Tuesday 6 January 2009

अधिकार 71-80


Thirukkural in Sanskrit (तिरुक्कुरळ् – संस्कृतानुवाद)

राजधर्माध्याय


अधिकार: ७१. इङ्गितपरिज्ञानम्

७०१
मुखनेत्रगतैर्भवै: अनुक्तं चान्तराश्यम्
यो वेत्ति सचिवो लोकभूषणंभवेद् ध्रुवम्
७०२
परिचगतं भावमिङ्गितै: संशयं विना
ज्ञातुं समर्थो दैवेन तुल्य एव विभाव्यताम्
७०३
मुखनेत्रस्पन्दनादिबाह्यचिह्ने: पराशयम्
यो वेत्ति तस्मै वित्तादि दत्वा तं स्ववशे कुरु
७०४
परभावपरिज्ञाता चेङ्गितैर्भाषणादृते
आकारैरन्यतुल्योऽपि ज्ञानेनायं विशिष्यते
७०५
मुखनेत्रगतं चिह्नं दृष्‍ट्वान्यस्य मनोगतिम्
अजानतां वृथा नेत्रे दर्शनैकप्रजोजने
७०६
वर्णभेदं वस्तिनिष्ठं स्फटिको दर्शयेद्यथा
मनोगतं भावभेदं मुखं तद्वत् प्रदर्शयेत्
७०७
'जडं मुखं ज्ञानशून्य'मिति वादोयुज्यते
पुरुषस्य सुखं दु:खं ज्ञात्वा स्वेन प्रकाशनात्
७०८
इङ्गिताद्भवावज्ञातुरग्रे त्वागत्य तिष्ठत: ।
यो वेत्ति हृदयं तस्मिन् दु:खस्य कथनं वृथा
७०९
नेत्रदृष्ट्याऽऽशयज्ञाता मन्त्री यदि वशे भवेत्
सदसद्भावमन्यस्य तेन जानाति भूपति: ॥
७१०
'परभावपरिज्ञाने वयं निशितबुद्धय:' ।
इति वक्तुंशक्त: स्यात् दृष्ट्या यो वेद् चाशयम्


अधिकार: ७२. सभास्वरूपम्

७११
समास्वरूपं विज्ञाय वक्तव्यार्थं विचार्य च ।
सभायां शब्दजालज्ञै: वक्तव्यं सद्गुणान्वितै: ॥
७१२
साभिकानां रुचिं बुद्‍ध्वा दोष: शब्दथियोर्यथा
ज्ञायेत तथा स्पष्टं सभायामुच्यतां वच: ॥
७१३
सभिकानां तु रासिक्यमज्ञात्वा भाषणोद्यता: ।
असमर्थाश्च कथने निर्विद्याश्च मता: समै: ॥
७१४
पण्डितानां सभामध्ये स्वपाण्डित्यं प्रदर्श्यताम्
मूढानां पुरतो युक्तंपाण्डित्यप्रदर्शनम्
७१५
ज्ञानिनां भाषणात्पूर्वं सभायां स्वीतभाषणम्
अनारभ्य विनीतेन स्थिति: स्यादुत्तमो गुण: ॥
७१६
शास्त्रज्ञानां सभायां यो दुष्टशब्दानुदीरयेत्
मुक्तिमार्गच्युतेनासौ तुल्यो दुष्यत्वमाप्नुयात्
७१७
शब्दतत्त्वपरिष्कारधुरीणानां सभाग्रत: ।
अधीतशास्त्रग्रन्थानां विद्या विभ्राजते भृशम्
७१८
स्वतोऽर्थग्राहिणामग्रे पण्डितोत्तमभाषणम्
रूढसस्ये त्वालवाले जलसेचनवद्भवेत्
७१९
विद्वत्सभायां सुश्पष्टं तत्त्वार्थकथने पटु: ।
प्रमाद्यापिभाषेत कुपण्डितसभाङ्गणे
७२०
स्वतुल्यज्ञानिशून्यायां सभायां ज्ञानिभाषणम्
अशुद्धजलधाराग्रशीर्णामृतसमं भवेत्


अधिकार: ७३ सभाकम्पविहीनता


७२१
सभास्वभावविदुषां भयनापि सभाङ्गणे
स्यात् स्खालित्यमेतेषां शब्दतत्त्वविदां नृणाम्
७२२
पण्डितेष्वग्रगण्यास्ते श्‍लाघ्यन्ते सकलैरपि
अधीतं विदुषामग्रे विस्पष्टं यैर्निरूप्यते
७२३
प्राणान् त्यक्‍तुं सन्ति सज्जा धैर्येण बहवो युधि
विद्वत्सदसि धैर्येण वक्तारो विरला: किल
७२४
यदधीतं त्वया शास्त्रं स्पष्टं सदसि तद्वद
अज्ञातं शास्त्रमन्येभ्यो ज्ञानिभ्यस्त्वं भज स्वयम्
७२५
शब्दशास्त्रं पठित्वादौ, अर्थशास्त्रं तत: पठ
सभायामुत्तरं वक्‍तुं तद्धैर्यं जनयेत् तव
७२६
मनोधैर्यविहीनस्य कृपाणो युधि निष्फल: ।
भीतस्य निष्फलं शास्त्रं सूक्ष्मज्ञानिसभाङ्गणे
७२७
सभाभीरुजनाधीतशास्त्रं सदसि निष्फलम्
कृपाणो युद्धभूमिस्थनपुंसककरे यथा
७२८
सत्सभायामनेकार्थकथने भीरुणा स्फुटम्
अधीतास्वपि विद्यासु सकलासु वृथैव ता: ॥
७२९
अधीतज्ञातविद्यांस्तान् विद्वद्गोष्ठयांभाषितुम्
भीतानज्ञातविद्योभ्योऽप्यधमान् मन्यते जन: ॥
७३०
अधीतविद्यान् सद्गोष्ठयां स्फुटं वक्तुं चकातरान्
जीवतोऽपि मृतप्रायान् लोको जानाति केवलम्


अधिकार: ७४. देश:


७३१
कृषिकर्मविदां श्रेष्ठै: स्वधर्मनिरतै: सदा
धनार्जनपरैर्वैश्यै: युक्तो देश इतीर्यते
७३२
ईतिबाधाविरहितं नानावस्तुसमन्वितम्
देशान्तरजनश्लाघ्यं देशमाहुर्मनीषिण: ॥
७३३
देशान्तरादागतानां जनानां वहनात् स्वयम्
वस्तून्युत्पाध राज्ञेदानाद् देश इति स्मृत: ॥
७३४
घोरव्याधिबुभुक्षादिरहितं रिपुबाधया
विमुक्तमेधमानंब्रुवते देशसंज्ञया
७३५
भिन्नलक्ष्यवतां सङ्घरन्तश्छिद्रैरनर्थदै: ।
घातकै: क्षुद्रभूपैश्च मुक्तो देश: स कथ्यते
७३६
परैरनाश्य: सततं क्कचित् प्राप्तोऽपि नाश्यताम्
समृद्धिसहितो देशो देशेषूत्तमतां व्रजेत्
७३७
तटाकैर्दृढदुर्गैश्च पर्वतैर्निझरैस्तत: ।
नदीमि: पञ्चभिश्चाङ्ग: युक्तं देशं प्रचक्षते
७३८
सम्पन्नीरोगताधान्यसमृद्धि: सुखजीवनम्
दुर्गश्च पञ्च देशस्य मण्डनानि भवन्ति हि
७३९
यत्‍नं विना स्वतो वस्तुदाता स्याद् देशसत्तम: ।
अन्विष्य यतमानोभ्यो दाता देशोचोत्तम: ॥
७४०
उक्तसर्वगुणाढयेऽपि देशे नास्ति प्रयोजनम्
यदि राज्ञ: प्रजानांमिथ: प्रीतिर्न वर्तते


\अधिकार: ७५.दुर्ग:


७४१
समर्थानां युयुत्सूनां राज्ञां दुर्ग: सहायद: ।
त्रस्तान्त:स्थितराज्ञांदुर्गो भवति पालक: ॥
७४२
सलिलेन विशुद्धेन मरुभूम्या नगेन च ।
सुच्छायाढयनेनापि वृतो दुर्ग: समीर्यते
७४३
औन्नत्यदैर्घ्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधै: ।
प्रकारं दुर्गशब्दएन ब्रुवते शास्त्रवेदिन: ॥
७४४
विशालप्रान्तदेशेन रक्ष्यक्षुद्रपथा युत: ।
प्राप्तारिधैर्यहन्तादुर्गशब्देन कथ्यते
७४५
अप्राप्य: शत्रुबृन्दानां नानाहारसमन्वित: ।
म्वगतानां सुखवासप्रदोदुर्ग: प्रकीर्त्यते
७४६
समये साह्यदा युद्धवीरा: स्युर्यत्र सर्वदा
सर्ववस्तुसमृद्धिश्च पत्रासौ दुर्गसंज्ञक: ॥
७४७
साक्षात्सैन्यप्रवेशन परित: ऐन्यवेष्टनात्
कैतवेनापि दुष्प्रापो दुर्ग इत्यभिघीयते
७४८
परैरावेष्टिते दुर्गे स्वस्थानैकपरायणै: ।
रिपुवारणकृद्वीरै: वृतो दुर्ग: स कथ्यते
७४९
स्थित्वैवान्त: परान् युद्धे जेतुं शक्तैभटोत्तमै: ।
प्राप्तो महत्त्वं ख्यातश्च दुर्गो भवति सार्थक: ॥
७५०
पर्वोक्तगुणयुक्तोऽपिदुर्ग: किं वा करिष्यति
युद्दोपायसमर्थानां सान्निध्यंभवेद्यदि


अधिकार: ७६.अर्थर्जनोपाय:


७५१
अनर्हानप्यर्हतमान् कर्तुं येन धनेने तु
शक्यते तादृहाद्चित्तात्, अन्यत् किं सार्थकं भवेत्
७५२
गुणिनं चाप्यर्थहीनं दूषयन्ति नरा भुवि
निर्गुणं चाप्यर्थवन्तं मानयन्ति जना: सदा
७५३
अशाम्यो धनदीपोऽयं गत्वा सर्वत्र सर्वदा
स्वाश्रितानां विरोधाख्यमन्धकारं विनाशयेत्
७५४
युक्तमार्गेण नीत्यायद्धनं समुपार्जितम्
तत्तस्य धर्मं कामंप्रददातिसंशय: ॥
७५५
दयाप्रीती परित्यज्य क्रियमाणं धनार्जनम्
नैवानन्दकरं भूयादिति मत्वा परित्यजेत्
७५६
नाथहीनं धनं घट्टशुल्कमूलागतं धनम्
जितारिसविधावाप्तकरो राज्ञां धनं भवेत्
७५७
आकिश्चने जायमानं दयारूपं शिशुं स्वयम्
धनरूपोपमाता तु वर्घयेत् पोषयेदपि
७५८
प्रविशेत् स्वीकृते कार्ये निर्भीतो धनहस्तवान्
गजयुद्धं नगारूढो यथा निर्मयमीक्षते
७५९
क्रूरायुधो वित्तसम: शत्रुगर्वविनाशक: ।
द्र्ष्‍टुंशक्यते लोके तस्माद्धनमुपार्जय
७६०
सम्पाद्य पुष्कलं वित्तं धर्ममार्गेण तिष्ठत: ।
अर्थकामौ स्वतस्तस्य सिद्धयत: पृथिवीतले


अधिकार: ७७. सैन्यप्रयोजनम्


७६१
चतुरङ्गसमायुक्तं मृतिभीतिविवर्जितम्
सैन्यं जयप्रदं राज्ञामुत्तं भाग्यमुच्यते
७६२
विपत्काले स्वयं शीर्णं भृत्वापि धृतिमत्तया
स्थातुं शक्नोति तत् सैन्यं यन्मूलबलसंज्ञितम्
७६३
मृषका मिलिता: शब्दं कुर्वन्तु भुजगान्तिके
वृथा तद् भुजगोच्छवासस्पर्शान्नश्यन्ति ते क्षणात्
७६४
अप्रधर्ष्या परैर्नैव शक्या वञ्चयितुं परै: ।
परम्परागता धैर्ययुता सेनेति कथ्यते
७६५
युद्धं करोतु कुपित: स्वयमागत्य चान्तक: ।
स्थातुं धैर्येण तस्याग्रे या शक्ता सैव वाहिनी
७६६
वीर्यं मानं तथा पूर्ववीराणां मार्गगामिता
राजविश्वसपात्रत्वं चत्वार: सैन्यगा गुणा: ॥
७६७
प्राप्तारिवारणोपायं बुद्ध्वा व्युहं विद्याय च ।
रिपुसैन्यविनाशाय प्रस्थानं सैन्यलक्षणम्
७६८
पराभिघातसहनं युद्धकर्मप्रवीणता
अभयं मास्तु वा व्यूहमात्रात् सेना वरा भवेत्
७६९
यजमानेष्वविश्वासो दारिद्रयमधिकं तथा
द्वयंस्याद्यादि तदा स्वल्पा सेनापि जेष्यति
७७०
चिरानुभवशीलैश्च वीरैर्युक्तापि वाहिनी
सेनापतिविहीना सा महिमानंविन्दते


अधिकार: ७८. सेनादार्ढ्यम्


७७१
बहवोऽस्मत्पतेरग्रे हता: पाषाणतां गता: ।
अस्मद्‌भूपपुरो नैव  स्थातव्यं भोश्च शात्रवा: ॥
७७२
अमोघं बाणमुत्सृज्य शशे प्राप्तो जयो वृथा
गजे प्रयुक्तबाणस्तु मोघोऽपि स्याज्जयावह: ॥
७७३
अरिभिस्सह निर्भीत्या योधनं वीरलक्षणम्
प्राप्ते खेदे रिपो: साह्यकर्ता वीर्यवतां वर: ॥
७७४
स्थितं शूलं गजे मुक्त्वा समीपस्थे गजान्तरे
अन्वेष्टाऽन्यस्य शूलस्य वक्ष:स्थं प्राप्य तुष्यति
७७५
रिपुशूलागमं रोषात् पश्यतो नयानद्वयम्
सनिमेषं यदि भवेत् तत् पराजयलक्षणम्
७७६
निजोरसि मुखे बाणताडनं त्वनवाप्य तु
अतीतान् दिवसान् युद्धे वीरो व्यर्थान् हि मन्यते
७७७
स्थिरकीर्तिकृते युद्धे प्राणानपि विमुञ्चताम्
पादबद्धा शृङ्खला स्यात् अलङ्कारप्रयोजना
७७८
प्राणान् तृणसमान् मत्वा प्रविशन्तो रणाङ्गणम्
वीरा भूपैर्वारिताश्च विरमन्तिते तत: ॥
७७९
स्वप्रतिज्ञाभङ्गभिया समरे मर्तुमिच्छत: ।
वीरस्य दण्डनं दातुं को वा शक्तो भवेद् भुवि
७८०
स्वीयं भूपं चाश्रुपातपर्वकं शेदयन् भट: ।
मृतश्चत् प्रार्थनापूर्वं मृतिनूनमवाप्यताम्


अधिकार: ७९. स्नेह:


७८१
आर्जनीयं स्नेहसमं श्रेष्ठं वस्तुविद्यते
शत्रुभ्यो रक्षकं वस्तु स्नेहादन्यद् भवेत् किमु
७८२
स्नेहो बुद्धिमता साकं वर्घते पूर्णचन्द्रवत्
बुद्धिहीनै: कृत: स्नेह: क्षीयते क्षीणचन्द्रवत्
७८३
गुणिभिस्तु कृत: स्नेह: क्रमेणानन्ददायक: ।
सदर्थ: पथनाद्यद्वत् क्रमशो मोददायक: ॥
७८४
परस्परकृता मैत्रीहि तोषाय केवलम्
स्खालित्ये सुहृदस्तस्माद् वारणं सख्यमुच्यते
७८५
मैत्र्या: परिचयो हेतु: नापि सेशैकवर्तिता
उभयोर्भावसाम्यं तु मैत्रीमुत्पादयेत् तयो: ॥
७८६
मैत्री मुखविकासेन केवलंहि जायते
हृदयस्य विकासो‍पि मैत्र्यां मुख्यमपेक्ष्यते
७८७
निवर्त्य निन्दितात् मार्गात् सन्मार्गे तं प्रवेश्य च ।
दु:खे प्राप्ते तुल्यभागभागिता स्नेहलक्षणम्
७८८
स्त्रस्तं वस्त्रं स्वतो गत्वा यथा गृःणाति वै कर: ।
तथा दु:खे स्वयं साह्यकरणं सख्यमुच्यते
७८९
सर्वदा सर्वमार्गेण चैकरूपतया मुदा
साह्यं कृत्वा रक्षणं तु मैत्र्या: कोष्ठति कथ्यते
७९०
'इयान् स्नेहस्तस्य मयि, तथा तस्मिन ममापि च' ।
एवं विशिष्य कथनात् स्नेहे नास्ति विशिष्टता


अधिकार: ८०. स्नेहपरीक्षा


७९१
स्नेहे कृते पुनस्तस्य परित्यागोयुज्यते
तस्मादनालोच्य मैत्रीकरणं जनयेत् व्यथाम्
७९२
असकृह्बहुधा चर्चामकृत्वा कृतमित्रता
मरणान्तकरं दु:खमान्तं तस्मै प्रयच्छति
७९३
कुलीनत्वं गुणं दोषं बन्धुपालनशीलताम्
विमृश्य सम्यक् ज्ञात्वाऽथ मैत्रीं केनचिदाचर
७९४
कुले महति सम्भृतमपवादभयान्वितम्
कुरु मित्रं वाञ्छितार्थप्रदानेनापि सर्वदा
७९५
कटुवाक्यं प्रयुज्यापि दुर्मार्गाद् यो निवारयेत्
लोकज्ञानवता तेन विमृश्य स्नेहमाचर
७९६
स्नेहतत्त्वं परिज्ञातुं खेद: स्यान्मानदण्डवत्
तस्मात् दु:खस्य सम्प्राप्तिरपि क्षेमाय कल्पते
७९७
प्रमादाद् बुद्धिहीनेन साकं स्नेहस्य सम्भवे
ज्ञात्वा तस्य परित्यागात अन्यो लाभोवर्तते
७९८
उत्साहजनकात् कायोदन्यकार्ये विमुच्यताम्
तथा मैत्रीकर्तव्या खेदे साह्यमकुर्वता
७९९
उपकारं विपत्कालेऽप्यकुर्वाणस्य मित्रता
स्मृता मरणकालेऽपि निर्दहेच्चित्तमुग्रत: ॥
८००
निर्दुष्टपुरुषै: साकं नूनं मैत्री विधीयताम्
गुणहीननरस्नेहं दत्वाऽर्थं वा परित्यज
 =============================================


No comments:

Post a Comment