथा ॥
९७५
महत्त्वगुणसम्पन्ना: कर्तव्यं कार्यमुत्तमम् ।
विहितेन पथा कर्तुं भवेयु: शक्तिशालिन: ॥
९७६
"महात्मन: पुरस्कृत्य यामस्तद्गतवर्त्मना" ।
इति न स्यान्मतिर्नीचेष्वात्मश्लाघापरेषु च ॥
९७७
सज्जनार्हमहत्वाख्यगुणो विद्यादिवर्जितम् ।
अस्थानपुरुषं प्राप्य तं कुर्याद् गर्वपूरितम् ॥
९७८
महत्वगुणशीलास्तु भवन्ति विनयान्विता: ।
तद्विहीना निजस्तोत्रकरणैकपरायणा: ॥
९७९
गार्वभावो महत्त्वस्य लक्षणं सति कारणे ।
निष्कारणमहङ्कारवत्ता नीचत्वलक्षणम् ॥
९८०
महान्त: परदोषाणां दर्शने विमुखा: किल ।
अधमा: परदोषैकदर्शने नितरां प्रिया: ॥



अधिकार: ९९. विशिष्टगुणसम्पत्ति:

९८१
युक्तमेतदिति ज्ञात्वा विशिष्टगुणशालिनाम् ।
सहजास्तद्‌गुणास्तेषां भवेयुरिति शास्त्रिण: ॥
९८२
आन्तरं गुणसौन्दर्यं स्यात्सौन्दर्यं महात्मनाम् ।
बाह्यं शरीरसौन्दर्यं न सौन्दर्यपदेरितम् ॥
९८३
उपकारप्रीतिलज्जासत्यदाक्षिण्यमित्यपि ।
गुणा: पञ्च स्तम्भरूपा: श्रेष्ठ्यभारसमावहा: ॥
९८४
अहिंसाधर्ममाश्रित्य तपस्तिष्ठति मुख्यत: ।
परापकारवैमुख्यगुण: श्रेष्ठ्यमुपाश्रयेत् ॥
९८५
कार्यसिद्धिसमर्थानां सामर्थ्यं विनयो मत: ।
शत्रून् स्ववशमानेतुं विनय: कारणं भवेत् ॥
९८६
असामानेषु नीचेषु वर्तनं विनयेन यत् ।
तन्महत्त्वं परिज्ञातुं निकषोपालतां व्रजेत् ॥
९८७
अपकर्तुर्नरस्यापि साह्यं न क्रियते यदि ।
महत्वगुणवत्तपि तदा व्यर्था भवेत् सताम् ॥
९८८
मगत्वरूपसत्त्वेन सहितानां महात्मनाम् ।
लब्धं दारिद्र्यमप्येषां नापकर्षाय जायते ॥
९८९
महत्वगुणरूपाब्धितीरतुल्यो महान् भुवि ।
प्राप्ते प्रलयकालेऽपि शौथिल्यं न हि विन्दते ॥
९९०
महात्मनां महत्वाख्यगुणो यदि लयं व्रजेत् ।
सुविशाला मेदिनीयं भारं वोढं न शक्‍नुयात् ॥



अधिकार: १००. अनुसृत्य प्रवर्तनम्


९९१
सौलभ्येन समै: साकमनुसृत्य प्रवर्तनात् ।
विशिष्टगुणसम्प्राप्ति: सुलभेति सतां मतम् ।
९९२
प्रेम्णा प्रवर्तनं शुद्धविख्यातकुलजन्म च ।
द्वयमेतन्महत्वाख्यगुणं यच्छति कस्यचित् ॥
९९३
जनै: साकं देशसाम्यान्न भेदनुवर्तनम् ।
गुणेन साम्यमेभिस्तु भवेच्छन्दानुवर्तनम् ॥।
९९४
नीतिधर्मसमेतानां परोपकृतिशालिनाम् ।
महात्मनां गुणं लोका: प्रशंसन्ति मदान्विता: ॥
९९५
परिहासे‍ऽप्यन्यनिन्दाकरणं दु:खमावहेत् ।
परानुसरणादज्ञा भवन्ति सुगुणान्विता: ॥
९९६
विशिष्टगुणिनां सत्त्वाल्लोको‍द्यापि प्रवर्तते ।
तदभावे प्रपञ्चोऽयं भुवि मग्नो भवेत् किल ॥
९९७
सज्जनार्हगुणैर्हीना: तीक्ष्णासिसमशेमुषीम् ।
लब्ध्वापि पादपसमा मन्यन्ते मानवै: समै: ॥
९९८
विना मैत्रीं विरोधं च कुर्वतां विषयेऽपि य: ।
गुणवान्न प्रवर्तेत् दोषयुक्त: स गण्यते ॥
९९९
स्नेहतत्त्वं समालम्ब्य प्रवर्तनमजानताम् ।
दिवसोऽपि प्रभायुक्तो दृश्येत् तमसावृत: ॥
१०००
निर्गुणेनार्जितं वित्तं नोपयोगकरं भवेत् ।
यथा स्यात् पात्रदोषेण पयो माधुर्यवर्जित: ॥

=======================================================================

No comments:

Post a Comment