Tuesday, 6 January 2009

अधिकार 61-70


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

२. राजधर्माध्याय
अधिकार: ६१. आलस्याभाव:

६०१
कुलदीपं प्रभायुक्तमालस्याभिहिंत तम: ।
क्रमेण समभिव्याप्य शमयेत् प्रभया विना ॥
६०२
आलस्यवशमापन्नो य: प्रयत्नविवर्जित: ।
कुलगौरवहानि: स्याद् दोषा: स्युस्तस्य जीविते ॥
६०३
अनर्थकरमालस्यं जडो य: कुरुते वशे ।
तन्नाशात्पूर्वमेवास्य कुलं विलयमाप्नुयात् ॥
६०४
यो वाऽऽलस्यगुणाविष्ट: शुद्धयत्नविवर्जित: ।
तस्य दोषा: सम्भवन्ति लीयते च कुलोन्नति: ॥
६०५
दीर्घनिद्रादीर्घसूत्रविस्मृत्यालस्यसंयुता: ।
नौकां मग्नोन्मुखां प्राप्ता इव नश्यन्ति ते ध्रुवम् ॥
६०६
स्वयं मैत्री भवतु वा महद्भि: चक्रवर्तिभि: ।
न कोऽपि लाभस्तेन स्यात् आलस्यगुणवान् यदि ॥
६०७
विशेषयत्नरहिता: कार्येष्वालस्यभाग्जना: ।
क्रूरवाक्यैर्विनिन्द्यास्ते भवन्ति सुहृदां पुर: ॥
६०८
आलस्याभिहितो दोष: सत्कुले जनुषं नरम् ।
यद्याप्नोति झाडित्येष: शत्रूणां वशमानयेत् ॥
६०९
कुलीनत्वं पौरुषं च तस्य स्याद्दोषवर्जितम् ।
आलस्यरूपदोषेण यो भवेन्न वशीकृत: ॥
६१०
विष्णुस्त्रिविक्रमो भूत्वा मितवान् यज्जगत्त्रयम् ।
विन्देत् तज्जगत्सर्वमालस्यरहितो नृप: ॥


अधिकार: ६२. प्रयत्‍नशीलत्वम्


६११
साध्यमिदमित्येतां मतिं त्यक्त्वा प्रयत्यताम् ।
स एव यत्‍नस्ते दद्यात् बलं कार्यसमापने ॥
६१२
जहाति तं नरं लोको य: कर्तव्यं परित्यजेत् ।
तस्मात् प्रयत्‍नशून्यत्वं मुञ्च कर्तव्यकर्मसु ॥
६१३
परोपकरणे बुद्धिस्तेषामेव प्रवर्तते ।
अकुण्ठितप्रयत्‍नारव्यगुणेन सहितास्तु ये ॥
६१४
परोपकारं कर्तुं न शक्नुयाद्यत्नवर्जित: ।
करवर्तिकृपाणोऽपि भीरु: किं कर्तुमर्हति ॥
६१५
य: सुखेच्छां परित्यज्य कर्मण्येव कृतादर्: ।
स तु स्वीयजनक्लेशं वारयेत् स्तम्भतां गत: ॥
६१६
सम्पदं सर्वदा दद्यात् व्यवसायो महीभुजाम् ।
दारिद्र्यं तस्य जनयेत् व्यवसायविहीनता ॥
६१७
अलक्ष्मी: स्ग्यामला ज्येष्ठा निवसेदलसाश्रिता ।
आलस्यवर्जिते पुंसि वर्तते पद्मसम्भवा ॥
६१८
ज्ञात्वा यथावक्तार्येषु यत्‍न: स्वीक्रियतां त्वया ।
विधिना निष्फले यत्‍ने न निन्द्यस्त्वं भविष्यसि ॥
६१९
विधौ ते प्रतिकूलेऽपि मा यत्नं त्यज सर्वदा ।
अलब्धेऽपि फले कायक्लेशो नैव वृथा भवेत् ॥
६२०
विनालस्यं कर्मलोपमन्तरा यत्‍नवान् नर: ।
प्रतिकूलं विघिं चापि स कदाचिद्विजेष्यति ॥


अधिकार: ६३. औत्सुक्यम्


६२१
प्राप्तेऽपि व्यसने खेदं त्यक्तवोत्साहपरो भव ।
खापनोदनपटुरुत्साहानास्ति कश्चन ॥
६२२
निरर्गलागतं दु:कप्रावाहं बुद्धिमान्नर: ।
हृदये सुखरूपेण जानन् दु:खाद्विमुच्यते ॥
६२३
दु:खेष्वचञ्चलो भूत्वा नरो धैर्यगुणान्वित: ।
दु:खस्य दु:खं जनयन्नारब्धं कर्म साधयेत् ।
६२४
वृषभ: शकटे बद्धो यत्‍नाल्लक्ष्य> यथा व्रजेत् ।
व्यवसायपरस्तद्वद् दु:खं दूरीकरोत्यहो ॥
६२५
उपर्युपरि दु:खेषु प्राप्तेष्वपि मनोधृतिम् ।
यो विन्दते स वै मर्त्यो दु:खं दु:खस्य यच्छति ॥
६२६
धने लब्धेऽपि तल्लब्धमिति यस्तु न तुष्यति ।
दारिद्र्ये नष्टमित्युक्त्वा व्यसनं न स विन्दते
६२७
दु:खाश्रयो देह' इति ज्ञात्वा तत्त्वविदां वरा: ।
दु:खकाले समायते न मुञ्चन्ति मनोधृतिम् ॥
६२८
अनादृत्य सुखं प्राप्तं 'दु:खं स्वाभाविकं नृणाम्' ।
इति भावयतो दु:खं स्वप्रयत्‍नान्न जायते ॥
६२९
सुखानुभववेलायां मनसा यो न तत्स्पृशेत् ।
दु:खानुभववेलायां दु:खं तं नैव बाधते ॥
६३०
शत्रुणापि श्लघनीयमौन्नत्यं प्राप्नुयादयम् ।
दु:खमापतितं यस्तु सुखरूपेण भावयेत् ॥


अधिकार: ६४. अमात्य:


६३१
उचित: समय:, कार्यसाधिके सैन्यसम्पदौ ।
क्रियाप्रकारस्तच्छ्रैष्ठ्यमिमे मन्त्रिगुणा: स्मृता: ॥
६३२
सामर्थ्यं यत्‍नशीलत्वं कुलीनत्वं मनोधृति: ।
विद्येति पञ्चभिश्चैतै: सहित: सचिवो मत: ॥
६३३
रिपुपक्षजनत्यक्ता स्वपक्षजनरक्षक: ।
गातानां पुनरानेता भवेत् सचिवसत्तम: ॥
६३४
सहेतुकं क्रियाकर्ता कर्तव्यार्थविमर्शक: ।
भावाविष्करणे धीर: सचिचश्रेष्ठ उच्यते ॥
६३५
राजधर्मे च निपुण: स्वशास्त्रार्थविशारद: ।
कालोचितमति: कार्ये भवेत् सचिवसत्तम: ॥
६३६
यस्य स्वाभाविकं ज्ञानं शास्त्र्ज्ञानेन सङ्गतम् ।
मन्त्रिणस्तस्य पुरत: किं कुर्यु: शत्रुवञ्चना: ॥
६३७
नीतिशास्त्रप्रकारेण न युक्तं कार्यसाधनम् ।
देशकालानुरोधेन कार्यसाधनमुत्तमम् ॥
६३८
अशृण्वत: सतां वाक्यं स्वयं तत्त्वमजानत: ।
नृपस्य समये तत्त्वकथनं मन्त्रिलक्षणम् ॥
६३९
कुमार्गबोधकामात्यनिकटे वर्तनादपि ।
कोटिसप्ततिशत्रूणां मध्ये वासोऽपि साम्प्रतम् ॥
६४०
स्मृत्वा यथावत्कार्याणि सम्यकू तत्कर्तुमुद्यत: ।
नैतानि पूर्णतां यान्ति सामर्थ्य न भवेद्यदि ॥


अधिकार: ६५. वाग्मित्वम्


६४१
वाग्मित्वगुणसम्पूर्त्या सचिव: श्रेष्ठ्यमाप्नुयात् ।
गुणमध्ये विशेषेण वाग्मिता राजते यत: ॥
६४२
वक्तुर्वचनभङ्गयैव यत: स्यातां शुभाशुभे +
आलोच्य सावधानेन तस्माद्वाक्यं प्रजुज्यताम् ॥
६४३
यद्वच: श्रुतमात्रेण जनानावर्जयेद् गुणै: ।
अश्रुतानां च शुश्रूषा भवेत् तत्तात्त्विकं वच ॥
६४४
वक्‍तृश्रोत्रोर्मनस्तत्त्वं ज्ञात्वा वचनमुच्यताम् ।
तादृग्वच:प्रयोगेण धर्मार्थौ भुवि सिद्धयत: ॥
६४५
विवक्षा ते यदि भवेदुच्यतां तादृशं वच ।
इतरेषां वचोभिश्च यज्जेतुं नैव शक्यते ॥
६४६
मनोऽनुकूलमन्येषामुक्तवा तेषां वचस्यपि ।
त्यक्तवा दोषान् भावमात्रग्रहणं मन्त्रिणां गुण: ॥
६४७
वादे कस्तं जेतुमिश: परमानसरञ्जकम् ।
विस्मृत्या रहितं धीरं वाक्यं य: समुदीरयेत् ॥
६४८
नानार्थानानुपूर्व्येण सग्रथ्य मधुरं वच: ।
प्रयुञ्जानस्य वचनं लोको गृह्णाति सादरम् ॥
६४९
निर्दुष्टं सार्थकं वाक्यं ये न जानन्ति भाषितुम् ।
वाक्यजालमनुस्यूतं वक्‍तुमेव हि ते क्षमा: ॥
६५०
अधीतग्रन्थमन्येषां ये बोधयितुमक्षमा: ।
निर्गन्धफुल्लकुसुमै: ते भजन्ते समानताम् ॥


अधिकार: ६६. क्रियाशुद्धि


६५१
समीचीनेन साह्येन सम्पत् केवलमाप्यते ।
यदि कर्म भवेत् सुष्ठु सर्वं तेन हि सिद्ध्यति ॥
६५२
इह कीर्ति: परे पुण्यं न सिद्धयेद्येन कर्मणा ।
सर्वदा तन्न कर्तव्यं मन्त्रिणा भूतिमिच्छता ॥
६५३
उपर्युपर्यात्मवृद्धिकांक्षायां यत्‍नमास्थितै: ।
त्यज्यतां तादृशं कार्यं यद्गौखविधातकम् ॥
६५४
प्राप्तोऽपि व्यसने तस्य निर्मूलनकृतेऽपि वा ।
निन्द्यं कार्यं न कुर्वन्ति विशुद्धमतयो जना: ॥
६५५
पश्चात्तापकरं कार्यं न कुर्वीत कदाचन ।
प्रमादेन कृते चापि पश्चातापमतिं त्यज ॥
६५६
मातुर्बुभुक्षाशमनसङ्कटेऽपि समागते ।
सद्भिर्विगर्हितं वर्ज्यं कार्यं न हि समाचरेत् ॥
६५७
विधाय निन्दितं कार्यं सापवादं धनार्जनात् ।
विर्दुष्टकर्मजनितदारिद्र्यं हि सतां वरम् ॥
६५८
न कुर्यान्निन्दितं कर्म तत् प्रमादात् क्रियेत् चेत् ।
कार्यवसानवेलायां दु:खमेव भवेत् तत: ॥
६५९
परहिंसाबलाल्लब्धं वित्तं मुञ्चेत् तमाश्रितम् ।
क्रमप्राप्तधनं नष्टमप्यन्ते मुदमर्पयेत् ॥
६६०
वञ्चनामार्गसम्प्राप्तवित्तरक्षणकर्म तु ।
अपक्कामघटक्षिप्तजलरक्षणवद्भवेत् ॥


अधिकार: ६७. क्रियादार्ढ्यम्


६६१
कर्तुर्मनसि यद्दार्ढ्यं तत्क्रियादार्ढ्यमीर्यते ।
सैन्यदुर्गादिदार्ढ्य तु नात्र दार्ढ्यपदेरितम् ॥
६६२
निषिद्धकर्मणस्त्यागो दैवात्तस्मिन् कृतेऽपि च ।
चित्तदार्ढ्यापरित्याग इतीमौ प्रकृते मतौ ॥
६६३
कर्मारब्धमितीत्येतदन्ते चेज्ज्ञायते परै: ।
दृढं भवति तत्, मध्ये ज्ञातं चेद् दु:खमापतेत् ॥
६६४
एवं कर्तव्यमित्येतद्वक्तुं शक्ता: समे भुवि ।
यथोक्तं कार्यकरणे समर्थो नास्ति कश्चन ॥
६६५
कार्यसाधनशीलस्य क्रियादार्ढ्यं तु मन्त्रिण: ।
महत्वजननाद्राज्ञ: सर्वैरपि महीयते ॥
६६६
चिकीर्षितप्रकारेण ये धीरा: कार्यसाधने ।
चिकीर्षितं फलं चापि प्राप्नुवन्ति तथैव ते ॥
६६७
महारथाक्षक्षुद्राऽऽणिसमा: सन्तो दृढक्रिया: ।
महत्वे नाकृतिर्हेतु: दार्ढ्यं स्यात्तत्र कारणम् ॥
६६८
प्रसन्नमनसा कार्ये प्रवृत्तेन फलेच्छया ।
आलस्यदीर्घसूत्रत्वमन्तरा तद्विधीयताम् ॥
६६९
अन्ते सुखप्रदं कार्यं कायक्लेशेषु सत्स्वपि ।
अवश्यमेव कर्तव्यं दृढचित्तसमन्वितै: ॥
६७०
दार्ढ्ये स्थितेऽप्यन्यकार्ये स्वीकृते पूतकर्मणि ।
मनोदार्ढ्यविहीनांस्तु मानयन्ति न मानवा: ॥


अधिकार: ६८. कार्याचरणप्रकार:


६७१
अनिवार्यमिदं चेति विमर्शन्निर्णये सति ।
आलस्यं नैव कर्तव्यमन्यथा व्यसनं भवेत् ॥
६७२
यदालस्येन कर्तव्यं तत्रालस्य प्रदर्श्यताम् ।
त्वरया करणीयं यत् तत्रालस्यं न शोभनाम् ॥
६७३
लब्धेऽवकाशो सर्वत्र कृत्वा कार्यं समाप्यताम् ।
तदभावे यदा यत्तु साध्यं तत् तत्र साध्यताम् ॥
६७४
आरब्धकार्ये यच्छिष्टं शिष्टं यद्धतशत्रुषु ।
द्वयं गूढं सदन्ते तु दहेच्छिष्टस्फुलिङ्गवत् ॥
६७५
द्रव्यकालक्रियाहेतुस्थलानामनुकूलताम् ।
पञ्चानामपि विस्पष्ठं बुध्वा कार्यं विधीयताम् ॥
६७६
क्रियासम्बन्धिनो यत्‍नान् विघ्नान् सम्भावितान् तथा ।
अन्ते महाफलप्राप्तिं त्रयं बुध्वा क्रियां कुरु ॥
६७७
कार्ये प्राप्ते क्रियातत्त्वं बुध्वा पूर्वं तु सा क्रिया ।
यै: कृता भावमेषां च ज्ञात्वा कार्ये मतिं कुरु ॥
६७८
मत्तेभमेकं सम्प्रेप्य यथन्यो गृह्यते गज: ।
कृतेनैकेन कार्येण तथान्यदपि साध्यताम् ॥
६७९
सुहृदां साह्यकरणं न मुख्यं कुरु तच्छनै: ।
अप्रिया ये स्वशत्रोस्तै: सख्यं प्रथमत: कुरु ॥
६८०
दुर्बला: स्वाश्रितजनत्रासनिर्मूलनेच्छया ।
बलिष्ठै: सह सम्बन्धं कुर्युरर्थं प्रदाय वा ॥


 अधिकार: ६९. दौत्यम्


६८१
बन्धुप्रीति: कुलीनत्वं राजवाञ्छितसद्‍गुणा: ।
अतैर्विशेषणैर्युक्तो दूतो भवितुमर्हति ॥
६८२
विमृश्य वाक्यकथनपाटवं ज्ञानमार्जवम् ।
राजप्रीतिरिमे दूतो त्रय: स्वाभाविका गुणा: ॥
६८३
निजराजजयोपायकथनं परभूपतौ ।
दूतस्य लक्षणं नीतिशास्त्रज्ञत्वं निगद्यते ॥
६८४
विमर्शसहिता विद्या रूपं स्वाभाविकी मति: ।
एतत्त्रितयसम्पन्नो दौत्यकर्म समाचरेत् ॥
६८५
ग्रथयित्वा बहून् शब्दानपशब्दानपोह्य च ।
पत्युएमनोऽनुकूलं यो वक्ति दूत: स कथ्यते ॥
६८६
नितीज्ञा: स्फुटवक्ता च धैर्यवान् रिपुसन्निधौ ।
कालानुकूलप्रज्ञावन् दूत: स्यात् शास्त्रसम्मत: ॥
६८७
कर्तव्यार्थपरिज्ञाता तत्कृतौ देशकालवित् ।
विमृश्य कथनीयार्थवक्ता स्याद् दूतसत्तम: ॥
६८८
अर्थकामोष्वनासक्ति: सर्वदा साह्यकारिता ।
मनोदार्ढ्य च दूतानां लक्षणं प्रोच्यते बुधै: ॥
६८९
देहवाक्यं प्रमाद्यापि न बूयोद्योऽरिसन्निधौ ।
राजवार्तामन्यराज्ञि वक्तुं युक्त: स एव हि ॥
६९०
शत्रुबाधामवाप्तोऽपि निर्भय: शत्रुमन्निधौ ।
प्रतिप्रभाववक्ता य: तं दूतं ब्रुवते बुधा: ॥


अधिकार: ७०. राजसेवा

६९१
सचिवो नातिदूरे स्यात् राज्ञो नात्यन्तसन्निधौ ।
शैत्यबाधानिवृत्त्यर्थं यथाग्निकटं गत: ॥
६९२
राजवाञ्छितवस्तूनि स्वयं लब्धुमानिच्छते ।
मान्त्रिणे पार्थिवो दद्यादखिलं तेन वाञ्छितम् ॥
६९३
आत्मरक्षणवाञ्छा चेत् राजाप्रीतिं तु मा भज ।
अप्रसन्ने महिपाले न शक्यं तस्य सांत्वनम् ॥
६९४
राज्ञि पश्यति चान्येषां श्रोत्रयोर्गुप्तभाषणम् ।
सहान्यैर्हास्यवचनं प्रयोक्तव्यं न मन्त्रिणा ॥
६९५
रहस्यं भाषते राजा यद्यन्येर्नैव तच्छुणु ।
प्रश्नं न कुर्यात् किं वेति तेनोक्तं चेत् तदा श्रृणु ॥
६९६
ज्ञात्वेङ्गितं च कालं च भूपतेर्यत्‍तु वाञ्छितम् ।
अनिराकरणीयं तत् मन्त्री बूयान्मनोहरम् ॥
६९७
पृष्टोऽप्यर्थसम्युक्तं वाक्यं बूयान्महीपतौ ।
पृष्टोऽपि व्यर्थवचनं न वदेत् सचिव : स्वयम् ॥
६९८
'कनिष्ठो वयसा बन्धुभूतोऽय' मिति भूपतौ ।
निर्लक्ष्यभावमुत्सृज्य दीयतां स्थानगौरवम् ॥
६९९
राजविश्वासपात्रोऽहमित्यनेनैव हेतुना ।
अनिष्टं भूपतेर्नैव कुर्यान्मन्त्री विशुद्धधी: ॥
७००
'चिरात् परिचितो राजा ममे'ति ममतापर: ।
मन्त्री स्वातन्त्र्यमालम्ब्य नानिष्टं कार्यमाचरेत् ॥





No comments:

Post a Comment