Tuesday 6 January 2009

अधिकार 21-30



Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

१. उपोद्‍घात:

 धिकार २१. दुष्कर्मभीति


२०१
दुष्कर्मनिरता लोका: पापेभ्यो हि बिम्यति।
सत्कर्मनिरता सन्त पापाद्विभ्यति सर्वदा॥
२०२
दुष्कर्मणा दु:खमेव यस्मादुत्पद्यते तत:
वह्नेरप्यधिक मत्वा मेतव्यं दुष्टकर्मण:
२०३
तदात्मक्षेमजनकमुत्तमं ज्ञानमुच्यते।
दु:खानुत्पादबुद्धिर्या स्वापराधिजनेष्वपि॥
२०४
परदु:खप्रदं कर्म प्रमादेनापि स्मरेत्।
अन्यथा स्मरतोऽस्यैव धर्मो नाशं विचिन्तयेत्॥
२०५
'अहं दरिद्र' इत्युक्त्वा कुर्यात्कर्म निन्दितम्।
चेत् दरिद्र एव स्यात् भाविजन्मसु सप्तसु॥
२०६
'स्वकृतं दुष्कृतं स्वस्य भाविदु:खप्रदायकम्'
इति चिन्तयताऽन्येषां कार्या दुष्कृति: सदा॥
२०७
इतरै: शत्रुभिर्जातु मुच्येतेहापि जन्मनि।
दुष्कर्मनामा शत्रुस्तु बाधते भाविजन्मसु॥
२०८
नरच्छाया यथा तस्य पादाभ्यां सह गच्छति।
प्रतिजन्म तथा यान्ती दुष्कृतिर्बाधते नरम्॥
२०९
विना दु:खं सदा यो वै सुखी भवितुमिच्छति।
ईषदप्यत्र दुष्कर्म कुर्यात् परस्य तु॥
२१०
अधर्मेण पथा गच्छन् अन्येभ्यो दुष्कृति नर:
यदि कश्चिन्न कुरुते तं दु:खं दूरतस्त्यजेत्॥



 धिकार २२ . लोकोपकारिता


२११
मेघानं वर्षतां नित्यं कि साह्यं कुर्वते जना:।
मेघतुल्या महान्तोऽपि निष्काममुपकुर्वते॥
२१२
लोकोपकर्तृभिर्वित्तं प्रयत्नात् समुपार्जितम्।
सत्पात्रे दीयमानं सत् प्रयोजनकरं भवेत्॥
२१३
लोकोपकारिताख्येन धर्मेण भुवि जीवनात्।
सत्कार्यमुत्तमं नास्ति स्वर्गे वा भूतलेऽपि वा॥
२१४
लोकनामुपकर्ता य: शिष्टाचारपरायण:।
स जीवति शरीरेण मृतप्रायो नरोऽपर:॥
२१५
जलपूर्णतटाकेन भवन्ति सुखिनो जना:।
लोकोपकारिणो भाग्यं लोकसौख्यं प्रयच्छति॥
२१६
 फलभारनतो वृक्ष: प्राममध्यं गतो यथा।
लोकोपकारी वित्ताढयस्तथा स्यादुपकारक:॥
२१७
सर्वभागैर्यथा वृक्ष: रुग्णानामौषधायते।
लोकोपकारिणो वित्तं तथा सर्वोपकारकम्॥
२१८
लोकोपकारमाहात्म्यं जानन्तो ज्ञानिसत्तमा:
स्वस्य दारिद्र्यकालेऽपि परेषामुपकर्वते॥
२१९
लोकोपकारिचित्तस्य दारिद्र्यमिदमुच्यते।
न शक्नोम्यधिकं दांतु दारुद्र्ययेति यन्मतम्॥
२२०
लोकोपकारात् दारिद्र्यम् जायेतेति वदेत् यदि।
भप्यात्मविक्रयेणैतत् दारिद्र्यक्रयणं वरम्॥



धिकार २३. दानम्


२२१
अर्थिभ्योऽपेक्षितं यत्तु दीयते दानमुच्यते।
इतराणि तु दानानि स्वार्थमूलानि केवलम्॥
२२२
मोक्षलाभी भवेत् कामं याचनं न हि संमतम्।
नरकेऽपि समायाते दानं सर्वात्मना वरम्॥
२२३
'अहं दरिद्रो देही' ति वाक्यश्रवणमन्तरा।
महकुलप्रसूतेषु दृश्यते दानशीलता॥
२२४
याचकस्य मुखं दानात् प्रसन्नं न भवेत् यदि।
दातृत्वमपि याञ्चेव जायते दु:खदं सदा॥
२२५
अवारयन् क्षुघं भोज्यैयेंगी तत्सहनक्षम:।
तामापाकुर्वतोऽन्नाद्यै गृहस्थानाधिको मत:॥
२२६
धनी क्षुघं यदार्तस्य वारयेत्, भाविजन्मसु।
तदात्मफल लाभाय स्थिरं मुलधनं भवेत्॥
२२७
भुक्तवन्तं सहान्येन् लब्धं वस्तु विभज्य तु।
क्षुण्णामाऽयं महारोगो दूरन्नित्यं विमुञ्चित॥
२२८
अभुक्तं स्वेन चान्येभ्योऽप्यदत्तं यस्य वै धनम्।
क्षीयते कि न जानाति स सौख्यं दानमूलकम्?॥
२२९
अदत्वैव परेभ्यो यद्‌भुज्यते स्वार्जितं धनम्।
दरिद्र्यान्मरणाञ्च स्या दहो कष्टतरं तत:॥
२३०
नास्ति मृत्युसमं दु:खमथाप्यर्थिभिरीप्सितम्।
तेभ्यो दातुमशक्तस्य मृत्युरेव वरो मत:॥



 धिकार २४. कीर्ति:


२३१
अर्थिभ्यो वाञ्छितं दत्त्वा कीर्त्या सह वसेन्नर:।
नरस्य जन्मसाफल्यं नास्ति कीर्ति विना भुवि॥
२३२
याचकेभ्यो दारिद्र्येभ्य: स्वल्पं वापि प्रयच्छत:।
कीर्तिरेव सदा सद्भिर्गीता भवति शाश्‍वती॥
२३३
बहुकालमभिव्याप्य तिष्ठन्तीं कीर्तिमन्तरा।
लोके निरुपमं नित्यमेकं वस्तु न विद्यते॥
२३४
पृथिव्या: स्थितिपर्यन्तां कीर्ति यो लभते नर:
स्वर्गलोकोऽपि तं स्तौति न तु ज्ञानसमन्वितान्॥
२३५
स्थिरकीर्त्या च मरणं यश्:कायेन जीवनम्।
महतां ज्ञानिनामेव लभ्यं स्यात् नापरस्य तु॥
२३६
यदीष्टं मानुषं जन्म कीर्त्या जननमुत्तमम्।
अन्यथा मृगजन्मैव श्‍लाघ्यते मर्त्यजन्मन:॥
२३७
अशक्तो जीवितुं कीर्त्या न द्वेष्ट्‌यात्मानमात्मना।
किन्त्वात्मनिन्दकं द्वेष्टि किं भवेदत्र कारणम्॥
२३८
अनवाप्य यशो लोके ये हि जीवन्ति मानवा:।
निन्दितं जीवनं तेषामिति सद्भि: प्रकीर्त्यते॥
२३९
यशसा तु विहीनस्य कायं या बिभृयान्मही।
निर्दुष्ट सस्यसम्पत्तिविहीना सा भवेद् धुवम्॥
२४०
अपवादेन रहितो यो जीवति स जीवति।
जीवन्नप्यपवादेन मृतप्रायो हि गण्यते॥



 धिकार् २५. दया


२४१
दयारूपं धनं सर्वधनादुत्तम मुच्यते।
इतराणि धनानीह सन्ति नीचजनेष्वपि॥
२४२
सन्मार्गेण परामृश्‍य भवितव्यं दयावता।
सर्वशास्त्र परामर्शेदयैका साह्याकारिणी॥
२४३
अन्धकारमयं धोरं नरकं न भजन्ति ते।
ये वै दयाद्रहृदया वर्तन्ते सर्वजन्तुषु ॥
२४४
रक्षणात् सर्वजन्तूनां दयायाश्च प्रदर्शनात्।
नरो न लभते नूनं दुष्कर्म नरकप्रदम्॥
२४५
दयार्द्रहृदयो भूत्वा दु:खं नाप्नोति भूतले।
निदर्शनं भवेदत्र लोकोऽयं प्राणिसङ्‍कुल:॥
२४६
जना: प्राणिदयाहीना: प्राणिनो हिंसयन्ति ये।
धर्मत्यागागतं जन्मदु:खं नाद्यापि तै: स्मृतम्॥
२४७
वित्तहीनो न लभते इहलोके यथा सुखम्।
परलोके न लभते दयाशू‌न्य: सुखं तथा॥
२४८
सत्कर्मणा दरिद्रोऽपि कदाचिद्धनिक: सुखी।
निर्दयस्य कुत: सौख्यं न कदापि स वर्धते॥
२४९
ज्ञानशून्यो यथा शास्त्रात्तत्त्वार्थे नैव विन्दति।
निर्दय: स्वकृताद्धर्मात्तथा न लभते फलम्॥
२५०
यदा करुणया हीनो हिंसयेद्‌दुर्बलम् तदा।
स्वस्माद्वलीयसामग्रे चिन्तयेत् स्वभयस्थितिम्॥



 धिकार २६. माँसवर्जनम्


२५१
पोषणार्थे स्वदेहस्य कृत्वा य: प्राणिहिंसनम्।
तन्मांसभक्षणपर: स दयावान् कथं भवेत्॥
२५२
धनस्यारक्षणान्मार्त्यो निर्धनो जायते यथा।
तथा मांसशनपरो दयाहीन: प्रकीर्त्यते॥
२५३
प्राणिमांसरसास्वाद निमग्नस्य हि मानसम्।
घातकस्यात्तश्स्त्रस्य चित्तवन्निर्दयं भवेत्॥
२५४
अहिंसैव दया प्रोक्ता हिंसेयमदया मता।
प्राणिभांसाशनं लोके पापमाख्यायते॥
२५५
मांसहारोभिवृद्धश्‍चेत् सदेहं प्राणिनामिह।
दुर्लभा स्थितिरेव स्यात् नरकश्‍चापि जायते॥
२५६
मांसार्थे न भवेत् प्राणि हिंसा चेदिह भूरिश:।
धनार्थे नैव वर्तेरन् मांसविक्रयिणो नरा:॥
२५७
मांसां न भक्षयेत् प्राज्ञ:, क्रियमाणे विमर्शने।
व्रणो हि प्राणिनां मांसमिति ज्ञानं भवेत् यत:॥
२५८
निर्दुष्टज्ञान सम्पन्नास्त्रिदोषण विवर्जिता:।
शरीरं प्राणरहितं शवं मत्वा न भुञ्जते॥
२५९
नानायागविधानेन जायमानात् फलादपि।
मांसाहारपरित्यागाच्छ्रेप: फलमवाप्यते॥
२६०
प्राणिहिंसा विरहितं विमुखं मांसभक्षणे।
सर्वे देवा नराश्‍चैव विनमन्ति नरोत्तमम्॥



 धिकार २७. तप


२६१
उपवासादिदु:खानां सहनं जीवसन्त्ते:।
दु:खानुत्पादनं चेति तपोलक्षणमुच्यते॥
२६२
जन्मान्तरतपोभ्यास शालिनो मनुजस्य तु।
तप: स्यादत्र निर्विघ्नं विपरीते वृथाश्रम:॥
२६३
आहारादिप्रदानेन प्रशस्तानां तपस्विनाम्।
गृहस्था: साह्यमिच्छन्तो निवृत्तास्तपस: किमु॥
२६४
साधूनां सङ्‍ग्रहे दुष्टजनानां निग्रहे‍पि च।
शक्ति:स्मरणमात्रेण महतां स्यात्तपोबलात्॥
२६५
तथैवाभीप्सितं सर्वे प्रयत्नाद्भाजन्मसु।
लभ्यते हि गृहस्थेन तप: कर्तुमिह क्षणम्॥
२६६
क्रियते यैस्तप: कर्म कृतकृत्यास्त एव हि।
आशापाशवशा हन्त क्लिश्‍यन्त इतरे जना:॥
२६७
असकृद्वह्निसन्तप्तं सुवर्णे सुष्ठु राजते।
तप: क्लेशितकायस्य ज्ञानं सम्यक् प्रकाशते॥
२६८
पश्यन्तमात्मनाऽऽत्मानं तपस्यन्तं जितेन्द्रियम्।
सर्वे नरा नमस्यन्ति बहुमानपुरस्सरम्॥
२६९
शापेऽप्यनुग्रहे चैव शक्तिमन्तस्तपस्विन:
कालपाशविनिर्मुक्ता: प्राप्नुवन्ति परां गतिम्॥
२७०
बहवस्तपसा हीना:, विरलास्तु तपस्विन:।
धनिकास्तेन विरला इतरे बहवोऽभवन्॥



 धिकार् २८. दुराचार:


२७१
वञ्चकस्य दुराचारं तच्छरीरगतान्यपि।
पञ्च भूतानि दृष्टवैव मन्दमन्तर्हसन्ति हि॥
२७२
अकार्यमिति मत्वापि कुर्वत: पुनरेव तत्।
आकाशेनेव महता तपोवेषेण किं फलम्?॥
२७३
मनसो निग्रहं हित्वा मुनिवेषस्य वर्तनम्।
वुआघ्रचर्मवृत्तो घेनु: सस्यं चरति चेत्, तथा॥
२७४
तपोवेषनिलीनेन परदारपरिग्रह:।
गुल्मलीननिषादेन पक्षिग्रहणवद्भवेत्॥
२७५
'अहं वितक्त' इत्युत्क्वा दुश्चर्यां यो निषेवते।
'किं कृतं किं कृतं हे' ति फलकाले स खिद्यते॥
२७६
मनोवैराग्यमप्राप्य विरक्त इव यो नर:।
वर्तते कपटाचार: कठिनो नास्ति तत्सम:॥
२७७
बहिर्गुञ्जासमाकारा: बहवो रक्तवासस:।
अज्ञान मन्तरेतेर्षां गुञाग्रे श्‍यामता यथा॥
२७८
दुष्टचित्तास्तपस्सिद्धा इव स्नानेन केवलम्।
कपटाचारसञ्छन्ना वञ्चका: सन्ति भूरिश:॥
२७९
काठिन्यमार्दवे बाणवीणरो: कर्मणा ग्रथा।
मुनावपि तथा ज्ञेयं न वेषस्तत्र कारणम्॥
२८०
लोकदूष्ये दुराचारस्त्यज्यतेचेत् तपस्विभि:।
कुतो वा मुण्डनं तेषां जटाभारेण वा किमु॥



 धिकार २९. चौर्यनिषेध:


२८१
परैरनिन्दितो लोके यो वै जीवितुमिच्छति।
विना वस्त्वपहारेच्छां तेन रक्ष्यं सदा मन:॥
२८२
निषिद्धस्मरणेनापि दोष: स्यादिति कथ्यते।
अज्ञात्वैवापहर्तव्यमिति त्याज्या मतिस्तत:॥
२८३
चौर्यदुपार्जितं वित्तं प्रवृद्धमिव पश्‍यताम्।
भूत्वा न्यायार्जितैर्वित्तैस्सह पश्चाद्विनश्‍यति॥
२८४
चौर्येण परवस्तूनां प्रा[त्या जातो मनोरथ:।
पश्चात्कर्मेपरीपाके दद्यात् दु:खं हि शाश्वतम्॥
२८५
चौर्यमाचरितुं युक्तकालं यस्तु प्[रतीक्षते।
सर्व भूतदयायां स स्नेहयुक्तो न जायते॥
२८६
ग्रे परद्रव्यचौर्येषु लम्पटा: सन्ति मानवा:।
व्ययीकृत्य मितं वित्तं जीवन्ति न हि ते सुखम्॥
२८७
आत्मानात्म विवेकादौ समर्थानां मनीषिणाम्।
चौर्य कारणमज्ञानं जायते न कदाचन॥
२८८
कृततत्वविचारणां हृदये यतिधर्मवत्।
अभ्यस्त चौर्य विद्यानां चित्ते स्याद्वञ्चना स्थिरा॥
२८९
ये चौर्यमात्रं जानन्ति धर्मान्नापि विदन्ति ये।
अकृत्यमधिकं कृत्वा सद्यो नश्‍यन्ति ते ध्रुवम्॥
२९०
जीवनं स्पष्टमाकृत्या चोराणामिह दुर्लभम्।
चौर्यकर्मविहीनानां स्वर्गेऽपि सुलभायते॥



 धिकार ३०. सत्यवचनम्


२९१
वचनेन प्रयुक्तेन कस्यचित् मात्रयाऽपि चेत्।
दु:खानुत्पादनं लोके सत्यलक्षणमुच्यते॥
२९२
असत्य वचनं चापि यदि स्यात् प्राणिनामिह।
अनिन्दितोपकाराय तत् सत्यवचनं मतम्॥
२९३
असत्यमिति मत्वापि कथयन्ननृतं वच:।
पश्चात्तप्तमना भूत्वा ततो दु:खं स विन्दति॥
२९४
सत्यमार्गेण गच्छन्तं तथा हृदयपूर्वकम्।
कृत्वा मनसि सर्वेऽपि प्रशंसन्ति नरोत्तमा:॥
२९५
मनोवाक्समभावेन सत्यवादी नरो भुवि।
तपोदानगुणाढ्‍येभ्यो नरेभ्योप्युत्तम: स्मृत:॥
२९६
न सत्यवचनादन्यद्विद्यते कीर्तिवर्धकम्।
कायक्लेशं विना वक्तुस्तत् स्वर्गमपि यच्छति॥
२९७
अनृतं वाक्य मुत्सृज्य जीवद्भर्भुवि मानवै:।
समेषामन्यधर्मणां त्यागोऽपि किल सम्मत:॥
२९८
बाह्यदेहस्य संशुद्धि: सलिले स्नानतो यथा।
अन्तर्हृदयसंशुद्धिस्तथा स्यात् सत्यभाषणात्॥
२९९
लोकान्धकारं नुदतां दीपानां न हि दीपता।
हृत्तमोनाशकं सत्यवचनं दीप उच्यते॥
३००
सर्व शास्त्रपरामर्शादिदमेकं सुनिश्चितम्।
यत् सत्यवचनादन्यो धर्मो नास्ति महीतले॥



===================================

No comments:

Post a Comment