Tuesday, 6 January 2009

अधिकार 71-80


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

२. राजधर्माध्याय


अधिकार: ७१. इङ्गितपरिज्ञानम्

७०१
मुखनेत्रगतैर्भवै: अनुक्तं चान्तराश्यम् ।
यो वेत्ति सचिवो लोकभूषणं स भवेद् ध्रुवम् ॥
७०२
परिचगतं भावमिङ्गितै: संशयं विना ।
ज्ञातुं समर्थो दैवेन तुल्य एव विभाव्यताम् ॥
७०३
मुखनेत्रस्पन्दनादिबाह्यचिह्ने: पराशयम् ।
यो वेत्ति तस्मै वित्तादि दत्वा तं स्ववशे कुरु ॥
७०४
परभावपरिज्ञाता चेङ्गितैर्भाषणादृते ।
आकारैरन्यतुल्योऽपि ज्ञानेनायं विशिष्यते ॥
७०५
मुखनेत्रगतं चिह्नं दृष्‍ट्वान्यस्य मनोगतिम् ।
अजानतां वृथा नेत्रे दर्शनैकप्रजोजने ॥
७०६
वर्णभेदं वस्तिनिष्ठं स्फटिको दर्शयेद्यथा ।
मनोगतं भावभेदं मुखं तद्वत् प्रदर्शयेत् ॥
७०७
'जडं मुखं ज्ञानशून्य'मिति वादो न युज्यते ।
पुरुषस्य सुखं दु:खं ज्ञात्वा स्वेन प्रकाशनात् ॥
७०८
इङ्गिताद्भवावज्ञातुरग्रे त्वागत्य तिष्ठत: ।
यो वेत्ति हृदयं तस्मिन् दु:खस्य कथनं वृथा ॥
७०९
नेत्रदृष्ट्याऽऽशयज्ञाता मन्त्री यदि वशे भवेत् ।
सदसद्भावमन्यस्य तेन जानाति भूपति: ॥
७१०
'परभावपरिज्ञाने वयं निशितबुद्धय:' ।
इति वक्तुं स शक्त: स्यात् दृष्ट्या यो वेद् चाशयम् ॥


अधिकार: ७२. सभास्वरूपम्

७११
समास्वरूपं विज्ञाय वक्तव्यार्थं विचार्य च ।
सभायां शब्दजालज्ञै: वक्तव्यं सद्गुणान्वितै: ॥
७१२
साभिकानां रुचिं बुद्‍ध्वा दोष: शब्दथियोर्यथा ।
न ज्ञायेत तथा स्पष्टं सभायामुच्यतां वच: ॥
७१३
सभिकानां तु रासिक्यमज्ञात्वा भाषणोद्यता: ।
असमर्थाश्च कथने निर्विद्याश्च मता: समै: ॥
७१४
पण्डितानां सभामध्ये स्वपाण्डित्यं प्रदर्श्यताम् ।
मूढानां पुरतो युक्तं न पाण्डित्यप्रदर्शनम् ॥
७१५
ज्ञानिनां भाषणात्पूर्वं सभायां स्वीतभाषणम् ।
अनारभ्य विनीतेन स्थिति: स्यादुत्तमो गुण: ॥
७१६
शास्त्रज्ञानां सभायां यो दुष्टशब्दानुदीरयेत् ।
मुक्तिमार्गच्युतेनासौ तुल्यो दुष्यत्वमाप्नुयात् ॥
७१७
शब्दतत्त्वपरिष्कारधुरीणानां सभाग्रत: ।
अधीतशास्त्रग्रन्थानां विद्या विभ्राजते भृशम् ॥
७१८
स्वतोऽर्थग्राहिणामग्रे पण्डितोत्तमभाषणम् ।
रूढसस्ये त्वालवाले जलसेचनवद्भवेत् ॥
७१९
विद्वत्सभायां सुश्पष्टं तत्त्वार्थकथने पटु: ।
प्रमाद्यापि न भाषेत कुपण्डितसभाङ्गणे ॥
७२०
स्वतुल्यज्ञानिशून्यायां सभायां ज्ञानिभाषणम् ।
अशुद्धजलधाराग्रशीर्णामृतसमं भवेत् ॥


अधिकार: ७३ सभाकम्पविहीनता


७२१
सभास्वभावविदुषां भयनापि सभाङ्गणे ।
न स्यात् स्खालित्यमेतेषां शब्दतत्त्वविदां नृणाम् ॥
७२२
पण्डितेष्वग्रगण्यास्ते श्‍लाघ्यन्ते सकलैरपि ।
अधीतं विदुषामग्रे विस्पष्टं यैर्निरूप्यते ॥
७२३
प्राणान् त्यक्‍तुं सन्ति सज्जा धैर्येण बहवो युधि ।
विद्वत्सदसि धैर्येण वक्तारो विरला: किल ॥
७२४
यदधीतं त्वया शास्त्रं स्पष्टं सदसि तद्वद ।
अज्ञातं शास्त्रमन्येभ्यो ज्ञानिभ्यस्त्वं भज स्वयम् ॥
७२५
शब्दशास्त्रं पठित्वादौ, अर्थशास्त्रं तत: पठ ।
सभायामुत्तरं वक्‍तुं तद्धैर्यं जनयेत् तव ॥
७२६
मनोधैर्यविहीनस्य कृपाणो युधि निष्फल: ।
भीतस्य निष्फलं शास्त्रं सूक्ष्मज्ञानिसभाङ्गणे ॥
७२७
सभाभीरुजनाधीतशास्त्रं सदसि निष्फलम् ।
कृपाणो युद्धभूमिस्थनपुंसककरे यथा ॥
७२८
सत्सभायामनेकार्थकथने भीरुणा स्फुटम् ।
अधीतास्वपि विद्यासु सकलासु वृथैव ता: ॥
७२९
अधीतज्ञातविद्यांस्तान् विद्वद्गोष्ठयां च भाषितुम् ।
भीतानज्ञातविद्योभ्योऽप्यधमान् मन्यते जन: ॥
७३०
अधीतविद्यान् सद्गोष्ठयां स्फुटं वक्तुं चकातरान् ।
जीवतोऽपि मृतप्रायान् लोको जानाति केवलम् ॥


अधिकार: ७४. देश:


७३१
कृषिकर्मविदां श्रेष्ठै: स्वधर्मनिरतै: सदा ।
धनार्जनपरैर्वैश्यै: युक्तो देश इतीर्यते ॥
७३२
ईतिबाधाविरहितं नानावस्तुसमन्वितम् ।
देशान्तरजनश्लाघ्यं देशमाहुर्मनीषिण: ॥
७३३
देशान्तरादागतानां जनानां वहनात् स्वयम् ।
वस्तून्युत्पाध राज्ञे च दानाद् देश इति स्मृत: ॥
७३४
घोरव्याधिबुभुक्षादिरहितं रिपुबाधया ।
विमुक्तमेधमानं च ब्रुवते देशसंज्ञया ॥
७३५
भिन्नलक्ष्यवतां सङ्घरन्तश्छिद्रैरनर्थदै: ।
घातकै: क्षुद्रभूपैश्च मुक्तो देश: स कथ्यते ॥
७३६
परैरनाश्य: सततं क्कचित् प्राप्तोऽपि नाश्यताम् ।
समृद्धिसहितो देशो देशेषूत्तमतां व्रजेत् ॥
७३७
तटाकैर्दृढदुर्गैश्च पर्वतैर्निझरैस्तत: ।
नदीमि: पञ्चभिश्चाङ्ग: युक्तं देशं प्रचक्षते ॥
७३८
सम्पन्नीरोगताधान्यसमृद्धि: सुखजीवनम् ।
दुर्गश्च पञ्च देशस्य मण्डनानि भवन्ति हि ॥
७३९
यत्‍नं विना स्वतो वस्तुदाता स्याद् देशसत्तम: ।
अन्विष्य यतमानोभ्यो दाता देशो न चोत्तम: ॥
७४०
उक्तसर्वगुणाढयेऽपि देशे नास्ति प्रयोजनम् ।
यदि राज्ञ: प्रजानां च मिथ: प्रीतिर्न वर्तते ॥


\अधिकार: ७५.दुर्ग:


७४१
समर्थानां युयुत्सूनां राज्ञां दुर्ग: सहायद: ।
त्रस्तान्त:स्थितराज्ञां च दुर्गो भवति पालक: ॥
७४२
सलिलेन विशुद्धेन मरुभूम्या नगेन च ।
सुच्छायाढयनेनापि वृतो दुर्ग: समीर्यते ॥
७४३
औन्नत्यदैर्घ्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधै: ।
प्रकारं दुर्गशब्दएन ब्रुवते शास्त्रवेदिन: ॥
७४४
विशालप्रान्तदेशेन रक्ष्यक्षुद्रपथा युत: ।
प्राप्तारिधैर्यहन्ता च दुर्गशब्देन कथ्यते ॥
७४५
अप्राप्य: शत्रुबृन्दानां नानाहारसमन्वित: ।
म्वगतानां सुखवासप्रदोदुर्ग: प्रकीर्त्यते ॥
७४६
समये साह्यदा युद्धवीरा: स्युर्यत्र सर्वदा ।
सर्ववस्तुसमृद्धिश्च पत्रासौ दुर्गसंज्ञक: ॥
७४७
साक्षात्सैन्यप्रवेशन परित: ऐन्यवेष्टनात् ।
कैतवेनापि दुष्प्रापो दुर्ग इत्यभिघीयते ॥
७४८
परैरावेष्टिते दुर्गे स्वस्थानैकपरायणै: ।
रिपुवारणकृद्वीरै: वृतो दुर्ग: स कथ्यते ॥
७४९
स्थित्वैवान्त: परान् युद्धे जेतुं शक्तैभटोत्तमै: ।
प्राप्तो महत्त्वं ख्यातश्च दुर्गो भवति सार्थक: ॥
७५०
पर्वोक्तगुणयुक्तोऽपिदुर्ग: किं वा करिष्यति ।
युद्दोपायसमर्थानां सान्निध्यं न भवेद्यदि ॥


अधिकार: ७६.अर्थर्जनोपाय:


७५१
अनर्हानप्यर्हतमान् कर्तुं येन धनेने तु ।
शक्यते तादृहाद्चित्तात्, अन्यत् किं सार्थकं भवेत् ॥
७५२
गुणिनं चाप्यर्थहीनं दूषयन्ति नरा भुवि ।
निर्गुणं चाप्यर्थवन्तं मानयन्ति जना: सदा ॥
७५३
अशाम्यो धनदीपोऽयं गत्वा सर्वत्र सर्वदा ।
स्वाश्रितानां विरोधाख्यमन्धकारं विनाशयेत् ॥
७५४
युक्तमार्गेण नीत्या च यद्धनं समुपार्जितम् ।
तत्तस्य धर्मं कामं च प्रददाति न संशय: ॥
७५५
दयाप्रीती परित्यज्य क्रियमाणं धनार्जनम् ।
नैवानन्दकरं भूयादिति मत्वा परित्यजेत् ॥
७५६
नाथहीनं धनं घट्टशुल्कमूलागतं धनम् ।
जितारिसविधावाप्तकरो राज्ञां धनं भवेत् ॥
७५७
आकिश्चने जायमानं दयारूपं शिशुं स्वयम् ।
धनरूपोपमाता तु वर्घयेत् पोषयेदपि ॥
७५८
प्रविशेत् स्वीकृते कार्ये निर्भीतो धनहस्तवान् ।
गजयुद्धं नगारूढो यथा निर्मयमीक्षते ॥
७५९
क्रूरायुधो वित्तसम: शत्रुगर्वविनाशक: ।
द्र्ष्‍टुं न शक्यते लोके तस्माद्धनमुपार्जय ॥
७६०
सम्पाद्य पुष्कलं वित्तं धर्ममार्गेण तिष्ठत: ।
अर्थकामौ स्वतस्तस्य सिद्धयत: पृथिवीतले ॥


अधिकार: ७७. सैन्यप्रयोजनम्


७६१
चतुरङ्गसमायुक्तं मृतिभीतिविवर्जितम् ।
सैन्यं जयप्रदं राज्ञामुत्तं भाग्यमुच्यते ॥
७६२
विपत्काले स्वयं शीर्णं भृत्वापि धृतिमत्तया ।
स्थातुं शक्नोति तत् सैन्यं यन्मूलबलसंज्ञितम् ॥
७६३
मृषका मिलिता: शब्दं कुर्वन्तु भुजगान्तिके ।
वृथा तद् भुजगोच्छवासस्पर्शान्नश्यन्ति ते क्षणात् ॥
७६४
अप्रधर्ष्या परैर्नैव शक्या वञ्चयितुं परै: ।
परम्परागता धैर्ययुता सेनेति कथ्यते ॥
७६५
युद्धं करोतु कुपित: स्वयमागत्य चान्तक: ।
स्थातुं धैर्येण तस्याग्रे या शक्ता सैव वाहिनी ॥
७६६
वीर्यं मानं तथा पूर्ववीराणां मार्गगामिता ।
राजविश्वसपात्रत्वं चत्वार: सैन्यगा गुणा: ॥
७६७
प्राप्तारिवारणोपायं बुद्ध्वा व्युहं विद्याय च ।
रिपुसैन्यविनाशाय प्रस्थानं सैन्यलक्षणम् ॥
७६८
पराभिघातसहनं युद्धकर्मप्रवीणता ।
अभयं मास्तु वा व्यूहमात्रात् सेना वरा भवेत् ॥
७६९
यजमानेष्वविश्वासो दारिद्रयमधिकं तथा ।
द्वयं न स्याद्यादि तदा स्वल्पा सेनापि जेष्यति ॥
७७०
चिरानुभवशीलैश्च वीरैर्युक्तापि वाहिनी ।
सेनापतिविहीना सा महिमानं न विन्दते ॥


अधिकार: ७८. सेनादार्ढ्यम्


७७१
बहवोऽस्मत्पतेरग्रे हता: पाषाणतां गता: ।
अस्मद्‌भूपपुरो नैव  स्थातव्यं भोश्च शात्रवा: ॥
७७२
अमोघं बाणमुत्सृज्य शशे प्राप्तो जयो वृथा ।
गजे प्रयुक्तबाणस्तु मोघोऽपि स्याज्जयावह: ॥
७७३
अरिभिस्सह निर्भीत्या योधनं वीरलक्षणम् ।
प्राप्ते खेदे रिपो: साह्यकर्ता वीर्यवतां वर: ॥
७७४
स्थितं शूलं गजे मुक्त्वा समीपस्थे गजान्तरे ।
अन्वेष्टाऽन्यस्य शूलस्य वक्ष:स्थं प्राप्य तुष्यति ॥
७७५
रिपुशूलागमं रोषात् पश्यतो नयानद्वयम् ।
सनिमेषं यदि भवेत् तत् पराजयलक्षणम् ॥
७७६
निजोरसि मुखे बाणताडनं त्वनवाप्य तु ।
अतीतान् दिवसान् युद्धे वीरो व्यर्थान् हि मन्यते ॥
७७७
स्थिरकीर्तिकृते युद्धे प्राणानपि विमुञ्चताम् ।
पादबद्धा शृङ्खला स्यात् अलङ्कारप्रयोजना ॥
७७८
प्राणान् तृणसमान् मत्वा प्रविशन्तो रणाङ्गणम् ।
वीरा भूपैर्वारिताश्च विरमन्ति न ते तत: ॥
७७९
स्वप्रतिज्ञाभङ्गभिया समरे मर्तुमिच्छत: ।
वीरस्य दण्डनं दातुं को वा शक्तो भवेद् भुवि ॥
७८०
स्वीयं भूपं चाश्रुपातपर्वकं शेदयन् भट: ।
मृतश्चत् प्रार्थनापूर्वं मृतिनूनमवाप्यताम् ॥


अधिकार: ७९. स्नेह:


७८१
आर्जनीयं स्नेहसमं श्रेष्ठं वस्तु न विद्यते ।
शत्रुभ्यो रक्षकं वस्तु स्नेहादन्यद् भवेत् किमु ॥
७८२
स्नेहो बुद्धिमता साकं वर्घते पूर्णचन्द्रवत् ।
बुद्धिहीनै: कृत: स्नेह: क्षीयते क्षीणचन्द्रवत् ॥
७८३
गुणिभिस्तु कृत: स्नेह: क्रमेणानन्ददायक: ।
सदर्थ: पथनाद्यद्वत् क्रमशो मोददायक: ॥
७८४
परस्परकृता मैत्री न हि तोषाय केवलम् ।
स्खालित्ये सुहृदस्तस्माद् वारणं सख्यमुच्यते ॥
७८५
मैत्र्या: परिचयो हेतु: नापि सेशैकवर्तिता।
उभयोर्भावसाम्यं तु मैत्रीमुत्पादयेत् तयो: ॥
७८६
मैत्री मुखविकासेन केवलं न हि जायते ।
हृदयस्य विकासो‍पि मैत्र्यां मुख्यमपेक्ष्यते ॥
७८७
निवर्त्य निन्दितात् मार्गात् सन्मार्गे तं प्रवेश्य च ।
दु:खे प्राप्ते तुल्यभागभागिता स्नेहलक्षणम् ॥
७८८
स्त्रस्तं वस्त्रं स्वतो गत्वा यथा गृःणाति वै कर: ।
तथा दु:खे स्वयं साह्यकरणं सख्यमुच्यते ॥
७८९
सर्वदा सर्वमार्गेण चैकरूपतया मुदा ।
साह्यं कृत्वा रक्षणं तु मैत्र्या: कोष्ठति कथ्यते ॥
७९०
'इयान् स्नेहस्तस्य मयि, तथा तस्मिन ममापि च' ।
एवं विशिष्य कथनात् स्नेहे नास्ति विशिष्टता ॥


अधिकार: ८०. स्नेहपरीक्षा


७९१
स्नेहे कृते पुनस्तस्य परित्यागो न युज्यते ।
तस्मादनालोच्य मैत्रीकरणं जनयेत् व्यथाम् ॥
७९२
असकृह्बहुधा चर्चामकृत्वा कृतमित्रता ।
मरणान्तकरं दु:खमान्तं तस्मै प्रयच्छति ॥
७९३
कुलीनत्वं गुणं दोषं बन्धुपालनशीलताम् ।
विमृश्य सम्यक् ज्ञात्वाऽथ मैत्रीं केनचिदाचर ॥
७९४
कुले महति सम्भृतमपवादभयान्वितम् ।
कुरु मित्रं वाञ्छितार्थप्रदानेनापि सर्वदा ॥
७९५
कटुवाक्यं प्रयुज्यापि दुर्मार्गाद् यो निवारयेत् ।
लोकज्ञानवता तेन विमृश्य स्नेहमाचर ॥
७९६
स्नेहतत्त्वं परिज्ञातुं खेद: स्यान्मानदण्डवत् ।
तस्मात् दु:खस्य सम्प्राप्तिरपि क्षेमाय कल्पते ॥
७९७
प्रमादाद् बुद्धिहीनेन साकं स्नेहस्य सम्भवे ।
ज्ञात्वा तस्य परित्यागात अन्यो लाभो न वर्तते ॥
७९८
उत्साहजनकात् कायोदन्यकार्ये विमुच्यताम् ।
तथा मैत्री न कर्तव्या खेदे साह्यमकुर्वता ॥
७९९
उपकारं विपत्कालेऽप्यकुर्वाणस्य मित्रता ।
स्मृता मरणकालेऽपि निर्दहेच्चित्तमुग्रत: ॥
८००
निर्दुष्टपुरुषै: साकं नूनं मैत्री विधीयताम् ।
गुणहीननरस्नेहं दत्वाऽर्थं वा परित्यज ॥
 =============================================


No comments:

Post a Comment